________________
.. नामार्थनिर्णयः।
२१५
__ तञ्च लिङ्गमर्थपरिच्छेदकत्वेन अन्वेतीति पश्वादिशब्दोक्तं पशुस्त्रियां नास्तीति पशुनेत्यादिविधिन छाग्यादीनङ्गत्वेन प्रयोजयतीतिविभावनीयम् । नच व्यक्त्यादिशब्दोक्तलिङ्गस्येव पश्वादिशब्दोक्तः स्यापि साधारण्यं शङ्कयम् । व्यक्तिशब्दस्य नित्य स्त्रीलिङ्गत्वेन तथा सम्भवेऽपि पशुशब्दस्य नित्यपुंलिङ्गत्वे प्रमाणाभावात् ।
..दर्पणः ननु शब्दनिष्ठोक्तलिङ्गस्यैव स्रीपुंसादिव्यवहारौपयिकत्वे तस्य स्त्रीवाचकपशुशब्देऽपि सत्त्वात् 'पशुना यजेत' इत्यत्र पशुस्त्रीकरणकयागादप्यदृष्टसिद्धिः स्यात् , तदुः पात्तलिङ्गस्य व्यक्त्यादिशब्दोक्तलिङ्गवत् स्त्रीपुंसादिसाधारण्येनाऽर्थापरिच्छेदकत्वादत आह-*तच्चेति* ॥ शब्दनिष्टमेवेत्यर्थः ॥ *अथेति* ॥ अर्थमपि परिच्छिनत्तीत्यर्थः । तदेवाह-*पश्वादिशब्दोक्तमिति । लिङ्गमिति शेषः । यदि स्त्रीपशु-गाङ्गत्वेन विवक्षितोऽभविष्यत्तदा, अस्त्रीविहितनाभावं विभक्त्यन्ते न प्रयोक्ष्यत् । तदन्तपशुशब्दप्रयोगात्तु पुम्पशुरेव यागाङ्गमिति निर्णीयते इत्यर्थः । स्त्रीलिङ्गार्थकपशुशब्दादू "आडो नाऽस्त्रियाम्" (पा० सू० ७।३।१२० ) इति विहितमाभावस्य तृतीयैकवचनेऽसम्भवेन तदन्तपशुशब्दप्रयोगात् तदर्थस्य पुंस्त्वाऽवगतेरिति भावः। ___ नजु व्यक्त्यादिशब्दानामर्थनिष्ठलिङ्गानादरेण प्रवृत्तिवत्पशुशब्दस्य तथा प्रवृत्तौ बाधकामावादुक्तदोषो दुरपह्नव इत्याशङ्कय निराचष्टे-*नचेति । व्यक्त्यादीत्या. दिना वस्त्वादिपदसंग्रहः । साधारण्यं स्वाश्रयवाच्यत्वसम्बन्धेन, स्त्रीपुंसवृत्तित्वं नित्यस्त्रीलिङ्गत्वेनेति "स्त्रियां क्तिन्” (पा० सू० ३।३।८४) इत्यनुशासनादिति भावः । ननु 'पशुना यजेत इति वैदिकप्रयोग एव तस्य नित्यपुंस्त्वे मानं स्यादत आह
परीक्षा नक्षत्रम्' इति पुल्लिङ्गः शब्दव्यवहारस्तु वाचकयोस्तादात्म्यात् । एवञ्च यस्य शब्दस्यकावस्थायुक्तार्थाभिधायकत्वमेवः तस्य नियतलिङ्गत्वमिति व्यवहारः । यस्यावस्थाद्वययुक्ताभिधायकत्वन्तत्रोभयलिङ्गत्वमिति तटादिशब्दे तु न तथेति तेषु लिङ्गत्वव्यवहारः। स सा अवस्थाऽस्ति । परन्तु शब्दशक्तिस्वभाव एव तत्तल्लिगप्रतिपादने नियामको द्रष्टव्यः।
ननु पदार्थशब्दवत् पशुशब्दोऽपि स्त्रीव्यक्तौ प्रवर्तत इति छाग्या अपि यागाङ्गत्वापत्तिरत आह-*तच्चेति । शब्दनिष्टमिति मते शब्दार्थयोस्तादात्म्यादर्थमपि परिच्छिनत्ति । 'पशुना यजेत' इति नाभावदर्शनेन पुंस एव यागाङ्गत्वम्। न तु स्त्रिया इति निर्णयः । ननु व्यक्तिशब्दस्य लौकिकलिङ्गानादरेण लौकिकपुंस्त्वविशिष्टे प्रवृत्तिस्तथा पशुशब्दस्य शास्त्रीयपुंस्त्ववैशिष्टयमादाय स्त्रियामपि प्रवृत्तिः स्यादिति कथं नाभावदर्शनमात्रेण निर्णय इत्याशङ्कानिराचष्टे-*न चेति । नित्यस्त्रीलिङ्गत्वे. नेति । "स्त्रियां क्तिन्" इति स्त्रियां क्तिनो विधानात् । *प्रमाणाभावादिति । तथाच सति सम्भवे लौकिकलिङ्गविशिष्टशास्त्रीयलिङ्गस्य तत्राश्रयणमिति न छाग्या अन्त्वम्।