________________
२१२
दर्पणपरीक्षासहित भूषणसारेएकमित्यस्य चाऽयमभिप्रायः-शक्तिज्ञानेच विषयतयाऽवच्छेदिका जातिरेकैव । तथाच घटत्वप्रकारकघटत्वविशिष्टबोधे घटत्वांशे ऽन्याप्रकारकघटत्वशक्तिज्ञानत्वेन हेतुतेति कार्यकारणभाव इत्यादि
दर्पणः नत्वेन हेतुत्वाऽसम्भवः, व्यक्तौ शक्त्यभावेन तादृशक्तिज्ञानस्य भ्रमत्वादिति वाच्यम् । शक्तिर्हि न स्वरूपसती शाब्दबोधहेतुरपभ्रंशादपि बोधोदयादगृहीतशक्तिकाच्छाब्दबोधापत्तेश्व, किन्तु ज्ञाता। तथाच यदंशे शक्तिज्ञानहेतुस्तदेव शक्यमिति जातिवद् व्यक्तिरपि शक्यैव । एवं तद्वैशिष्टयमपि तथा । अन्यथा व्यक्ताषेव शक्तिर्व्यक्तिशक्तिज्ञाने जातेरपि प्रकारकत्वात् समानप्रकारत्वेन शक्तिज्ञानपदार्थोस्थितिशाब्दबुद्धीनां कार्यकारणभावादिति जातावपि शक्तिरुच्छियेत। ___ नच यविषयकत्वेन शक्तिज्ञानं कारणं तदवश्यं शक्यमिति नियमाजातौ शक्तिः सेत्स्यतीति वाच्यम् ? तर्हि व्यक्तिविषयकत्वेन शक्तिज्ञानस्य हेतुतया व्यक्तिशक्ति. स्वीकारस्यावश्यकत्वादुक्तेऽर्थे भाष्योपन्यसनं तु “कस्यचित् प्रधानभूतं, किञ्चिद् गुणभूतम्" इत्युपसंहारभाष्यानालोचनमूलकमेवेत्यास्तां तावत् ॥ 'नन्धेवमेकमिति पक्षस्य निरालम्बनतापत्तिरत आह-*एकमित्यस्य चेति । बोधकत्वं शक्तिरिति मते बोधकत्वज्ञानविषयबोधांऽशे प्रकारितयावच्छेदकत्वशक्तिरित्यर्थलाभात्तदाश्रयजातेरैक्याच्छब्दनिष्ठबोधकत्वस्यैव विनिगमनाविरहादर्थनिष्ठबोध्यत्वस्याऽपि शक्तित्वमिति मतेऽप्यस्मात् पदादेतदर्थबोधो भवत्विति शक्तिज्ञाननिष्ठशाब्दधीहेतुतायां प्रकारितयावच्छेदिकाया जातेरैक्याद्वा तत्पक्षोपपत्तिरित्यर्थः। तथा च तादृशप्रकारितावच्छेदकतारूपायाः शक्तेर्जातिमात्रनिष्टतयाऽऽकृतिरेव पदार्थ इति पक्षः समर्थितो भवति । अवच्छेदकतायाः स्वरूपसम्बन्धरूपाया घटत्वाद्यात्मकत्वेऽप्यवच्छेद्योऽवच्छेदकभाव उपहिताऽनपहितभेदात समर्थनीय ___ एवमेवैकं व्यक्तिरिति पक्षोऽपि समर्थनीयः । तादृशज्ञाननिष्ठशाब्दबोधकारणतायां बोधांशे विशेष्यताया व्यक्तेरवच्छेदकत्वात् । एतत्पक्षे चावच्छेद्यावच्छेदकभावस्य सामञ्जस्येनोपपत्तिर्गोत्वादिजात्याऽनुगमान्न तदानन्त्यमपि । शक्यतावच्छेदकप्रकारकव्यक्तिबोधे व्यक्तिशक्तिग्रहस्यैतत्कल्पे हेतुतया चलत्वादिना गवादिव्यक्तिबोधार्थे तत्प्रयोगस्याऽप्युपपत्तिश्चेति बोध्यम् ॥
ननु 'घटो घटपदबोध्यः' इत्याकारकशक्तिज्ञानात् स्वरूपतो घटत्वप्रकारकविशिष्टबुद्धेरिव जातित्वेन घटत्वविशिष्टबुद्धेरप्यापत्तिस्तत्कार्यताकच्छेदकाक्रान्तत्वादत आहनिशाचेति घटत्वप्रकारकविशिष्टबोधे इति* । स्वरूपतस्तत्प्रकारकबोध इत्यर्थः॥ *कार्यकारणभाव इति । तथाच 'जातिमान् घटः' इति बोधस्य घटत्वांशे जातित्व
__परीक्षा आह-*एकमित्यस्य चेति । एकमेवाभिप्रेत्य कार्यकारणभावो न विशिष्टमित्यर्थः । जातिविशिष्ट शक्तिस्वीकारे सति यादृशः कार्यकारणभावः सम्प्रतिपन्नस्तमाह*तथाचेति*। *घटत्वविशिष्टबोध इति । निरवच्छिन्नघटत्वनिष्ठप्रकारताकशाब्दबोध इत्यर्थः । *घटत्वशक्तिज्ञानत्वेन*-घटत्वप्रकारकशक्तिज्ञानत्वेन ।