________________
दर्पणपरीक्षासहिते भूषणसारे -
शब्दः सुकरसम्बन्धो न च व्यभिचरिष्यति ॥ इति ॥
दर्पणः
नानात्वादपरिच्छेद्यत्वेऽपि । एकमू-अनुगतजात्यादिधर्मम् । *उपलक्षणम् - अशक्यत्वेऽपि शक्यव्यावर्त्तकं, *कृत्वा * - अभ्युपगम्य, शब्दो - गवाद्यात्मकः, *सुकरसम्बन्धः * - सुग्राह्यगवादिनिष्टवाच्यतासम्बन्धः । *न चेति । शक्तिग्रहाऽविषयव्यक्ति बोधयिष्यतीति तदर्थः । गोत्वादिसामान्यलक्षणया सर्वास्त्रेव व्यक्तिषु शक्त्यवधारणादिति भावः । अधिकम वक्ष्यते ॥
व्यक्तिरेवाsत्र द्रव्यपदेन व्यवहियते सर्वनामपरामर्श योग्यत्वात् । उक्तञ्चवस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते ।
व्यमित्युच्यते सोऽर्थी भेद्यत्वेन विवक्षिते ॥ इति । परीक्षा
वाच्यतावच्छेदकं कृत्वा सुकरसम्बन्धः शब्दो भवति । न च व्यभिचरिष्यतीति* । पदार्थोपस्थितिनिष्ठकार्यतानिरूपिता या शक्त्यवच्छिन्ना शब्दनिष्ठा कारणताव - च्छेदकता तस्यां न च व्यभिचरिष्यतीत्यर्थः । तद्धर्मप्रकारकोपस्थितिं प्रति तद्धर्मावच्छिन्नशक्तशब्दज्ञानत्वेन कारणतेति कार्यकारणभावसम्भवादिति भावः । ननूतपक्षद्वयमभ्युपपन्नम्, तथाहि - जातौ शक्तिरिति जातिविशिष्टविषयको पस्थितिं प्रति जातिशक्तिज्ञानं कारणमिति हि कार्यकारणभावो वाच्यः । तथा सति गोत्वं पदं गोत्वे शक्तमिति ज्ञानादपि गोत्वविशिष्टविषयकबोधापत्तिः । न च किञ्चिदनवच्छिन्नगोत्वनिष्ठविषयताकशक्तिग्रहस्य गोत्वविशिष्टविषयकशाब्दबुद्धि प्रति हेतुत्वं कल्प्यते । उक्तशक्तिग्रहे तु गोत्वनिष्ठा विषयता गोत्वत्वावच्छिन्नेति नोक्तापत्तिरिति वाच्यम् ? निरवच्छिन्नगोत्वनिष्टविषयताकशक्तिग्रहस्य गोत्वं न गोपदशक्यमित्याकारकगोत्वत्वावच्छिन्न विषयकशक्तिग्रहस्यव हेतुताया आवश्यकत्वात् । न च गोपदत्वावच्छिन्न विशेष्यतानिरूपितशक्तिसम्बन्धावच्छिन्ननिरवच्छिन्नगोत्वप्रकारताकं गोपदं गौरिति ज्ञानं गोत्वप्रकार कशाब्दबोधे हेतुरिति न बाधग्रहकाले शाब्दबोधापत्तिरिति वाच्यम् ? गोपदं गौरित्याकारकस्य शक्तिग्रहस्य गोत्वप्रकार कशाब्दबोधहेतुत्वे कदाचित् समवाये गोत्वविशिष्टबोधः, कदाचित् कालिकसम्बन्धेन गोत्वविशिष्टबोध इति व्यवस्थाया अनुपपत्तेः ।
विशिष्टशक्तिवादे तु- समवायेन गोत्वविशिष्टविषयकशक्तिग्रहः समवायेन गोत्वप्रकारको कालिकसम्बन्धेन गोत्वविशिष्टविषयकशक्तिग्रहः कालिकसम्बन्धेन गोत्वप्रकारबोधे हेतुरिति व्यवस्थायाः सम्भव इति । किं च केवलव्यक्तिवादोऽपि न युक्तः, गोः शुक्लश्च लो डित्थः इति सहप्रयोगानुपपत्तेः । शक्यतावच्छेदकधर्मभेदादेवप्रयोग इति तु न, अशक्यस्य शक्यतावच्छेदकत्वानुपपत्तेः । अन्यथा द्रव्यत्वस्यापि गोपदशक्यतावच्छेदकत्वापत्तिः ।
• २०८
अपि च यस्मिन् हस्तिपके हस्तिनः सम्बन्धग्रहस्तस्यैव हस्तिपकस्य हस्तिनि पृष्ठे स्मरणम्, न तु हस्तिपकान्तरस्येत्यनुभवसिद्धम् । तथाच तद्व्यक्तिविषयकस्मृतौ तद्व्यक्तिविषयकसम्बन्धग्रहस्य कारणतावश्यं वाच्येति व्यक्तिवादे यत्किञ्चिgrat शक्तिग्रहात् व्यक्त्यन्तरस्य बोधानापत्तिरतो विशिष्टशक्तिवाद एव युक्त इत्या