________________
सुबर्थनिर्णयः ।
. १८१
दर्पणः वात् । तस्याऽविभागजनकत्वमक्षुण्णमेव । समानप्रत्ययोपात्तत्वप्रत्यासत्त्या व्युत्पत्तिवैचित्र्येणाश्रयरूपपञ्चम्यर्थस्य विभागरूपाऽपरपदार्थे आधेयतयाऽन्वयस्तस्य चाऽनुकूलतासम्बन्धेन पतत्यर्थक्रियायाम् । एवञ्च विभागस्य धात्वर्थत्वाभावान्न कर्मताप्रसङ्गन्लेशोऽपि।
यद्वा अवधिरित्यनुगतव्यवहारादवधित्वमाश्रयत्वव्याप्यमक्षुण्णोपाधिस्तदवच्छिन्न एव पञ्चम्यर्थः। एवञ्चावधेराश्रयात् पृथगुपादानम् , तस्य च स्वनिष्ठाऽवधित्वनिरूपकविभागजनकत्वसम्बन्धेन क्रियायामन्वयः । एवञ्च पूर्वकल्पे वृक्षात् पर्ण पततीत्यत्र वृक्षाऽभिन्नाश्रयकविभागजनकपर्णाऽऽश्रयकः संयोगानुकूलव्यापार इति बोधः। द्वितीये तु वृक्षाभिन्नाऽवधिविशिष्टा ताहा क्रियेति विभागजन्यसंयोगो विभागजनकक्रिया वा न पतत्यर्थः । पत्ल गतावित्यनुशासनादू गतिशब्दस्य, गम्लगतावित्यादौ संयोगानुकूलव्यापार एव प्रसिद्धेः । त्यजत्यर्थे गतिव्यवहाराभावाच्च । फलाऽवच्छिन्नव्यापारे व्यापारावच्छिन्नफले वा धातोः शक्तिमङ्गीकुर्वतः स्वोक्तफलत्वानाक्रान्तविभागस्य धात्वर्थव्यापारावच्छेदकत्वासम्भवाच्च । ___ पततेः संयोगरूपफलाऽर्थकत्वे ग्रामं गच्छतीतिवत् ग्राम पततीत्यापत्तिरिति तु न । शब्दशक्तिस्वाभाव्येन तदुपस्थितसंयोगस्याऽधोदेश एवान्वयात् । ग्रामस्य तत्त्वे तु विहगो ग्रामं पततीति त्विष्टमेव । अत एव नरकं पतित इति विग्रहे "द्वितीयाश्रित" इति द्वितीयासमासविधानं सङ्गच्छते। न च वृक्षमजहत्यपि पर्णे भूमि स्पृशति वृक्षात् पर्ण पततीत्यापत्तिः। तदुपस्थाप्यक्रियाजन्यदेशाऽन्तरविभागे वृक्षावधित्वानुपगमात् । अन्यथा क्रियाजन्यसंयोगमात्रस्यैव विभागजन्यत्वेन भूमिपर्णसंयोगस्यापि तथात्वाद् त्वन्मतेऽपि तादृशप्रयोगस्य दुर्वारतापत्तेः । अत एव
गतिविना त्ववधिना नाऽपाय इति कथ्यते ।
वृक्षस्य पर्ण पततीत्येव भाष्ये निदर्शितम् ॥ इत्यवध्यन्वययोग्यविभागाऽनुकूलत्वं विना संयोगजनिका क्रिया नाऽपायः । अत एव पर्णविशेषणतया वृक्षविवक्षायामपायस्याविवक्षणाद् वृक्षस्य पर्ण पततीत्यत्र भाष्ये षष्ठयुक्तेत्येतदर्थक हरिणोक्तम् । विभागजन्यसंयोगस्य पूर्वापरीभूतानवयवकत्वेन च व्यापारत्वाभावेन विभागस्य तदुक्तफललक्षणानाक्रान्तत्वेन तदुभयार्थकस्य पततेर्धातुत्वानापत्तेश्च ।। ___ यत्र च 'वृक्षादपसरति' इत्यादौ विभाग एव धात्वर्थस्तत्राश्रयोऽवधिमात्रं वा पञ्चम्यर्थः। तस्याधेयतया स्वनिष्ठाऽवधित्वनिरूपकत्वेन वा यथायथं विभागेऽन्वयः ।
परीक्षा नचाधोदेशस्य पतधात्वर्थकुक्षौ प्रवेशे जीवत्यादिवद्धात्वर्थसंगृहीतकर्मकत्वेनाकर्मकत्वापत्तौ 'भूमिं पतति विहगः' इति प्रयोगानुपपत्तिरिति वाच्यम् । आधोदेशस्योपलक्षणत्वस्वीकारात् । गम्धात्वर्थः-उत्तरदेशसंयोगानुकूलो व्यापार इत्यत्रोत्तरदेशस्येव । नचाश्रयरूपप्रत्ययाथें प्रकृत्यर्थस्याभेदेनान्वयेऽपि तस्य विभागरूपापरार्थे कथमन्वयः, एकशब्दोपात्तत्वादिति वाच्यम् ? परेषां कृतीष्टसाधनत्वयोरिवैकशब्दोपातयोरपि व्युत्पत्तिवैचित्र्येणान्वयः ।