________________
सुबर्थनिर्णयः ।
२०१ ऽपि सिद्धनियमविरुद्धं लक्षणादिकमसाधुत्वप्रयोजकमिति, याशे कर्मणि "नाऽनृतं वदेत्" इति निषेधविषयो भवत्येवेति स्वेच्छया लक्षणाऽपि विभक्तावप्रयोजिकैव । अत एव 'विभक्तौ न लक्षणा इत्यादिनैयायिकवृद्धानां व्यवहार इति दिक् ॥ २४ ॥ .... • इति श्रीरङ्गोजिभट्टात्मजकौण्डभट्टविरचितं वैयाकरणभूषणसारे ।
सुबर्थनिर्णयः समाप्तः॥ ३॥
दर्पणः तथाच विषयत्वस्य निरुक्तकर्मत्वाऽनात्मकत्वेन तत्र द्वितीयादेः शास्त्रेणाविधानाद तदर्थतात्पर्येण तदुच्चारणस्याऽनृतत्वादित्यर्थः । *अत एवेति । विभक्तो लक्षणाया अप्रयोजकत्वादेवेत्यर्थः । । ___ ननु व्याकरणस्य शक्तिनिरूढलक्षणान्यतरप्रतिपादकत्वेन यत्र मुख्याऽर्थबाधप्रतिसन्धानादि तत्र शक्यसम्बन्धिनि लक्षणास्वीकारे बाधकाऽभावः । 'घर्ट जानाति' इत्यादितो घटादिविषयकज्ञानबोधस्य सर्वानुभवसिद्धस्य द्वितीयाया वृत्तिं विनाऽनु पन्नस्यैव लक्षणाकल्पकत्वाच्च; "विभक्तौ न लक्षणा" इति प्रवादस्त्वेकविभक्तेरपरवि भक्तयर्थे न लक्षणेत्येतत्परोः अत एव न व्यत्ययानुशासनवयर्थ्यम् । 'सुपां कर्मादयोऽप्यर्था' इत्यत्र कर्मादिपदस्य गौणमुख्यसाधारणकर्मत्वपरतयाऽप्युपपत्तेर्न तदूविरोधोऽपी. त्यत आह-दिगिति*। - तदर्थस्तु मुख्यार्थमादाय शास्त्रचारितायें गौणे तव्यापारे मानाभावः । नच घट जानातीतिप्रसिद्धप्रयोगानुरोधेन गौणेऽपि तव्यापारकल्पनाऽवश्यिकेति वाच्यम् । जानातेर्ज्ञानविषयत्वापत्त्युपसर्जनविषयत्वापादनार्थकतया मुख्यकर्मतरवाऽस्मन्मते प्रयोगोपपत्तिसम्भवात्। स्वानुभवैकगम्येऽथे लक्षणाऽभ्युपगमेऽर्थनिर्देशस्य वैय. र्थ्यांपत्तेश्चेत्यादिः ।
परीक्षा तस्य सम्भवात्। *अत एव । उक्तनियमाविरोधादेव । दिगिति* । दिगर्थस्तु नराणां क्षत्रियः शूरतमः, 'गच्छतां गच्छत्सु वा धावञ्छीघ्रः' इत्यादौ “यतश्च निर्धारणम्" इति सूत्रेण षष्ठीसप्तम्यौ । जातिगुणक्रियासंज्ञाविशिष्टस्येत्यध्याहारः। एवं च जात्यादिविशिष्टस्य यतः स्वेतरेभ्यः स्वघटितसमुदायघटकेभ्यो व्यावृत्तेन धर्मेण पृथक्कणरूपन्निर्धारणम् , ततः षष्ठीसप्तम्यावित्यर्थः। पृथक्करणं च तदव्यावृतधर्मप्रकारकज्ञानविषयीकरणम् । . अत्र केचित्-षष्ठीसप्तम्योरभेदे भेदे च शक्तिस्तत्राभेदः प्रकृत्यर्थ प्रति विशेषणीभूय निर्धार्यपदार्थविशेषणतया भासेते । भेदस्तु निर्धार्यपदार्थस्य विशेष्यीभूयप्रकृत्यर्थविशेषणतया प्रकृत्यर्थनिरूपितविशेष्यतापन्नः सन् गुणक्रियादिरूपान्यतमावच्छेदकधर्मावच्छिन्नविशेषणतया च भासते । एवं च नराभिन्नः क्षत्रियः क्षत्रियान्यतमशूरतमाभिन्न इत्यन्वयबोधः। क्षत्रियेण रामत्वं शुरतमत्वावच्छेदेनान्वेतीभ्युपेयम् । तेन 'नराणां क्षत्रियो गौर' इति न प्रयोगः । गौरत्वावच्छेदेन क्षत्रियान्यनरान्यत्वस्य बाधात्। अभेदस्य षष्ठयर्थत्वाभावे 'घटानां क्षत्रियो गौर' इति 'नरः शूस्तम' इति प्रयोगापत्तिः । क्षत्रियान्यघटान्यशूरतमस्य सत्वात् । अभेदस्य संसर्गविधया भानं तु न
२६ द० ५०