SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ १९६ दर्पणपरीक्षासहिते भूषणसारे - अत एवाssकृत्यधिकरणमपि न विरुद्ध्यत इत्यभिप्रेत्याह-*शक्तिरेव ॥ वेति षण्णामपीति शेषः । “षष्ठी शेषे" (पा०सू०२ | ३ |५० ) इति सूत्रात् तस्याः सम्बन्धमात्रं वाच्यम् । कारकषष्ठयास्तु - शक्तिरेवेत्यूह्यम् ॥ दर्पणः देव वृक्षादाववधित्वलाभादिति भावः । वस्तुतस्तु वृक्षादेरवधित्वरूपसम्बन्धेन पञ्चम्यर्थविभागेऽन्वय इत्युक्तम् । उद्देश्यत्वमात्रमित्यनेनाप्याश्रयत्वस्य सः ॥ *अत एवेति* ॥ कर्मत्वादिशक्तेस्तत्तद्विभक्तिवाच्यत्वकथनादेवेत्यर्थः ॥ *न विरुद्ध्यत इति ॥ शक्तिग्रहे जातिव्यक्त्योरुभयोर्भानाविशेषेऽपि जातिरेव शक्या, 'नागृहीतविशेषणन्यायाद्' 'विशेष्यं नाभिधागच्छेत्' इतिन्यायाच्च । व्यक्तिशक्तौ व्यभिचारात् तासामानन्त्याच्चेति तत्र सिद्धान्तितमिति भावः ॥ कारकविभक्त्यर्थं निरूप्य प्रसङ्गात् षष्ठ्यर्थं निरूपयति — मूले - सम्बन्ध इति ॥ “षष्ठी शेषे" (पा०सू० २।३५०) इति सूत्रात् कारकप्रातिपदिकार्थभिन्नः स्वस्वामिभावादिसम्बन्धश्व तत्र शेषपदाऽर्थः । तत्राऽन्यविभक्तीनां मतभेदेन धर्मिधर्मवाचकत्ववदेतस्यास्तथा भ्रमो माभूदित्याशयेनाह सारे - *सम्बन्धमात्रमिति ॥ पक्षद्वयेऽपीति शेषः । परीक्षा त्रमिति । एवं च वृक्षादायातीत्यादौ वृक्षस्य विभागाश्रयत्वादवधित्वलाभादिति भावः । वस्तुतस्तु विभागस्य द्वेधाभानानुपगमादवधित्वरूपसम्बन्ध एव पञ्चम्यर्थस्तस्य धात्वर्थेकदेशविभागेऽन्वयः । अत एव - कर्मत्वादिशक्तेस्तत्तद्वाच्यत्वकथनादेव । न विरुध्यत इति । तंत्र हि (१) "नागृहीतविशेषण' न्यायेन धर्ममात्रस्य वाच्यत्वं व्यवस्थापितम् । अथ षष्ठयर्थमाह-षष्ठी शेष इति सूत्रादिति । अत्र शेषपदार्थः - कारकप्रातिपदिकार्थभिन्नसम्बन्ध एव । अत्र न मतभेदेन धर्मिधर्मोभयस्य वाच्यत्वमिति सूचनाय मात्रपदम् । तत्रायं विशेषः क्वचित्सम्बन्धत्वरूपसामान्यधर्मपुरस्कारेण वाच्यता, 'मातुः स्मरति' इत्यादौ यथा । क्वचित् स्वस्वत्वादिविशेषरूपेण । अत एव न विरोधधर्मावच्छिन्नप्रकारकसंशयः । अत एव चैत्रेण पालिते मैत्रीयहस्त्यश्वादिधने नेदं चैत्रस्येति प्रयोगः । ननु सम्बन्धस्योभयनिष्ठत्वाद्विशेषणाद्यथा षष्ठी भवत्येवं विशेष्यादप्येषा कथं न स्यादिति चेद् ? न । यद्यप्यसौ द्विष्टस्तथाऽपि यस्य विशेषणत्वविवक्षा तद्वाचकादेव षष्ठी, विशेष्यस्य तु प्राधान्यान्न ततः सा प्रतीयते । विशेषणतया विवक्षितस्य विशेषणत्वं सम्बन्धं विनाऽनुपपन्नमिति तदुपकारकत्वस्य सम्बन्धे सत्वादिति । तदुक्तं हरिणा“द्विष्ठोऽप्यसौ परार्थत्वाद् गुणेषु व्यतिरिच्यते । तत्राभिधीयमानश्च प्रधानेऽप्युपचर्यते ॥ इति । परार्थत्वाद्—गुणानां परं प्रतिविशेषणत्वाद् । गुणेष्वसौ व्यतिरिच्यते-अद्भुततया. प्रतीयते । तत्र - विशेषणे । अभिधीयमानो - राजादिनिरूपितविशेष्यताया राजपदसन्निधाने प्रतीयमानाया उपकारको भवति । एतेन विशेषणत्वस्य सम्बन्धं विनाऽनुपपत्या नियमेन तस्य साकाङ्क्षा दर्शिता । (१) 'नागृहीतविशेषणाबुद्धिर्विशेष्यं नाभिगच्छति' इति ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy