________________
दर्पणपरीक्षासहिते भूषणसारै
१८०
षणीयमिति भावः । एवमश्वनिष्ठक्रियानाश्रयत्वात् कुड्यादेरपि ध्रुवत्वमित्याह -* तस्यापीति ।
उभयकर्मजविभागस्थले विभागस्यैक्यात् तद्विश्लेषजनकक्रियानाश्रयत्वाभावात् परस्परस्मान्मेषावपसरत इति न स्यादित्याशङ्कय समाधत्ते-उभावपीति । *मेषान्तरेति । यथा निश्चलमेषादपस
द्वितीयमेषस्थले निश्चलमेषस्यापसरन्मेषक्रियामादाय ध्रुवत्वम् I तथापि विभागक्येऽपि क्रियाभेदादेकक्रियामादाय परस्य ध्रुवत्वमिति । तथा च विश्लेषाश्रयत्वे सति तज्जनकतत्क्रियानाश्रयत्वं तक्रियायामपादानत्वं वाच्यम् । क्रिया चात्र धात्वर्थो न तु स्पन्दः । तेन वृक्षकर्म्मजविभागवति वस्त्रे, वृक्षाद् वस्त्रं पततीति सङ्गच्छते ।
दर्पण:
क्रियाविशेषणीयेत्याह - *क्रिया चेति । धात्वर्थ इति । प्रकृतधात्वर्थ इत्यर्थः । *न तु स्पन्दमात्रमिति । यथाकथञ्चित्प्रतीयमानक्रियापीत्यर्थः । वृक्षकर्मजविभागaft वस्त्रे इत्युक्त्या वस्त्रद्वारकसम्बन्धेन क्रियान्वयित्वं वृक्षस्य सूच्यते । क्रियाजनकत्वं कारकत्वमिति मते तु तत्र वृक्षस्याऽपादानत्वं दुरुपपादमेव ॥ सङ्गच्छत इति । तादृशवृक्षनिष्ठक्रियायाः प्रकृतपतधात्वर्थत्वाऽभावेन तद्वति वृक्षे नाव्याप्तिरिति भावः ।
अत्र वदन्ति - पञ्चम्या आश्रय इव विभागोऽप्यर्थोऽविभागार्थकपतत्यादिसमभिव्याहारे करणतृतीयाया व्यापारवद् अनेकधातूनां विभागे शक्तिकल्पनाsपेक्षया एकस्या पञ्चम्यास्तत्र शक्तिकल्पनायां लाघवात् । विभागस्य धात्वर्थत्वे द्वितीयादिस्थले इव विभागस्य धातुना लाभादाश्रयमात्रं पञ्चम्यर्थ इत्येव ब्रूयात् । अवधेराश्रयात् पृथगुपादानवैयर्थ्यात् । त्यजिपत्त्योः पर्यायतापत्तेश्च । प्रकृतेऽधोदेशसंयोगाऽनुकूलक्रियैव पतत्यर्थः । अधोदेशश्च संयोगांऽशे उपलक्षणम् । गम्युपात्तसंयोगफल उत्तरदेशवत् विभागाऽधीनपूर्व देशसंयोगनाशमन्तरेण क्रियायाः संयोगजनकत्वाऽसम्भपरीक्षा
'वृक्षात्पर्ण पतति' इत्यत्र क्रियाजन्यविभागः पतत्यर्थः, तद्विश्लेषेत्यत्र तत्पदं विश्लेषस्य विशेषणम् । विश्लेषे हेतुपददानेऽप्युभयनिष्ठक्रियायां प्रविभाग एक एव । तत्र तद्विश्लेषहेतु क्रियानाश्रयत्वविरहादव्याप्तिवारणाय क्रियायामपि तत्पदं देयमित्याशयेनाह - *उभयेत्यादि । *तज्जनकक्रियेति । तज्जनकात् क्रियेत्यर्थः । क्रियायां प्रकृतधात्वर्थत्वमपि विशेषणं देयमित्याशयपरम्परया नोपपद्यते । पत्-धात्वर्थविश्लेजनक क्रियां प्रति अजनकत्वादित्यस्य प्रसङ्गः ; क्रियावाचकत्वं कारकत्वमिति मतेन ।
यत्तु सिद्धान्तरीत्या क्रियाजनकत्वं कारकत्वमिति मतम् ; तदा वृक्षस्य वस्त्रं पततीत्येव । अत्रेदमवधेयम् - वृक्षमजहत्यपि पर्णे शाखाया न्युब्जत्वेन यत्र - भूमिपर्णसंयोगस्तत्र वृक्षस्य पर्णे भूमि पततीति प्रयोग इष्यते - इत्यतः पत- धात्वर्थोऽधःसंयोगानुकूलक्रियामात्रम् ; न तु पत्धात्वर्थे विभागस्य प्रवेशः । तस्य प्रतीतिस्तु पञ्चम्याविभागे - आश्रये च शक्तिकल्पनयोपपाद्या । अत एव त्यजिपतत्योः पर्य्यायित्वं न ।