________________
नामाऽर्थनिर्णयः ।
तत् । व्यवहारेण व्यक्तावेव तद्ग्रहणात् । सम्बन्धितावच्छेदिकाया जातेरक्याच्छक्तिरप्येकैवेति न गारवमपि ।
२०७
नचैवं घटत्वमपि वाच्यं स्याच्छुक्यतावच्छेदकत्वात् । तथाच 'नाऽगृहीतविशेषणन्यायात् तदेव वाच्यमस्त्विति शङ्कयम् । अकारणत्वेऽपि कारणतावच्छेदकत्ववदलक्ष्यत्वेऽपि लक्ष्यतावच्छेदकत्ववत्तयात्राऽपि सम्भवात् । उक्तश्च
आनन्त्येऽपि हि भावानामेकं कृत्वोपलक्षणम् ।
दर्पणः
द्वयोर्बहूनां वा प्रत्यायनसम्भवात् तदनर्थकं सद् व्यक्तिपक्षज्ञापकमित्यर्थः । अण्ग्रहणस्य भाष्यकृता प्रत्याख्यानात् सरूपसूत्रस्य च शास्त्रीयप्रक्रियामात्रोपयोगित्वस्याऽकरे व्यवस्थापनात् कथमुक्ताऽर्थं तयोः प्रामाण्यमत आह-* युक्तञ्चैतदिति ॥ सयुक्तिकमप्येतदित्यर्थः । अपिना 'द्रव्याऽभिधानं व्याडिः' इति सरूपसूत्रस्थभाष्यप्रा माण्यं समुच्चीयते । युक्तिमेवाह-व्यवहारेणेति ॥
एतत्तत्वं शक्तिवादे वक्ष्यते । एतत्कल्पे पूर्वोक्तं शक्त्याऽऽनन्त्यदोषं समुद्धरति*सम्बन्धितावच्छेदकस्येति । शक्तिग्रहे धम्मिताऽवच्छेदकस्येत्यर्थः, लिङ्गसर्वनाम - नपुंसकत्वादुद्देश्यसमर्पकत्वाद्वा न तत्त्वाऽनुपपत्तिः । तथाच सम्बन्धितावच्छेदकजात्यनुगतीकृतनानाव्यक्तिष्वेकधर्मावच्छिन्नाया एकस्या एव शक्तेरुपगमान्न तन्नानात्वप्रयुक्त गौरवमिति भावः ॥
*एवमिति* । विशिष्टे शक्तित्वस्वीकारे इत्यर्थः । घटत्वादेर्घटादिनिष्ट शक्यता - वच्छेदकत्वाभ्युपगम इति यावत् ॥ तदेव-घटत्वाद्येव, वाच्यम् - शक्यमित्यर्थः । शक्यत्वे हेतूपन्यसनम् - न्यायादिति । अकारणत्वेऽपीति । दण्डत्वाऽऽदीनामन्यथासिद्धत्वेनाकारणत्वेऽपि, तीरत्वादीनां प्रवाहाद्यऽसम्बन्धितया लक्ष्यत्वेऽपि च तत्र तन्निष्टाऽवच्छेद्यतानिरूपितस्वरूपसम्बन्धाऽऽत्मिकाया विषयिताविशेषाऽऽत्मकाया वा अवच्छेदकताया अभ्युपगमवदशक्यस्यापि घटत्वादेस्तादृशशक्यतावच्छेदकत्वसम्भवात् । शक्यत्वे सति शक्यविशेषणतापन्नस्य शक्यतावच्छेदकत्वमिति नियमे मानाभावादिति भावः ।
उक्तेऽथेंसम्मतिमाह—*उक्तञ्चेति* | *आनन्त्येऽपीति । भावानां व्यक्तीनां परीक्षा
केनानेकार्थाभिधानमिति भाष्ये उक्तम् । एतत - * व्यतिरेवैकशब्दार्थ इत्येतत्कल्पनम् । *तद्गहणात्*— शक्तिग्रहणात् । नन्वेवं व्यक्तीनामानन्त्यादाश्रयभेदेन शक्तेर्भेदापत्तिरत आह-* सम्बन्धितावच्छेदिकाया इति । एवम् — जातेः शक्यतावच्छेदकत्वे । *तदेव* - घटत्वादिरूपशक्यतावच्छेदकमेव । जात्यादिधर्मस्य वाच्यतां विना वाच्यतावच्छेदकत्वमनुपपन्नमितिः पदार्थोपस्थितिं प्रत्युभयविषयकशक्तिज्ञानत्वेन कारणत्वकल्पनापेक्षया जातिशक्तिज्ञानत्वे कारणत्वे लाघवमिति भावः । तथाऽत्रापि सम्भवात् । अशक्यत्वे ऽपि शक्यतावच्छेदकत्वसम्भवात् । उक्तं चेति । हरिणेति शेषः ।
*आनन्त्येऽपीति — भावानां व्यक्तोनामानन्त्येऽप्येकं जातिरूपं धर्ममुपलक्षणं