________________
२०४ दर्पणपरीक्षासहिते भूषणसारे____ न च व्यक्तीनामपि प्रत्येकमेकत्वाद्विनिगमनाविरहः। एवं हि एकस्यामेव व्यक्तौ शक्त्यभ्युपगमे व्यक्त्यन्तरे लक्षणायां स्वसमवेताश्रयत्वं संसर्ग इति गौरवम् । जात्या तु सहाश्रयत्वमेव संसर्ग इति लाघवम् । किञ्चौवं विशिष्टवाच्यत्वमपेक्ष्य 'नागृहीतविशेषण'
दर्पणः .. एकव्यक्तिविषयकशक्तिज्ञानादपरव्यक्तिविषयकशाब्दबोधाऽभ्युपगमे तु गोव्यक्तिविषयकशक्तिज्ञानादश्वविषयकबोधापत्त्या तद्वयक्तिविषयकशक्तिज्ञानस्य तद्वयक्तिविषयकबोधे हेतुताया आवश्यकल्प्यतयैकविषयज्ञानादपरव्यक्तिबोधाऽनुदयापत्त्या सकलव्यक्तिभानाऽर्थं तावद्वयक्तिःषु शक्तिकल्पनायां गौरवस्य स्फुटतया जातावेव शतिकल्पनोचिता । यद्यपि गौर्गोपदवाच्य इति शक्तिग्रहो व्यक्तिविषयकोऽपि, तथापि 'सविशेषणे हि विधिनिषेधौ विशेषणमुपसंक्रामतः सति विशेष्ये बाध' इति न्यायेन जातावेव सत्ता परिच्छिनत्ति । यद्वा जातिविशेष्यक एव शक्तिग्रहो गौर्गोपदशक्य इति जातिशक्तिवाद एवमेवाऽभिलापात् । व्यक्तिभानस्य त्वग्रे उपपादयिष्यमाणत्वान्न तदनुपपत्तिरिति भावः ॥ . । विनिगमनेति । एकतरपक्षपातियुक्तिरूपेत्यर्थः । तथाचेयं व्यक्तिः शक्या न जातिरित्येवं प्रत्येकव्यक्तिग्रहे विनिगमकाऽभावः । पूर्वत्र तु व्यक्तिसमुदायस्यैव कोटितया गौरवज्ञानस्यैव बाधकस्य विनिगमकत्वान्न तदभाव इति भावः। तत्पशेऽपि गौरवमेव बाधकमित्याह-*एवं हीत्यादि* ॥ - ननु उक्तविनिगमनाविरहेण सर्वास्वपि व्यक्तिषु शक्तिसिद्धावशक्यव्यक्तेरभावेन न तदानाय व्यक्तिवृत्तिकल्पनेति व्यक्तिशक्तिवादपक्षो निर्दुष्टोऽत आह-किज्चैवमिति । यद्वा ननु गोत्वादिजात्यनुगतीकृतयावद्वयक्तिषु शक्तिस्वीकारान्नाऽऽनन्त्यादिदोषोऽत आह-किञ्चैवमिति । एवम्-विशिष्टे शक्त्यभ्युपगमे । *नागृहीतेति* । 'नागृहीतविशेषणा बुद्धिर्विशेष्यमधिगच्छति' इतिन्यायशरीरम् । विशेषणवि. षयबुद्धिर्विशेष्यं नाऽवगाहत इति तदर्थः। विशेष्यविषयकत्वस्य विशेषणविषयकत्वनियतत्वमिति यावत् । तथाच विशिष्टशक्तिवादे विशिष्टशक्तिग्रहस्य विशेषणवि. षयकत्वावश्यकतया तदुभयविषकत्वस्य पदार्थोपस्थित्यादिकारणताऽवच्छेदकत्वकल्पनापेक्षया विशेषणविषयकत्वमात्रस्यैव तदवच्छेदकत्वकल्पनापेक्षया विशेषणविषयक त्वमात्रस्यैव तदवच्छेदकत्वकल्पनलाघवादुचितेति जातादेव शक्तिः सिद्धयतीति भावः।।
परीक्षा षेधौ विशेषणमुपसंक्रामतः, सति विशेष्ये बाधे" इति न्यायेन 'शिखी ध्वस्तः' इत्यत्रेव जातावेव तां परिच्छिनत्ति-*प्रत्येकमेकत्वादिति । तथा चैकव्यक्तिमादायैव व्यक्तिर्वाच्या जातिवेंति विनिगमनाविरह इति भावः । नात्र विनिगमनाविरहोऽन्यतरसाधकयुक्तेर्लाघवस्य सत्त्वादित्याह-*एवं हीत्यादिना । *व्यक्त्यन्तर इति । व्यक्त्यन्तरस्य शाब्दबोधविषयताया उपपत्तय इत्यादिः । *संसर्ग इति*। 'शक्यसम्बन्धो लक्षणा' इति नैयायिकरीत्येदम् । ननु नैकस्मिन्नेव जात्याश्रये शक्तिः, किन्तु जात्यानुगतीकृतासु सर्वासु शक्तिरिति नाशक्यभानस्वीकारे गोपदादश्वस्यापि बोधापत्तिरत