________________
२०२
दर्पणपरीक्षासहित भूषणसारे
दर्पणः अत्र वदन्ति-शास्त्रस्य गौणे प्रवृत्त्यनभ्युपगमे स्वादीनां फलत्वेनाभिमते गत्यभावे धात्वर्थव्यापारजन्यत्वाभायेन तद्घटितमुख्याकर्मकत्वाभावात्ततो भावे कर्त्तरि च प्रत्ययानुपपत्तिरेवं वारयतेः संयोगानुकूलव्यापाराऽभावानुकूलव्यापारार्थकतायाः सर्वसम्मततया तस्यापि मुख्यसकर्मकत्वाभावेन ततोऽपि कर्त्तरि कर्मणि च लकाराधनपपत्तिरतो गौणेऽपि शास्त्रविषयताऽवश्यमभ्युपेतव्येति न घट जानातीत्यादीनां विषयत्वलक्षणायामप्यसाधुता । ___ वस्तुतस्तु शक्तिः कारकमितिपक्षस्य तन्मतेऽतिसुप्सु व्यवस्थितत्वेन द्वितीयाया विषयत्वान्वय्याधेयत्वबोधकत्वेऽपि न क्षतिः । तादृशस्थले विषयरूपफलस्य धात्व. र्थपरतायाः प्रागुपपादनात् तन्मतेऽप्युक्तनियमविरोधस्य निषेधविषयतायाश्चाऽसम्भवादित्यलम् ॥ २४॥ इति श्रीभूषणसारदर्पणे सुबर्थनिर्णयः ॥ ३॥
परीक्षा सम्भवति । 'नराणां क्षत्रिय' इत्यादौ समानविभक्तिकपदोपस्थाप्यत्वस्य विरहात्। निर्धार्यपदार्थतावच्छेदकधर्मावच्छिन्नप्रतियोगिताकश्च भेदोभासत इत्यभ्युपेयम् । तेन 'नराणां प्रमेयः शूरतम' इति न प्रयोग इत्याहुः । तन्न । 'नराणां क्षत्रियः क्षत्रियः' इति प्रयोगापत्तेः । किन्तु निर्धारकधर्मनिर्धारणावध्योावृतत्वाख्यः सम्बन्धः, अभेदश्च विभक्त्यर्थः । नरपदमत्र नरत्वेन रूपेण क्षत्रियस्तदन्यतरघटितसमुदायोपस्थाकम् । व्यावृतत्वं चाभावप्रतियोगित्वं तत्राभेदसम्बन्धेनान्वयि, विधेयबोधकपदसमभिव्याहारे ऽभावोऽन्योन्याभावो ग्राह्यः । 'नराणां क्षत्रिये शौर्य्यम्' इत्यादौ भेदसम्बन्धेवान्वयि बोधकं पदसमभिव्याहारे त्वत्यन्ताभावो बोध्यः । भेदे च प्रकृत्यर्थस्यउद्देश्यतावच्छेदकावच्छिन्नप्रतियोगिताकभेदविशिष्टप्रकृत्यर्थतावच्छेदकव्यापकत्वविशिष्टाधिकरणताधेयतासम्बन्धेनान्वयः। उभयत्र वैशिष्ट्यनियामकः सम्बन्धःसामानाधिकरण्यम्। तादृशव्यावृतत्वस्य चोद्देश्यतावच्छेदकभेदविशिष्टविधेयतावच्छेदकसमाना. धिकरणाश्रयतासम्बन्धेन विधेयेऽन्वयः। अभेदस्य विभक्त्यर्थत्वन्तु 'नराणां दैत्यः शूरतम इत्यादेरापत्तिवारणाय 'नराणां क्षत्रिये शौर्यम्' इत्यादौ भेदसम्बन्धेनान्वयिबोधकसमभिव्याहारे तूद्देश्यतावच्छेदकमभेदविशिष्टाश्रयतासम्बन्धेन विधेयेऽत्यन्ताभावप्रतियोगित्वरूपव्यावृतत्वस्यान्वयः। अत्रापि सामानाधिकरण्यसम्बन्धेन वैशिष्टयं ग्राह्यम् ।
यद्वा द्विविधस्य व्यावृतत्वस्य यथायथं विधेयतावच्छेदके विधेये वान्वयः । तेन नराणां क्षत्रिये प्रयेयमित्यनयो पत्तिः। एवं च नराभिन्नः क्षत्रियो नरव्यावृत्तशूरतमाभिन्न इति रीत्या बोधः। 'रुदति रुदतो वा प्रावाजी! इत्यत्र “षष्ठी चानादरे" इति सूत्रेण षष्ठीसप्तम्यौ अनादरविशिष्टं प्रव्रजनं धात्वर्थः । वैशिष्टयमत्र सामाना. धिकरण्यस्योत्तरकालिकत्वाभ्यां पुत्रादेरितिपदस्याध्याहारः । ज्ञाप्यज्ञापकभावाः षष्ठीसप्तम्योरर्थः । तथाच-रोदनकर्तृपुत्रादिज्ञाप्यमनादरविशिष्टं प्रव्रजनमिति बोधः । रोदनकभिन्नस्य ज्ञापकत्वबोधे रोदनकालावच्छिन्नत्वं क्रियायां प्रव्रजनरूपायामल्लभ्यत इत्यादि अधिकमन्यत्र द्रष्टव्यम् ॥२४॥
__इति श्री सुबर्थनिर्णयविवरणम् ॥३॥