SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ ... सुवर्थनिर्णयः। १९९ भागजनको गङ्गाऽधिकरणको हस्तकरणको मनिष्ठो व्यापार इति बोधः । *यथायथम्*-उक्तप्रकारेण ॥ अत्रमानमुपदर्शयन् 'घटंजानाति' इत्यादौ द्वितीयायाविषयतायां लक्षणेति बह्वाकुलं वदतो नैयायिकादीन् प्रत्याह-सुपां कर्मतीति ॥ . दर्पणः वधानस्य नियमेन कल्पनात् तस्य तत्त्वं बोध्यम् । एवञ्चालिङ्गा नियतलिङ्गाश्च प्राति. पदिकार्थमात्र इत्यस्योदाहरणोनि, तटादिशब्दजन्योपस्थितौ तु पुंलिङ्गादिभानस्या नयत्यात्तत्राऽप्राप्तप्रथमाविधानाय लिङ्गन्ग्रहणम् ।। __सिंहो माणवकः' इत्यादौ सादृश्याऽद्याधिकार्थस्य प्रतीतावप्यन्तरङ्गत्वात् स्वाऽर्थमाजनिष्टात् तस्मात् प्रथमा सुलभैव । तत्र प्रथमाऽर्थलिङ्गस्य विशेषणतया प्रकृत्यथेऽन्वयो योग्यताबलादनुभवाच्च । तथैव कार्यकारणभावकल्पनात् । एवं 'द्रोणो बीहिः' इत्यादौ द्रोणप्रातिपदिकार्थातिरिक्तद्रोणपदात् परिमाणस्याधिक्येन भानात्तत्र परिमाणग्रहणम् । न च ब्रीडादिपदसमभिव्याहारात् तद्भानेऽप्यन्तरङ्गत्वात् प्रातिपदिकार्थमात्र एव सास्त्विति वाच्यम् । तथा सति द्रोणपदार्थस्य भेदसम्बन्धेनाऽन्वयानुपपत्तेः । प्रथमार्थस्य तस्य तु भेदेनाऽन्वये न किञ्चिद् बाधकमिति सम्प्रदायः॥ नव्यास्तु-प्रातिपदिकार्थस्तत्तत्पदप्रवृत्तिनिमित्तं, तदाश्रयश्च । अत एव लिङ्गग्रहणं चरितार्थम् । अन्यथा “स्वामोर्नपुंसकात्" ( पासू० ७११८३ ) इति सूत्रप्रामा. ण्यात् तस्याऽपि प्रातिपदिकार्थतया तदुपपादनवैयापत्तेः। आश्रयत्वं च वैज्ञानिकम् । शक्यताऽवच्छेदकारोप एव लक्षणेत्यन्यत्र व्यवस्थापितत्वात् । गोपीत्यादौ प्रकृत्यर्थस्य लाक्षणिकत्वेऽपि न क्षतिः । तटादिशब्दानां लिङ्ग वाच्यमेव । विसर्गादयस्तयोतकाः। __ एवञ्च प्रातिपदिकार्थ इत्यस्यालिङ्गा लिङ्गप्रवृत्तिनिमित्तकाव्ययस्त्रीपुंसादिशब्दाश्चोदाहरणमितरे लिङ्गमात्राद्याधिक्यस्य । द्रोणत्वादिप्रवृत्तिनिमित्तकद्रोणादिशब्दानां परिमाणत्वेन परिमाणमपि लिङ्गवद् विशेष्यान्वय्यर्थः । एवञ्च लिङ्गवत् प्रातिपदिकार्थत्वाभावात् परिमाणग्रहणम् । “वीरः पुरुषः” इत्यादौ पुरुषादिपदसन्निधाने विशेष्यविशेषणभावस्याधिकस्यभानेऽपि तत्समभिव्याहारात् पूर्व स्वार्थमात्रनिष्टात्तस्मात् सेत्याहुः॥ . “सम्बोधने च" (पा०सू० २।३।४७ ) इति विहितप्रथमायास्तु सम्बोधनमर्थः । प्रातिपदिकार्थापेक्षया तस्याधिक्येन भानात् पूर्वसूत्राविषयत्वात् तत्सूत्रारम्भः । तच्चाभिमुखीभवनानुकूलो व्यापारः क्रियान्वय्येवेति प्रतिपादितं प्राक् । 'यथायथं विभक्त्यर्थाः' इत्यत्रत्यं यथायथपदं व्याचष्टे-*उक्तप्रकारेणेति । यदर्थबोधे या विभक्तिः समर्था तस्याः सोऽर्थोऽवसेयः। तथैवोक्तं प्राग् , द्वितीयातृतीयासप्तमीनामित्यादिनेति भावः॥ ____ *अत्रेति । सुपा कर्मादिवाचकत्व इत्यर्थः । *नैयायिकान् प्रतीति । प्राचीनान प्रतीत्यर्थः । यथा तन्मतं तथाख्यातशक्तिनिरूपणावसरे प्रतिपादितम् । . ननु 'सुपा कर्मादयोऽप्यर्थाः' इति भाष्यात् सिध्यतु तेषां कर्मादौ शक्तिः। विष. यत्वादौ लक्षणायां तु किं बाधकम् । क्रियाजन्यफलशालित्वरूपमुख्यकर्मत्वबाध एवं
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy