________________
नामार्थनिर्णयः।
२०९
दर्पण स्वभावादेव बुद्धिविषयतावच्छेदकत्वोपलक्षिततत्तद्धर्माऽवच्छिन्नबोधकं सर्वनाम यस्मिन् धर्मिणि तादृशधर्म प्रवृत्तिनिमित्तीकृत्य प्रयुज्यते । इदं तदिति परामर्शयो. नयमिति यावत् । द्रव्यपदेन व्यवहियत इत्यर्थः । भेद्यत्वेन विशेष्यत्वेनेत्यादि तु लक्षणान्तरपरम् । एतत्पक्षे तु जात्त्यादेरपि विशेष्यत्वविवक्षायां द्रव्यत्वमिष्टमेव । तिङन्ताऽर्थक्रियायाः किमादिभिः परामर्शात् स्तोकाद्यर्थनिरूपितविशेष्यतावत्त्वाच्च दव्यत्वमस्त्येव । “विप्रतिषिद्धम्" ( पा०सू० ४।१३ ) इत्यादौ च सामर्थ्यात्तन्त्रान्तरप्रसिद्धद्रव्यग्रहणम् । “चादयोऽसत्त्वे” (पासू० १।४।१७) इत्यत्र प्रथमकल्पोक्तद्रव्यस्यैव पर्युदासो बोध्यः । शक्यतावच्छेदकत्वं च शक्यनिष्ठविशेष्यताऽवच्छेदकतया भासमानत्वम्। घटाऽऽदिपदे शक्तिग्रहे च घटत्वाऽऽदेरेव तत्त्वम्, न पृथिवीत्वादेरिति न तेभ्यः न पृथिवीत्वादिबोधः । आकाशशब्दस्य शब्दाश्रयत्वे शक्त्यभावेऽपि ततस्तद्रूपेणैव बोधः। तद्विशिष्टशक्तिग्रहस्य तद्बोधहेतुत्वात् । यद्वाऽऽकाशत्वमखण्डोपाधिः । वृद्धिसूत्रोक्तरीत्या तत्पदं वाऽऽकाशशब्दशक्यतावच्छेदकमिति 'नाकाशः शब्दाश्रय' इति प्रयोगानुपपत्तिरिति द्रव्यवादनिष्कर्षः ।
ननूक्तपक्षद्वयमपि न विचारसहम् । तथाहि-जातिशक्तिवादे गोत्वादिपदात्तद्विशिष्टबोधापत्तिर्गोत्वशक्तिग्रहस्य तद्विशिष्टबोधौपयिकस्य सत्त्वात् । न च निर्धर्मितावच्छेदकशक्तिग्रहो गोत्वविशिष्टबोधे हेतुर्गोत्वत्वधर्मितावच्छेदकशक्तिग्रहश्च गोत्व. त्वेन तदुपस्थितौ शाब्दबोधे च हेतुरिति वाच्यम् । गोत्वं न गोपदशक्यमिति गोत्वत्वधर्मितावच्छेदकबाधग्रहकाले निर्धर्मितावच्छेदकशक्तिग्रहसम्भवेन गोत्वविशिष्टबोधापत्त्या गोत्वत्वधर्मितावच्छेदकशक्तिग्रहस्य तादृशबोधहेतुताया आवश्यकत्वात् । - यदि च गोत्वे निरवच्छिन्नैव शक्तिः । गोपदं गौरित्याकारकं शक्तिसम्बन्धेन गोत्वप्रकारकं गोपदत्वविशिष्टविषयकं शक्तिज्ञानं गोत्वविशिष्टबोधहेतुरिति नोक्तबोधकाले शाब्दबोधापत्तिरिति विभाव्यते तदापि कदाचित् समवायेन गोत्वविशिष्टबोधः, कदाचित् कालिकादिसम्बन्धेनेति व्यवस्थाऽनुपपत्तिः। गोत्वविषयकशक्तिज्ञानस्याविशिष्टत्वात्। मन्मते तु समवायेन गोत्वविशिष्टविषयकशाब्दबुद्धिं प्रति तेन सम्बन्धेन गोत्वविशिष्टशक्तिग्रहस्य एवमितरसम्बन्धेन तादृशविशिष्टविषयकबोधे तेन सम्बन्धेन तादृशविशिष्टशक्तिज्ञानस्य हेतुतया तन्नियमोपपत्तेः । गोपदादू गौरित्याकारकशक्तिग्रहात् तादृशबोधाऽननुभवाच्च गोत्वादिपदानां गोत्वत्वे शक्तिरित्यपि न।
प्रकृतिजन्यबोधप्रकारे भावप्रत्ययविधानात् गवेतराऽसमवेतत्वविशिष्टसकलगोसमवेतत्वरूपस्य गुरोः शक्यत्वाऽभ्युपगमे लाघवमूलकाऽऽकृतिवादस्य मूलशैथिल्यापत्तेश्च । व्यक्तिवादेऽपि पदमात्रस्यैव व्यक्तिबोधकत्वाऽविशेषत्वात् । गौश्च नील इत्यादीनां सहप्रयोगाऽऽनुपपत्तिः। . किञ्च हस्तिपकव्यक्त्यन्तरे सम्बन्धग्रहे यत्र हस्तिपके सम्बन्धो न गृहीतस्तस्यापि हस्तिदर्शने स्मरणाऽऽपत्त्या तव्यक्तिविषयकसम्बन्धग्रहस्य तदुपस्थितिनियामकत्वस्यावश्यकतया कथमेकविषयकशक्तिज्ञानादपरविषयकोपस्थितिः। सामान्य
२७ द० प०