SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ नामार्थनिर्णयः । २१३ प्रपञ्चितं भूषणे । तदेतदभिप्रेत्याह -* द्विकमिति । जातिव्यक्ती इत्यर्थः । पूर्वपक्षविरोधपरिहारः पूर्ववत् ॥ *त्रिकमिति ॥ जातिव्यक्तिलिङ्गानीत्यर्थः । सत्त्वरजस्तमोगुणानां साम्यावस्था नपुंसकत्वम् । आधिक्यं पुंस्त्वम् । अपचयः स्त्रीत्वम् । तत्तच्छन्दनिष्ठं तत्तच्छब्दवाच्यं च दर्पणः प्रकारकत्वेनोक्तशक्तिज्ञानकार्य्यतावच्छेदकानाक्रान्तत्वेनोक्तापत्तेरसम्भवात् घटत्वांशे जातित्वप्रकारकघटत्वविशिष्टबुद्धिं प्रति तु तदंशे जातित्वप्रकारकशक्तिज्ञानस्य हेतुत्वाऽन्तरं कल्पनीयमिति भावः । ननु तदंशेऽन्या प्रकारकत्वघटितधर्मस्यार्थसमाजग्रस्ततया कथं कार्य्यतावच्छेदकत्वमत आह—* प्रपञ्चितमिति । तथाच निरवच्छिन्नप्रकारताकतद्विशिष्टबुद्धिं प्रति निरवच्छिन्नतत्प्रकारताकतच्छक्तिज्ञानस्य, सावच्छिन्नतत्प्रकारताकतद्विशिष्टबुद्धिं प्रति सावच्छिन्नतत्प्रकारकशक्तिज्ञानस्य हेतुत्वकल्पनान्नोक्तापत्तिरिति तत्रोक्तमित्यर्थः । *तदभिप्रेत्येति। उक्तरीत्या विशिष्टस्य शक्यत्वमुपगम्येत्यर्थः । *जातिव्यक्ती इति । विशेष्यविशेषणभावापन्ने ते इत्यर्थः ॥ *पूर्वपक्षादिति । एकमिति पक्षादित्यर्थः । तत्पक्षे हि शाब्दज्ञानकारणतायां बोधांशे प्रकारितयावच्छेदकत्वं शक्तिरिति जातिरेव शक्या । विशेष्यितयावच्छेदकत्वमिति मते केवलव्यक्तिरेव शक्येति सिद्धान्तितम् । अत्र तु विषयितात्वेन प्रकारिताविशेष्यिते अनुगमय्य तत्र विषयितयाऽवच्छेदकत्वं शक्तिरित्युपगमाद् द्वयोरपि नामार्थत्वसिद्धिरिति न तयोः परस्परविरोधशङ्केति भावः । एतेषां मतानामाकरारूढत्वेऽपि व्यक्तिः पदार्थ इति पक्ष एव क्षोदक्षमः । प्रत्येकपदशक्तिनिर्णयस्त्वन्य-. तोऽवधार्य्यः ॥ *लिङ्गानीति* । लिङ्गत्वं च प्राकृतगुणवतो धर्मविशेषः । तद्विशेषश्च नपुंसकत्वादीत्याशयेनाऽऽह -- *सत्त्वेति । *साम्यावस्थेति । उपचयापचयराहित्येनावस्थानमित्यर्थः । उपचयो वृद्धिः, अपचयस्तन्न्यूनत्वम् ॥ *तत्तच्छब्दनिष्ठमिति । जातिगुक्रियादिभेदभिन्नशब्दनिष्ठम् ॥ तत्तच्छब्दवाच्यं चेति । स्वाश्रयशब्दवाच्यं परीक्षा विशिष्टस्य वाच्यत्वेऽपि वस्तुतः पदार्थस्य वाच्यस्य द्वित्वमित्याह -* एतदभीति । अत एव " प्रातिपदिक" इति सूत्रे प्रवृत्तिनिमित्तं तदाश्रयश्च प्रातिपदिकार्थ इत्यभियुका वदन्ति । वस्तुतस्तु "स्वमोर्नपुंसकात्” “ह्रस्वो नपुंसके प्रातिपदिकस्य" इत्यादि.. शास्त्रप्रामाण्येन लिङ्गमपि प्रातिपदिकार्थ इत्याशयेनाह - त्रिकमितीति । ननु लिङ्ग “स्तनकेशरती स्त्री स्यात्” इति लोकप्रसिद्धं वाच्यञ्चेद्दारा नित्यस्यासिद्धिरत आह*सत्त्वेति* । अयम्भावः- न लौकिक लिङ्गं शास्त्रीयप्रक्रियोपयोगि; किन्तु शास्त्रीय-मेव । एवञ्च प्राकृतगुणगतधर्मविशेषो लिङ्गम् । पुंस्त्वादिकन्तदवान्तरभेदः । *साम्यावस्थेति* । उपचयापचयराहित्येनावस्थानमात्रम् । आधिक्यम् - सत्वाद्यन्यतमस्य पूर्वकालस्थिताधिक्यम् । अपचयो - न्यूनीभवनम् । *तत्तच्छब्देति । जात्यादिभेदेन
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy