________________
॥ अथ नामाऽर्थनिर्णयः ॥
एकं द्विकं त्रिकं चाऽथ चतुष्कं पञ्चकं तथा ॥ नामाऽर्थ इति सर्वेऽमी पक्षाः शास्त्रे निरूपिताः ॥ २५ ॥
नामार्थानाह
एकं जातिः लाघवेन तस्या एव वाच्यत्वौचित्यात् । अनेकव्यक्तीनां वाच्यत्वे गौरवात् ।
दर्पणः
अथ नामार्थनिर्णयः ।
क्रमप्राप्तं नामार्थनिरूपणमित्याशयेनाह - * नामार्थानिति । *जातिरिति । तत्तत्पदार्थाऽसाधारणो धर्म इत्यर्थः । तेनाऽभावत्वाकाशत्वादीनां नित्याऽनेकसमवेतत्वरूपजातित्वाभावेऽपि न क्षतिः । एतस्यैव शास्त्रे स्वार्थपदेन व्यवहारः । जातेः पदार्थत्वे मानं तु – “जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्" ( पा० सू० १ । २।५९ ) इति सूत्रे “सवर्णे ऽण्ग्रहणमपरिभाष्यमाकृतिग्रहणात् सिद्धम् ” इति वार्त्तिकम् । “ आकृति वाजप्यायनः” इति सरूपसूत्रस्थं भाष्यं च । युक्तिमप्याह-*लाघवेनेति । एकाश्रयकशक्तेरेकस्या एव सम्भवादिति भावः ।
ननु शक्तिग्राहक शिरोमणिना व्यवहारेण व्यक्तावेव तत्परिच्छेदात् कथं जातौ तत्सिद्धिरत आह-*अनेकव्यक्तीनामिति । पूर्वव्यवहारेण व्यक्तौ शक्तिग्रहेऽप्यानन्त्यात् तावतीषु शक्तिग्रहासम्भवात्तत्तदाश्रयभेदभिन्ननाना शक्तिकल्पने गौरवात् ; पश्चाज्जातावेव निर्द्धार्य्यते इत्यर्थः ।
परीक्षा
अथ नामार्थनिरूपणम् ।
सुपां प्रातिपदिकप्रभृतित्वात्तन्निरूपणे प्रातिपदिकानां स्मृतत्वात्प्रसङ्गसङ्गत्या तेषामर्थानाह - * एकमित्यादिना । अकमित्यस्य मतभेदेन विभिन्नार्थत्वं वर्णयति*एकं जातिरिति । अत्र जातिपदं तत्तन्नाम्नो यद्यत्प्रवृत्तिनिमित्तं तत्तत्परम् । तेन परमतेऽभावत्वाकाशत्वादेर्जातित्वाभावेऽपि न क्षतिः । जातेर्वाचकत्वे मानन्तु “जात्याख्याम्” इति सूत्रं “सवर्णेऽण् ग्रहणमपरिभाष्यमा कृतिग्रहणात्” इति वात्तिकं भाष्यं च यद्यप्यस्ति तथापि तत्र युक्तिमाह – लाघवेनेति । एकस्य वाच्यत्वे निरूपकैक्येन शक्तेरप्यैक्यस्य सिद्धिः । लाघवं द्रढयति -*अनेकेति । यद्याप्याद्यशक्तिग्रहो व्यवहाराद्भवति । व्यवहारश्च व्यक्तिविषयक एवं । तथापि गौरवात्तत्याग इति भावः । नचैवं घटोऽस्तीत्यादिशब्दाद्व्यक्तिबोधानापत्तिरिति वाच्यम् ? लक्षणया व्यक्तिभानस्य सम्भवात् । शक्यतावच्छेदिका चास्मिन्पक्षे जातिरेव तादात्म्येनेति न गोपदस्य गोत्वत्वावच्छिन्ने शक्तिकल्पने गवेतरासमवेतत्वे सति सकलगोसमवेतत्वरूपस्य गोत्वत्वस्य शक्यतावच्छेदकत्वापत्तिरित्यस्मिन् पक्षे गौरवमिति, शङ्काऽवसरः ।
यद्यपि शक्तिग्रहो गौर्गोपदशक्य इत्याकारक एव, तथापि 'सति विशेषणे विधिनि