________________
दर्पणपरीक्षासहिते भूषणसारे -
२०६
यद्वा केवलव्यक्तिरेव एकशब्दाऽर्थः । केवलव्य क्तिपक्ष एवाणूग्रहणस्यैकशेषस्य चारम्भेण तस्यापि शास्त्रसिद्धत्वात्
दर्पण:
युक्तं चैतदर्थस्तु सति तात्पय्यें 'गङ्गायां घोषमत्स्यौ स्त' इत्यत्र वृत्तिद्वयस्य सर्व्वेरेवाभ्युपगमात्तादृशन्यायो, युगपच्छक्तिस्तात्पर्याऽविषये लक्षणा च नेत्येवंपर इति न तद्विरोधः । तात्पर्यानुपपत्तिसत्त्वाच्च न व्यक्तिलक्षणानुपपत्तिः । तद्विरोधाभ्युपगमे तु जातिव्यक्त्योरभेदपक्षमुपगम्य विभक्त्यर्थान्वय उपपाद्यः । तदुक्तम् — तेन तल्लक्षितव्यक्तेः क्रियासंबन्धचोदनात् । जातिव्यक्त्योरभेदो वा वाक्यार्थेषु व्यवस्थितः ॥ इति ।
वस्तुतस्तु जातिधर्मिकशक्तिग्रहस्य जातिविशिष्टव्यक्तिशाब्दबोधे हेतुत्वकल्पनान्न व्यक्तिभानानुपपत्तिर्नाप्यशक्यभानापत्तिस्तस्य तद्वैशिष्ट्या भावादिति जातिशक्तिवादनिष्कर्षः । वक्ष्यते चाऽधिकमुपरिष्टात् ॥
अन्ये तु जातिशक्तित्ववादमित्थमुपपादयामासुः । माऽस्तु व्यक्तेर्भानम् । आनयनादिक्रिया केवलायां जातवसम्भवन्ती व्यक्तिसाहित्येन निष्पाद्यते । समाहारे पाणिपादसाहित्येन वादनक्रियावत् । तदुक्तं " तद्धितार्थे” ( पा०सू २।१।५१ ) इति सूत्रे भाष्ये - " आकृतावालम्भनादीनां सम्भवो नास्तीति कृत्वा तत्सहचरिते द्रव्ये भविष्यति । यथाऽग्निरानीयतामित्युक्ते केवलस्याग्नेरानयनासम्भवादचोदितमपि पात्रमानीयते । एतदेवाऽग्नेरानयनं यत्पात्रस्थस्य तथाऽऽकृतावालम्भनादीनि चोद्यमानानि सामर्थ्यात् साहचर्य्याद् द्रव्येऽभिनिविशन्ते । सर्व एवाऽकृतेर्योगोऽन्तर्भावितव्याया इति द्रव्यद्वारकः सम्बन्धः सम्पद्यत" इति । साहचर्य्यं सम्बन्धः । सरूपसूत्रे भाष्येऽपि स्फुटोsयमर्थः । हरिरप्याह
1
व्यक्तौ कार्याणि संसृष्टा जातिस्तु प्रतिपद्यते । इति ॥
गोत्वादिपदानां तु गोत्वादिधर्मिवृत्तिधर्म एव शक्तिरिति न तत्र गोविशेष्यको बोधः । जातेराश्रयाऽवियोगेऽपि केवलायास्तस्याः शब्दवाच्यत्वं नानुपपन्नम् । जessay esमानस्य मुखस्य स्वस्थानाऽवियोगेऽपि मुखादिपद बोध्यत्ववत् । शक्यतावच्छेदकता तु जातिगतधर्मस्यवेति ॥
इदमपि मतं जात्या व्यक्त्याक्षेपे पर्यवस्यति । तच्च न चापदार्थे प्रत्ययान्वय इति दूषणग्रस्तम् । विनाऽपि सङ्केतविषयतां सामान्येन सम्बन्धनियमादर्थाऽध्याहारन्यायेनोपस्थितां व्यक्ति पुनर्जातिर्विशिनष्टि । रूपादिज्ञानविषयाणां चक्षुरादीनां चक्षुषयामीति प्रतीत्या विषयीकरणवदित्यपि केचित् ॥
शक्यसम्बन्धरूपाया लक्षणाया एकस्या लक्ष्यलक्षणतावच्छेदकयोरसम्भवेऽपि लक्ष्यार्थप्रतीतौ लक्ष्यतावच्छेदकभानवच्छक्यतावच्छेदके शक्यावभानेऽपि तादृशकार्यकारणभावबलादेव गोत्वादिभाननिर्वाहे कृतं तत्र शक्तिकल्पनयेत्याशयेनैकपदमन्यथा व्याचष्टे-*यद्वेति । व्यक्तिरेवेत्यनेन जातिव्यवच्छेदः ।
1
ननु सवर्णेऽण् ग्रहणमित्यादिप्रामाण्यादस्तूक्तः पक्षः । व्यक्तिः पदार्थ इत्यत्र तु किं मानमत आह-* केवलव्यक्तीति । एकशेषस्य चेति । जातिपक्षे एकेनैव शब्देन परीक्षा
मतान्तरमाह -* यद्वेति । * एकशेषस्य चेति । अत एव प्रत्यर्थं शब्दनिवेशान्नै