________________
२१४ दर्पणपरीक्षासहित भूषणसारेतमेव विरुद्धधर्ममादाय तटादिशब्दा भिद्यन्ते । -- केषाञ्चिदनेकलिङ्गत्वव्यवहारस्तु समानाऽनुपूर्वीकत्वेन शब्दानामभेदारोपात् । - एवश्च पदार्थपदे पुंस्त्वमेव । व्यक्तिपदे स्त्रीत्वमेव । वस्तुपदे नपुं. सकत्वमेवेति । सर्वत्रैवायं पदार्थः, इयं व्यक्तिः, इदं वस्तु, इति व्यवहारः, तटस्तटीतटमिति चोपपद्यते ।
दर्पणः चेत्यर्थः । (लिङ्गः शब्द इति व्यवहारात् , “तस्माच्छसो नः” (पा०सू० ६।१।१०३ ) "स्वमोनपुंसकात्" (पा० सू० ६।२३) इत्यादिसूत्रप्रमाण्याच्चेति भावः ॥ *तमेवेति ॥ समानाऽनुपूर्वीकत्वेऽप्युपचयाद्यवस्थारूपं परस्परसमानाधिकरणं लिङ्गमादयैवेत्यर्थः ॥ भिद्यन्ते इति ॥ पुंस्त्वादिलिडकेतरव्यावृत्तिविधेयकानुमित्युद्देश्या भवन्तीत्यर्थः ॥ - ननु लिङ्गस्योक्तावस्थारूपत्वे तासां परस्परविरुद्धानामेकत्राऽवस्थानासम्भवेन केषुचिच्छब्देष्वनेकलिङ्गकत्वव्यवहारः किं निबन्धनोऽत आह-*केषाञ्चिदिति ॥ तटादिशब्दानामित्यर्थः ॥
वस्तुतस्तेषां विरुद्धत्वेऽपि शब्दानां समानानुपूर्वीकत्वनिबन्धनाभेदाध्यासादनेकलिङ्गकत्वव्यवहारोपपत्तिरित्यर्थः । अर्थनिष्ठम्-'स्तनकेशवती नारी लोमशः पुरुष स्मृतः' इत्यादिस्मृतिलक्षितं लिङ्ग तु नात्राऽश्रयितुं शक्यम् । दारानित्यादौ शस्प्रकृत्यर्थे तदभावेन नत्वाद्यनापत्तेः । तथाच भाष्यम्-“एकाऽर्थशब्दान्यत्वादूदृष्टं लिङ्गान्यत्वमव. यवान्यत्वाञ्च" इति । एकस्मिन्नथें “पुष्यस्तारकानक्षत्रम् इति लिङ्गनानात्वदर्शनात्, कटीकटीएइत्यादौरेफस्याऽवयवस्योपजनेऽपि लिइन्भेददर्शनाच्चान्यदेव शब्दनिष्ठं लिडरमिति तदर्थः । अर्थनिष्ठत्वे तु-पुंलिङ्गः शब्द इति सामानाधिकरण्यानुपपत्तिश्चेतिभावा
एवञ्चेति ॥ पारिभाषिकशब्दनिष्ठलिङ्गस्य व्यवहारौपयिकत्वे चेत्यर्थः ॥ *व्यवहार इति ॥ अर्थनिष्ठस्य तस्य तन्नियामकत्वे तु स्त्रीव्यक्तिर्वस्तुपदार्थपदाभ्यां न व्यवहियेता एवं पुरुषादिरपि व्यक्त्यादिशब्दैः स्तनकेशादिरूपलौकिकलिङ्गस्य खट्वादावभावेन तद्वाचकात् स्त्रीप्रत्ययाद्यनापत्तश्चेति भावः । *तटस्तटीति* ॥ अथे लौकिकलिङ्गाभावेऽपि परस्पराऽसमानाधिकरणपारिभाषिकलिङ्गवत्त्वेन विभिन्नानां तटादिशब्दानां तत्तत्त्कार्यभाक्त्वमुपपद्यत इत्यर्थः । ।
परीक्षा भिन्ना ये शब्दास्तेषु शब्देषु स्थितं यल्लिङ्ग तत्स्वाश्रयशब्दवाच्यम् । *तमेवशब्दनिष्ठं पुंस्त्वादिकमेव । भिद्यन्त इति । यद्यपि तटेत्यानुपूर्वी समानैव, तथापि तत्तच्छब्दरूपपक्षे तत्तलिङ्गेन हेतुता-इतरभेदविधेयताकानुमित्युद्देश्यता भवति । नचैवं भेदोऽवस्थाभेदेन सर्वेषामेवेति केषुचिद् द्विलिङ्गत्वादिव्यवहारो यो दृश्यते, तस्य का गतिरत आह-*केषाञ्चिदिति । वस्तुतः सर्वेषामर्थानां त्रिगुणात्मकतयाऽवस्थाभेदेन भेदस्य सर्वत्रासम्भवेनार्थभेदेन शब्दनाम्भेदः। पुंस्त्वादिकञ्चार्थनिष्ठमत एव "एकार्थे शब्दान्यत्वादृष्टं लिङ्गान्यत्वम्” इति भाष्यं संगच्छते। यथा-'पुष्यस्तारका