________________
- सुबर्थनिर्णयः ।
१९७ "सप्तमीपञ्चम्यौ कारकमध्ये” (पा०सू०२।३।७) इति सूत्रे शक्तिः कारकमिति पक्षस्य भाष्ये दर्शनात् । एवञ्च 'देवदत्तस्य गौा
।
- दर्पणः
स च क्वचित् सम्बन्धत्वेन सामान्यधर्मेण वाच्यः, कचिच्च विशेषरूपेणैव । तत्र सामान्यरूपेण "मातुः स्मरति" इत्यादौ । विशेषरूपेण विवक्षायां स्वस्वविषये तत्तद्विभक्तीनां प्रसरात्। "राज्ञः पुरुषः” इत्यादौ तु विशेषरूपेणैव । अनेकसम्बन्धसत्वेऽपि सम्बन्धविशेषविवक्षया 'नेदं चैत्रस्य' इति प्रयोगात् , सम्बन्धश्च सर्वत्र क्रियाकारकभावमूलक एव । “षष्टी शेषे” इति सूत्रे, 'राज्ञः पुरुष' इत्यत्र राजा पुरुषाय ददातीति सम्प्रत्ययाद्राजा कर्ता पुरुषः सम्प्रदान, वृक्षस्य शाखेत्यत्र वृक्षे शाखेति लौकिकप्रसिद्या वृक्षः शाखाया अधिकरणम् । यदेतत् सम्प्रदानं नाम चतुर्भिः प्रकारैरेंतद्भवति-'क्रयणादपहरणाद्याञ्चायाः परिवर्तनरूपाद्विनिमयादू इत्यनेन यत्राश्रूयमाणा क्रियाः तत्रापि तत्फलसम्बन्धानुमितकरणत्वादिशक्तर्वस्तुतः सत्त्वादित्यर्थकेन भाष्येण शेषपदार्थाऽप्रसिद्धिमाशङ्कयैवं तर्हि कर्मादीनामविवक्षा शेष इति शेषोक्तः । क्रियाकारकसम्बन्धस्य वस्तुतः सर्वत्र सत्त्वेऽपि तन्निमित्तस्य स्वस्वामिभावादेः सम्बन्धस्वेन विवक्षणे तस्याऽविवक्षा । अविवक्षणात् शेषपदार्थसौलभ्यमिति तद्भावः ।
न च सम्बन्धस्योभयनिरूप्यत्वात् 'राज्ञः पुरुष' इत्यत्र राजपदोत्तरमिव पुरुषपदो. त्तरं षष्ठ्यापत्तिरितिचेद् ? न यदा राज्ञः उपकारकत्वविवक्षा तदा राजपदादेव । यदा तु पुरुषस्य तद्विवक्षा तदा पुरुषपदादपि, पुरुषस्य राजेति । नचैकदोभयत्र सेति नोक्ताऽतिप्रसङ्गः । तदुक्तं हरिणा
द्विष्ठोऽप्यसौ परार्थत्वाद् गुणेषु व्यतिरिच्यते ।
तत्राऽभिधीयमानश्च प्रधानेऽप्युपचर्य्यते ॥ इति । परार्थत्वात् = परं प्रति गुणानां विशेषणत्वाद् , विशेषणत्वेन विवक्षितस्य सम्बन्धं विना विशेषणत्वाऽसम्भवेन सम्बन्धो व्यतिरुच्यते ; उद्भूततया प्रतीयते इति तत्रैव षष्ठी। विशेष्यस्य तु पदाऽन्तराऽसमभिव्याहारे स्वरूपेणैव प्रतीयमानत्वान्न विशेष्यतानियामकसम्बन्धाकाङ्का । तत्र विशेषणे अभिधीयमानः षष्ठया प्रतीयमानः प्रधाने विशेष्येऽपि उपयुज्यते; तस्य द्विष्ठत्वस्वभावाद्राजनिरूपितविशेष्यताया राजपदसन्निधाने प्रतीयमानाया उपकारको भवतीति तदर्थः॥ ___*कारकषष्ठया इति* । “कर्तकर्मणोः कृति" (पा०सू० २।३।६५) इत्यादिसूत्रविहितषष्ठया इत्यर्थः । शेषविहितषष्ठयाः सम्बन्धरूपधर्मवाचकतया षष्ठीत्वेनैतस्या अपि तद्वाचकत्वस्य न्याय्यत्वादिति भावः। ननु कर्तृकर्मादिकारकविहिततृतीयादीनां कथं कादिधर्मवाचकत्वमत अत-*सप्तमीपञ्चम्याविति । तथाच-धर्मस्याऽपि कारकत्वस्य भाष्यसम्मतत्वेन तासां तद्वाचकत्वे न दोष इति भावः॥ *दर्शनादिति ॥ तत्र हि द्रव्यं कारकमिति पक्षे 'अद्य भुक्त्वाऽयं द्वयहे द्वयहाद्वा
परीक्षा ननु कर्त्तकर्मादिकारके विहितविभक्तेः कथं कादिधर्मबाधकत्वमत आह*सप्तमीति । 'अध भुत्क्वाऽयं द्वयहे द्वयाहाद्वा भोक्ता' इत्यत्र कर्त्तकारकस्यैकत्वेन तन्मध्यत्वं कालस्य न सम्भवति । अतः कारकशब्दस्य तद्वयक्तिपरत्वमावश्यकमेव ।