________________
२००
दर्पणपरीक्षासहित भूषणसारेअयम्भावः
सुपा कर्मादयोऽऽप्यर्थाः सङ्ख्या चैव तथा तिङाम् ।
प्रसिद्धो नियमस्तत्र नियमः प्रकृतेषु वा ॥ इति वार्तिकतद्भाष्याभ्यां कर्मादेर्वाच्यतायास्तन्नियमस्य च लाभः ।
तथाहि-"स्वौजसमौट” (पासू०४।१।२) “कर्मणि द्वितीया" (पासू०२।३।२) इति "द्वयेकयोद्विवचनैकवचने" (पा०सू०१।४।२२) इत्यादेः, "लस्य" (पासू०३।४।७७) "तिपतसूझि" (पा०सू०३।४.७४) "तान्येकवचनद्विवचन" (पासू १।४।१०१) इत्यादेश्चैकवाक्यतया कर्मादेस्तत्सङ्ख्यायाश्च वाच्यता लभ्यते । तथा तन्नियमश्च द्विविधो लभ्यते । द्वितीया कर्मण्येव, तृतीया करण एवेत्येवमादिरनियमः । कर्मणि द्वितीयैव, करणे तृतीयैवेत्येवशब्दनियमश्च । उभयथा
दर्पणः तत्प्रसरादत उत्तरार्द्धप्रदर्शितनियमं बाधकत्वेनोपदर्शयिष्यन्नाशयं प्रकाशयति-*अयम्भाव इत्यादि। "स्वाजसमौ” (पा०सू०४।१।२) इत्यत्र कारकविभक्तिष्वादा द्वितीयाया उपादानादू वार्तिकेऽपि तदर्थकर्मणः प्रानिर्देशः । कर्मादीत्यादिना कारकान्तरसंग्रहः, अपिना शक्तिः कारकमितिपक्षोक्तकर्मत्यादिशक्तीनां समुच्चयः।
*तथा तिडामिति । तद्वत्तिकामपि सङ्ख्याकर्माद्यर्थ इत्यर्थः। तत्र-सुप्तिक्षु । प्रकृतेषु-अर्थेष्वित्यर्थः । *वार्तिकतद्भाष्येति । लोकादेव बहुत्वादिषु बहुवचनादि भविष्यति, किमर्थ, “बहुषु बहुवचनम्" । ( पा० सू० १।४।२१) इत्यादिसूत्रमित्याक्षेपे सुप्तिडामविशेषेण विधानाद् दृष्टविप्रयोगत्वाच्च नियमार्थे वचनमितिसन्धाय, नियमाकारप्रदर्शकमिदंश्लोकवार्तिकम् ।। ___ अथवा प्रकृतार्थानपेक्ष्य नियमः । के च प्रकृताः, एकत्वादयः एकस्मिन्नेवैकवचनं, न द्वयोर्न बहुषु इत्यादि तद्भाष्यं च ताभ्यामित्यर्थः ।
नियमाकारमाह-द्वितीया कर्मण्येवेति । प्रकृताऽभिप्रायम् । *उभयथापीति । विभक्त्यपेक्षया अर्थाऽपेक्षया चेत्यर्थः । विभक्तिनियमोऽपि द्विधा-अर्थविशेषाऽपेक्षस्तत्सामान्याऽपेक्षश्च । तत्राद्यः-कर्मार्थयोग्यप्रातिपदिकाच्चेद् द्वितीया तदा कर्मण्येव, न करणादौ । कर्मादियोग्ये तदहितप्रातिपदिकाऽर्थ एव प्रथमा, न कर्मादौ । संख्यावदर्थयोग्यप्रातिपदिकाच्चेदेकवचनं तदा एकत्वे एव न द्वित्वादावित्याकारकः । द्वितीयस्तु-प्रातिपदिकाच्चेद् द्वितीया कर्मण्येवेत्याकारकः । अर्थनियमस्तु-कर्मार्थयोग्यप्रातिपदिकाच्चेत् कर्मणि विभक्तिस्तदा द्वितीयैव । कर्मादिरहिते तद्योग्यप्रातिपदिकार्थे प्रातिपदिकात्प्रथमैवेत्याकारक इति । सिद्धस्यैकवाक्यताबलेनेत्यादिः ।
परीक्षा *अत्र-कादिवाचकत्वे । *तथातिकाम्-तिडामपि कर्मादयोऽर्थः, संख्या वार्थः । *तत्र*-कर्मादिषु। नियमः-प्रसिद्धः, कर्मणि द्वितीयैवेत्याद्यर्थनियमः प्रसिद्धः । यद्वा प्रकृतेषु नियमः, प्रकृताननपेक्ष्य नियमः, द्वितीयाकर्मण्येव न करणादावितिरीत्या एतद्वयनियमः-प्रत्ययनियमो अर्थनियमश्चेति। विनिगमनाविरहाद्विविधस्यापि