________________
नामार्थनिर्णयः ।
२११
दर्पणः
द्वितीयरहित्वस्यैवैकवचनाऽर्थत्वेन तत्र तस्य बाधात् 1 संख्यारूपैकत्वस्य द्रव्यमात्रसाधारण्येनाsर्थत एव लाभादनुपयोगात्तस्यैकवचनाऽर्थत्वाभावाच्च ।
अत एव "पशुना यजेत" इत्यत्र तादृशैकत्वस्यैकवचनेन विवक्षितत्वान्नाऽनेकपशुकरणकयागाददृष्टसिद्धिः । समभिव्याहृतपदार्थ संसर्गित्वविशिष्टप्र कृत्यर्थतावच्छेदकरूपेण साजात्यस्य विवक्षणाच्च नात्र घटोऽस्तीत्यादौ घटनिष्ठभेदप्रतियोगिताऽनवच्छेदकैकत्वाप्रसिद्धिः । एतद्देशविद्यमानघटनिष्ठ भेदप्रतियोगिताऽनवच्छेदकैकत्वस्यैव तत्र बोधेन तस्योक्तरीत्या प्रसिद्धिसम्भवात् । एवञ्च व्यक्तिविशेष्यकबोधाऽभ्युपगमे क्वाऽप्यनुपपत्तेरभावेन तस्य च तद्विशेष्यकशक्तिग्रहमन्तरेणाऽसम्भवाद्भवादिपदानां जातिविशिष्टव्यक्तावेव शक्तिः । व्यक्तिमात्रविषयकस्य जातिमात्रविषयकस्य वा शक्तिज्ञानस्य जातिविशिष्टव्यक्तिशाब्दबोधहेतुतायामुक्तदोषस्य दुरुद्धरत्वादिति सारनिष्कर्षः॥
अन्ये तु—“उभयोरुभयं पदार्थ" इति भाष्याजातौ व्यक्तौ च गवादिपदानां शक्तिः । परन्तु व्यक्तिशाब्दबोधेऽपि जातिविषयकत्वेन जातिशक्तिज्ञानस्यैव हेतुता । व्यक्तिशक्तिस्तु स्वरूपसत्युपयुज्यते । अशक्यस्याऽपि शाब्दे भानाऽभ्युपगमे गवादिपदादशक्यगवादिव्यक्तेरिवाऽशक्यघटादीनामपि भानापत्या व्यक्तिशक्तिरावश्यकी । अयमेव कुब्जशक्तिवाद इति व्यवहियते । शाब्दबोधकारणतावच्छेदककोटौ व्यक्तिविषयकत्वस्यानिवेशात् । तथाच गोत्वप्रकारकगोविषयकशाब्दबोधे गोत्वविषयक गोपदशक्तिमती गौरित्याकारकशक्तिज्ञानं कारणम्, न तु गोत्वविशिष्टविषयकगोपदशक्तिमति गौरित्याकारकं गोत्वमस्तीत्यादौ तादृशगोत्वप्रकारकशक्तिज्ञानाभावान्न गोत्वविशिष्टबोधप्रसङ्ग इत्याहुः ।
1
तदप्यपातमनोरमम् । गोत्वविषयकगोपदशक्तिमती गौरित्याकारकशक्तिग्रहे कारतावच्छेदककोटौ गोत्वविषयकत्वस्य प्रवेशे गौरवात् ।
ननु माऽस्तु तद्विषयकत्वस्यावच्छेदककोटौ निवेशः । गोपदशक्तिमती गौरित्याकारकशक्तिग्रहस्य गोत्वप्रकारकत्वेन गोत्वविशिष्टविषयकशाब्दबुद्धिहेतुत्वे व्यक्तिविषयतायाः कारणतावच्छेदककोटावनिवेशेन लाघवात् । देशान्तरस्थव्यक्तिविशेष्यकबोधाSनुपपत्त्या समानविशेष्यकत्वेन कार्यकारणभावासम्भवेन समानप्रकारकत्वेनैव कार्यकारणभावोपगमादिति चेत् ? मैवम् । व्यक्तिविषयतायाः कारणतावच्छेदककोटावनिवेशे व्यक्तिशक्तिस्वीकारस्य वैयर्थ्यापत्तेः । न च तदस्वीकारे गोत्वप्रकार कशाक्तज्ञा.. परीक्षा
बोधः । व्यक्तौ प्रकारता च निरखच्छिन्ना, नचैकव्यक्तेः प्रकारत्वेऽखिलव्यक्तौ कार्यान्वयो न स्यादिति वाच्यम् ? विशेष्यभूतजात्यानुगतीकृतम्प्रकारत्वमिति तन्मतनिर्णयः ।
वस्तुतस्तु जातिविशिष्टा व्यक्तिर्वाच्या इत्येव युक्तम् । अत एव जातिप्रकारिकैवोपस्थितिः । नचानेकत्री हितात्पर्य्यकस्य 'सम्पन्नो व्रीहिः । इतिवाक्यस्यानुपपत्तिरिति वाच्यम् ? अनैकवचनार्थस्यैकत्वस्य स्वाश्रयप्रकृत्यर्थतावच्छेदकत्वसम्बन्धेनान्वयस्वीकारात् । शक्तिज्ञानपदार्थोपस्थितिशाब्दबोधानां समानप्रकारकत्वेन कार्य्यकारणभावान्न निर्विकल्पक स्मरणापत्तिः । नन्वेवमेकमिति पक्षस्य निरालम्बनात्वापत्तिरत