SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ । .. नामाऽर्थनिर्णयः। न्यायाजातिरेव वाच्येति युक्तम् ॥ व्यक्तिबोधस्तु लक्षणया। एवञ्च तत्र विभक्त्यर्थाऽन्वयोऽप्युपपद्यत इति दिक् । दर्पणः ... नन्वेवं 'गां दद्याद् 'ब्रीहीनवहन्ति' इत्यादौ दानावहननकर्मत्वाद्यन्वयानुपपत्तिजर्जातेस्तदन्वयायोग्यत्वादिति चेद् ?' अत्र केचित्-जात्याक्षिप्तव्यक्तावेव दानादिकमत्वान्वय इति, तन्न । प्रत्ययानामिति व्युत्पत्तरप्रकृत्यर्थव्यक्तौ तदन्वयासम्भवात् । तदुक्तम् गम्यमानस्य चार्थस्य नैव दृष्टं विशेषणम् । शब्दान्तरैविभक्त्या वा धूमोऽयं ज्वलतीतिवत् ॥ इति । किञ्चाऽयमाक्षेपोऽर्थापत्तिः समानसंवित्सवेद्यत्वं वा । नाद्यः । अनुपपत्तिमन्तरेणाऽपि गौरस्तीत्यतो गोत्वविशिष्टबोधात् । नान्त्यः । जातिविषयकशक्तिग्रहस्य विशिष्टविषयकबोधहेतुत्वाऽभ्युपगमेन जातिविषयताया व्यक्तिविषयतानयत्वरूपो वाच्योऽन्यस्यासम्भवात् । स च गोत्वमस्तीत्यत्र गोत्वविशिष्टाप्रत्ययादू व्यभिचरित इत्युक्ताऽनुपपत्तिर्दुर्वार वेत्यत आह-*व्यक्तिबोधस्त्विति*। *लक्षणयेति*। स्वशक्यगोत्वाऽऽश्रयत्वसम्बन्धरूपलक्षणयेत्यर्थः। तथाच पदवृत्तिजन्योपस्थितेरेव शाब्दबोधे हेतुतया व्यक्तेरशक्यत्वेऽपि लक्षणावृत्त्युपस्थितायां तस्यां नावघातादिकर्मत्वान्वयानुपपत्तिरिति भावः ॥ - *एवञ्चेति ॥ लक्षणाऽभ्युपगमे चेत्यर्थः ॥ तत्र-लक्षितव्यक्तौ ॥ *उपपद्यत इति ॥ अन्यथा 'प्रत्ययानाम्' इति व्युत्पत्तेः स नोपपद्यतेति भावः । ननु व्यक्तिलक्षणाभ्युपगमे युगपद्वृत्तिद्वयविरोध इति सिद्धान्तभङ्गः ।गौरस्तीतिवाक्यादनुभूयमानव्यक्तिबोधानुपपत्तिश्च । लक्षणाबीजस्यान्वयानुपपत्तेस्तत्राभावादत आह-दिगिति* ॥ परीक्षा आह-*किञ्चैवमिति । *न्यायादिति । नागृहीतविशेषणाबुद्धिर्विशेषे चोपजायते। विशेष्यं नाभिधागच्छेत् क्षीणशक्तिविशेषणे॥१॥ .' इति न्यायादिति भावः। नन्वेवं 'गां दद्यात्' 'व्रीहीनवहन्ति' इत्यादौ क्रियान्वयः कथमत आह-*व्यक्तिबोध इति*। *एवं च*-व्यक्तो लक्षणाऽभ्युपगमे च । *उपपद्यत इति । 'प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वम्' इति न्यायविरोधाभावेनेत्यादिः । ननु गौरस्ति 'गामानयाइत्यादितो जातिव्यक्त्युभयविषयकशाब्दबोधोऽनुभवसिद्धस्तदुपपत्तये युगपत्सर्वत्र शक्तर्लक्षणायाश्च कल्पनीयत्वं स्वीकार्यम्, तथाच युगपवृत्तिद्वयाङ्गीकारापत्तौ विरोध इति । दिगिति* । दिगर्थस्तु युगपत्तिद्वयं विशिष्टवादिना 'गङ्गायां मीनघोषौ स्त' इत्यत्रावश्यमङ्गीकार्यमिति तयोविरोधे मानाभावः। एकस्मिन्काले तयोस्र्थप्रतिपादकत्वमिति नास्ति । एकस्मिन्तयोरसत्त्वमिति त्वस्माभिरपि स्वीक्रियत इति । “प्रातिपदिकार्थलिङ्गपरिमाण” इति सूत्रे च प्रातिपदिकार्थपदेन च प्रवृत्तिनिमित्तस्यैव ग्रहणमिति । नचैतन्मात्रस्य न शाब्दबोधे भानमित्यसम्भव इति वाच्यम् ? 'प्रातिपदिकार्थमात्र' इत्यस्य प्रातिपदिकार्थनिष्टा या शक्त्यवच्छिन्नाजनकता तन्निरू, पिता योपस्थितिनिष्ठा जन्यता तव्यापकविषयिता प्रतियोगिनोऽर्थस्य ग्रहणेन लक्षणायाः शक्तिभाननैयत्येऽपि विरोधाभावादिति दिक् ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy