________________
२१०
दर्पणपरीक्षासहिते भूषणासरेवस्तुतस्तु, "न ह्याकृतिपदार्थकस्य द्रव्यं न पदार्थः” इतिभाष्याद् विशिष्टं वाच्यम् ।
दर्पणः लक्षणा त्वापातरमणीयैवेत्यभिप्रायवानाह-वस्तुतस्त्विति । विशिष्टमिति । जातिविशिष्टा व्यक्तिर्व्यक्तिविशिष्टा जातिवेत्यर्थः ।
यद्यपि “आकृतिपदार्थकस्य द्रव्यं न पदार्थो, द्रव्यपदार्थकस्य चाकृतिर्न पदार्थ' इ. त्युभयोरुभयं पदाऽर्थः" इतिभाष्याद्विशकलितयोरेवाकृतिव्यक्त्योः शक्तिग्रहविषयता लभ्यते, तथापि "कस्यचित् किञ्चिद् गुणभूतं किञ्चित् प्रधानम्" इत्युत्तरभाष्यपर्यालोचनया तत एव विशिष्टे शक्त्यवधारणात् तथोपादानमविरुद्धम् । अन्यथा तृतीयोपात्तैकत्वकरणत्वयोरिव विशेष्यविशेषणभावाऽनापन्नजातिव्यक्त्योः शक्यत्वे गोर्य गोत्त्वं व्यक्तिश्चेति समूहालम्बनबोधापत्तेः। शक्तिज्ञानपदार्थोपस्थितिशाब्दबोधानां समान प्रकारकत्वनियमात् । एवमेवाऽवयवसंयोगरूपाऽऽकृतौ । तथाच सूत्रितं गौतमेन "जात्याकृतिव्यक्तयः पदार्थः” इति त्रिष्वेकैव शक्तिरिति बोधनाय च तत्रैकवचनम् । "गुणभूतम् इति भाष्यस्य च स्वारसिकतयेति शेषः । जातेः कदाचित् प्राधान्येन भानं तु तात्पर्यग्रहसापेक्षमिति तदाशयः । जातेः प्राधान्येऽपि द्रव्यसंख्यामादाय तत्र द्विव. चनाद्युपपत्तिर्बोध्या । तदुक्तं कैयटेन-'यथा भवत' इत्यादौ क्रियाप्राधान्येऽपि साधनकृतो वचनभेदः, एवमाकृतिप्राधान्येऽपि द्रव्यसंख्याकृत इत्यदोष' इति । द्रव्यप्राधान्येऽपि क्वचिजातिसंख्यामादाय वचनं, 'ब्राह्मणं न हन्यात्' इत्यादौ यथा । जातेः प्राधान्ये च निरवच्छिन्नाया एव व्यक्तः प्रकारताविशेष्यीभूतजात्या च तदनुगमः । न हि प्रका. रीभूतमेवाऽनुगमकमिति नियम इति तत्कल्पपरिष्कारः।
वस्तुतस्तु जातिविशिष्टव्यक्तिरेव शक्या। गवादिपदागोविशिष्टगोत्वबोधस्याऽननुभवेनोक्तकल्पाऽसम्भवात् । अत एव तथैव व्याख्यातम् । जात्यतिरिक्तपदाऽर्थस्य किञ्चिद्धर्माऽवच्छिन्नत्वमिति नियमेन निरवच्छिन्नायास्तस्या जात्यशे भानाऽयोगात् । गोत्वस्यऽन्वयितावच्छेदकरूपेणाऽनुपस्थित्या तत्तत्कर्मत्वाऽऽद्यन्वयासम्भवाच्च । 'सम्पन्नो व्रीहिः' इत्यादौ तु स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्वसम्बन्धेन प्रकृत्यर्थव्यक्तावेवेवैकत्वान्वयः। उक्तस्थले 'एकवचनोपस्थितानि नानैकत्वानि न नाना व्रीहिष्वन्वीयन्त' इति तु न सत्। सजातीयनिष्ठभेदप्रतियोगितानवच्छेदकैकत्वरूपसजातीय
परीक्षा शयेनाह-वस्तुतस्त्विति । विशिष्टम् -जातिविशिष्टम् । व्यक्तिग्रहाद् व्यक्त्यन्तरस्य बोधानापत्तिरतो विशिष्टशक्तिवाद एव युक्त इत्याशयेन विशिष्टा जातिर्वा । यद्यपि सरूपसूत्रभाष्ये-'नह्याकृतिपदार्थकस्य द्रव्यं न पदार्थः 'द्रव्यपदार्थकस्य चाकृतिर्न पदार्थः इत्युभयोरनुभयं पदार्थ इति ग्रन्थेन विशकलितशक्तिवादो लभ्यते, तथापि कस्यचित किञ्जिदगणभतडिजित्प्रधानमित्यत्तरभाष्यपालोचनाद्विशिष्टे शक्तिरि. त्येव युक्तमिति । यदि परस्परं विशेषणविशेष्यभावानापन्नयोर्जातिव्यक्त्योर्वाच्यत्वं स्यात्तदा 'गोपदाद् गोत्वम्' इति निर्विकल्पकस्मरणस्याप्यापत्तिः । समानविषयकत्वेनानुभवस्मरणयोः कार्यकारणभावादिति विशिष्टशक्तिवाद एव युक्तः । तत्र जातेः प्राधान्येन भाने तात्पर्य्यग्राहकापेक्षाः तदा द्विवचनबहुवचने द्रव्यगत इति तदादाय