________________
..... सुबर्थनिर्णयः। . .
१९५ व्यापारोऽपि, पञ्चम्या विभागमात्रम्, चतुर्थ्या उद्देश्यत्वमात्रम् ।
दर्पणः . *विभागमात्रमिति* ॥ मात्रपदेनाश्रयत्वव्यवच्छेदः । विभागस्याश्रयतयाऽन्वया
परीक्षा विषयत्वमेव तत्। 'स्वर्गाय पुण्यम् , रन्धनाय स्थाली, 'मुक्तये हरिं भजति' इत्यादयः प्रयोगा इष्यन्त्येव । वार्तिकं दृष्ट्वा सूत्राप्रवृत्तेः, नतु सामर्थ्यादिति सूत्रवैयर्थ्यशङ्का । __ यद्वा 'यागाय याति' इत्यादौ तुमद्यत्र तादर्थस्योक्तत्वादप्राप्तचतुर्थीसिद्धयर्थ तदारब्धम् । 'ब्राह्मणाय दधि' इत्यादावपि तादथ्यें चतुयेव विप्राय आदिपदस्य विप्रादिसुखादिलाक्षणिकत्वात् । विष्णवे नमः, एषोऽर्धः सूर्याय नमः इत्यादौ “नमः स्वस्ति”इति सूत्रेण चतुर्थी। तत्र नमःशब्दो नमस्कारार्थकः त्यागार्थकश्च । नमस्कारश्चस्वनिष्ठापकृष्टत्वप्रकारकज्ञानानुकूलो व्यापारः । स एवाद्यस्थले प्रतीयते । द्वितीयस्थले तु त्यागः । प्रथमे-चतुर्थ्यर्थो निरूपितत्वम् , तस्य नमःपदार्थघटकाप्रकृष्टत्वेऽन्वयः ।
अत्रेदम्बोध्यम्-दाधात्वर्थस्त्यागविशेषस्य सूर्यायाय॑ ददाति' इत्यादिप्रयोगस्य दर्शनादभिधायको यद्यप्यस्ति; तथापि तत्र त्यागस्यान्यकर्त्तकस्यापि प्रतीतिरस्त्येव । उत्तमपुरुषप्रयोगे 'अहं ददे' इति प्रयोगः । नमःपदेन तु स्वभावतः स्वोच्चारणकर्तृपुरुष. कर्तृकत्वोपरक्त एव त्यागोऽभिधीयते। अतस्तत्र 'अहं नमः' इति न प्रयोग इति। नचैवं यत्र यजमानो द्रव्यस्य त्यागकर्ताऽस्तिः तत्र ऋत्विक् 'विष्णवे नमः' इति न प्रयुज्यतेति वाच्यम् ? तत्र त्यागे यजमानकर्त्तके स्वीयत्वारोपेण तथा प्रयोगात् । स च आरोपः आहार्यः । नचैवं तत्र नमःपदघटितवाक्यस्य ऋत्विगुच्चारितस्य बाधितार्थबोधकतयाऽप्रामाणिकत्वेनादृष्टजनकत्वं न स्यादिति वाच्यम् ? शास्त्रबलात्तथात्वेऽप्यदृष्टजनकत्वस्य कल्पनादिति । 'स्वस्ति राज्ञे' इत्यादौ स्वस्तिशब्दो मङ्गलार्थः । सम्बन्धचतुर्थ्यर्थः । राजसम्बन्धि मडालमिति बोधः । यत्र तु 'स्वस्त्यस्तु प्रजाभ्य' इति प्रयो. गस्तत्र प्रजासम्बन्धिमङ्गलस्य कर्त्ततया-आशंसाविषयभवनेऽन्वयः। प्रजासम्बन्धि मङ्गलकर्त्तकमाशंसाविषयो भवनमिति बोधः । स्वाहास्वधाशब्दौ त्यागार्थको । तत्रायं विशेषः देवताभ्यो दाने स्वाहाशब्दस्यः पितृभ्यो दाने च स्वधाशब्दस्य प्रयोगः । एवं वषट् शब्दोऽपि देवेभ्यो दाने। दैत्येभ्यो हरिरलमित्यादौ अलंशब्दार्थसामर्थ्यवान् तदेकदेशसामर्थ्य चतुर्थ्यर्थस्य मारणादिप्रयोजकत्वरूपसम्बन्धस्यान्वयः, दैत्यादिमारणप्रयोजकसामर्थ्यवान् हरिरिति बोधः। 'भक्तिर्ज्ञानाय कल्पते' इत्यादौ तु "क्लपि सम्पद्यमाने च” इति चतुर्थी । सा च प्रथमाया बाधिका । अराध्यत्वप्रकारकं ज्ञानं हि भक्तिः । 'वाताय कपिला विद्युत्' इत्यादौ "उत्पातेन ज्ञापिते च" इति चतुर्थी । प्राणिनां शुभाशुभसूचको भूतविकार उत्पातः। ज्ञाप्यज्ञापकभावरूपसम्बन्धश्चतुर्थ्यर्थः। वातज्ञापिका कपिला विद्युदिति बोधः । 'विप्राय हितम्' इत्यादौ हितशब्देन समासविधानज्ञापकात्, चतुर्थी । इष्टसाधनं हितशब्दार्थः सम्बन्धश्चतुर्थ्यर्थः। एवं च 'विप्राय हितं धनम्' इति शब्दाद्विप्रसम्बन्धीष्टसाधनमिति बोधः । विप्राय सुखमित्यत्रापि ज्ञापकादेव चतुर्थी, सापि सम्बन्धाथिकैव।
*व्यापारोऽपीति*। अपिनाऽऽश्रयसमुच्चयः, आश्रयत्वस्य वा। विभागमा(१) 'बाधज्ञानसमकालीनेच्छाजन्यज्ञानम्' इति हि तदर्थः ।