SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १९८ दर्पणपरीक्षासहिते भूषणसारे - ह्मणाय गेहादू गङ्गायां हस्तेन मया दीयते' इत्यत्र देवदत्तसम्बन्धिनी या गौस्तदभिन्नाश्रयकत्यागाऽनुकूलो ब्राह्मणोद्देश्य को गेहनिष्ठवि दर्पणः भोक्ता' इत्यादौ देवदत्त रूपकर्त्तृ कारकस्यैक्यान्मध्यव्यपदेशासम्भवादप्राप्तसप्तमी पञ्चम्योरुपपदनाय प्रवृत्तस्य 'क्रियामध्य इति वक्तव्यम्' इति वार्त्तिकखण्डनायोक्तम् । नान्तरेण साधनं क्रियायाः प्रवृत्तिर्भवति । क्रियामध्यं च कारकमध्यमपि भवति, तत्र कारकमध्ये इत्येव सिद्धमिति तत्र साधनमित्यस्य शक्तिमित्यर्थः । 1 तथाच देवदत्तादिरूपकर्त्तद्रव्यस्यैक्येऽपि कालभेदभिन्नभुजिक्रियाऽनुमितकारकपदार्थ कर्तृत्वशक्त्योर्भेदात् तन्निमित्तमध्यव्यपदेशाऽबाधाद्यथोक्तेऽनुपपत्त्याभावात् 'क्रियामध्ये' इति वार्त्तिकं नारम्भणीयमिति तद्भावः । इदमुपलक्षणमनभिहितसूत्रभाष्यस्य । तत्र 'संख्या विभक्त्यर्थ' इति पक्षेणाऽनभिहिताधिकारं समर्थ्य द्वयोः कारकयोरन्यतराऽभिधाने विभक्त्यभावप्रसङ्गः क्व ? प्रासाद आस्ते, शयन आस्ते, किम् कारणम् ? यदि प्रत्ययेनाऽभिहितमधिकरणमिति कृत्वा सप्तमी न प्राप्नोतीत्याशङ्कय, न वाऽन्यतरेणाभिधानात्, अनभिहिते विधानमित्यादिना प्रसज्ज्यप्रतिषेधे पर्युदासे वा नञर्थं दूषणं परिहृत्य यदि साधनं द्रव्यं स्यात् तदेकमेव तच्चाऽभिहितमिति पूर्वोक्तपरिहारो न सम्भवति । अथ शक्तिः साधन तदा तस्याभेदादनभिहितत्वसम्भवाद्भवत्युक्तपरिहार इत्यभिप्रेत्य किं पुनर्द्रव्यं साधनमा होस्विद् गुण इत्याशङ्कयोक्तं, किं पुनःसाधनं न्याय्यम् ? गुण इत्याह । कथं ज्ञायते । एवं हि कश्चित् कञ्चित् पृच्छति, क्व देवदत्त इति ? । स तस्मायाचष्टेऽसौ वृक्षे इति । कतरस्मिन् यस्तिष्ठति स वृक्षोऽधिकरणं भूत्वाऽन्यशब्देनाभिसम्बध्यमानः कर्त्ता सम्पद्यते । द्रव्ये साधने यत् कर्म कर्मैव स्याद्यत् करणं करणमेव यदधिकरणमधिकरणमेव" इति । कैटेनाsपि 'यदि द्रव्यं साधनं स्यात् तदा तस्यैकरूपत्वात् तन्निबन्धनाबाधितप्रत्यभिज्ञाविषयत्वाद् नानाऽर्थक्रियाकरणनिबन्धनो 'घटेन जलमाहर' 'घटं कुरु' घंटो sस्तीति व्यपदेशो न स्यात् । दृश्यते चाऽसौ । तस्मान्नानाशक्तिभावावगमः सिद्धः" इति तद्विवृतम् । एवं च शक्तिपक्षस्याssकरसम्मततया द्वितीयादीनां कर्मत्वादौ शक्तिरिति वदतां मतमपि सम्यगेवेति भावः । “प्रातिपदिकार्थ" इतिसूत्रविहितप्रथमाया यथायथं प्रातिपदिकार्थो लिङ्ग परिमाणं चाऽर्थः । कर्माssद्याधिक्ये प्रथमा मा भूदिति तत्र मात्रग्रहणम् । द्वन्द्वान्ते श्रूयमाणस्य तस्य प्रत्येकं द्वन्द्वघटकपदार्थेऽन्वयात् प्रातिपदिकार्थमात्रे प्रथमेत्यादिवाक्यभङ्गः । प्रातिपदिकार्थत्वं च नामनिष्ठशक्त्यवच्छिन्न जनकतानिरूपितजन्यताश्रयोपस्थितित्वव्यापकविषयताप्रतियोगित्वम् । उच्चैरित्याद्यर्थविषयितायास्तादृशोपस्थितित्वव्यापकत्वात् तत्र प्रथमोपपत्तिः । एवं कृष्ण इत्यादौ कृष्णादिविषयिताया इव पुंल्लिङ्गादिविषयिताया अपि तदुपस्थितित्वनैयत्यं व्यक्तमेव । यद्यपि 'द्विकं प्रातिपदिकार्थः' इति पक्षे लिङ्गस्योपस्थितिविषयत्वं दुर्घटं तथाप्यनुभवाऽनुरोधेन शक्यार्थोपस्थितेः प्राग् लिङ्गोद्बोधकसम
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy