________________
२१६
दर्पणपरीक्षासहिते भूषणसारे___“पश्चाऽनतायुं गुहा चरन्तं” “पश्वे नृभ्यो यथा गवे”इत्यादिवेदे दर्शनाञ्च ॥ मीमांसायां चतुर्थे "पशुना यजेत" इत्यत्रैकत्वपुंस्त्वयोर्विवक्षितत्वान्नाऽनेकपशुभिः पशुस्त्रिया वा याग इति प्रतिपादितत्वाञ्च ॥
वस्तुतस्तु विशेषविध्यभावे उप्रत्ययान्तानां पुंस्त्वस्य व्याकरणेन निर्णीतत्वाद् वेदभाष्येऽपि “जसादिषु छन्दसि वा वचनम्” इति ना. भावाऽभाव इत्युक्तेः पशुशब्दस्य नित्यपुंस्त्वनिर्णयात् । प्रकृते-"छागो वा मन्त्रवर्णात्" इति न्यायेनैव निर्णयः। मन्त्रवणे हि-"छागस्य वपाया मेदसः' इति श्रूयते । तत्र छागस्येति च्छाग्यामसम्भावितमिति भवति ततः पुंस्त्वनिर्णय इति विस्तरेण प्रपश्चितं भूषणे ।
दर्पणः *पश्वेति । तथा च वेदे पशुशब्दस्य स्त्रीलिङ्गत्वस्याऽपि दर्शनेन न तस्य व्यक्त्यादिशब्दसाम्यमिति भावः । स्वोक्तेऽर्थे मीमांसकसम्मतिमाह-मीमांसायामिति । वक्ष्यमाणाऽस्वरसादाह-वस्तुतस्त्विति । ननु उप्रत्ययान्तानां नित्यपुंस्त्वे पश्वेत्यादिस्त्रीलिङ्गप्रयोगाऽनुपपत्तिरत आह-*वेदभाष्येऽपीति । तथा च व्यक्त्यादिशब्दोक्तलिङ्गस्येव पशुशब्दोक्तलिङ्गस्यापि स्त्रीपुंससाधारण्यान्न तस्यार्थपरिच्छेदकत्वमिति भावः।
ननु कथं तर्हि पुम्पशोरेव यागाङ्गत्वनिर्णयोऽत आह-*छागो वेति । न्यायेनैवेत्येवकारेण लिङ्गस्याऽर्थपरिच्छेदकस्य व्युदासः । यथा-"सारस्वतौ मेषौ" इत्यत्र तद्धितप्रकृतिशब्दः स्त्रीलिङ्गः पुंल्लिङ्गो वेति सन्देहे, "सन्दिग्धे वाक्यशेषात्” ( मी० सू० ११४।१९।२९) इति न्यायेन "एतद्वैदैव्यं मिथुनम्" इत्यर्थवादादूद्वयोरेवैकशेषेण ग्रहणं तद्वन्मन्त्रवर्णादन पुम्पशोर्यागाऽङ्गत्वनिर्णय इति भावः। *तत्रेति । मन्त्रवणे इत्यर्थः । *असम्भावितमिति । छागशब्दस्य व्यक्त्यादिवन्नित्यलिङ्गत्वाभावादिति भावः । *प्रपञ्चितमिति । लौकिकलिङ्गमेव नामाऽर्थः। तच्चावयवविशेषसं. स्थानरूपम् । दारानित्यादौ पुंस्त्वारोपेणैव तत्प्रयुक्तकार्यम् । “रात्राहाहाः पंसि च" (पा० सू० २।४।२९) इत्यादिलिङ्गानुशासनस्येवोक्तार्थे मानत्वात् । अत एव न पशुस्त्रिया यागसिद्धिः । अथवा स्त्रीत्वादिर्जातिरेव ।
परीक्षा *पश्वेति । तथा च लौकिकवैदिकव्यवहारबलेन पशुशब्द उभयलिङ्गः । एतच्च पशुशब्दस्योभयलिङ्ग त्वमभ्युपेत्य ।
वस्तुतः पशुशब्दो नित्यपुंल्लिङ्ग एवेत्याह-*वस्तुतस्त्विति । नन्वेवं व्यक्तिशब्ददृष्टान्तेन पशुनेति नाभावदर्शनमात्रेण निर्णय इत्यत आह-*प्रकृत इति । न्यायेनैवेत्येवकारेण लिङ्गस्य परिच्छेदकत्वव्यवच्छेदः । *मन्त्रवर्णादिति । सन्देहे वाक्यशेषेण निर्णय इति मन्त्रे-"अग्नये छागस्य हविषो वपाया" इति श्रवणेन पुंस एव 'पशुना' इतिवाक्येन यागाङ्गत्वप्रतिपादनमिति कल्प्यत इति भावः। लिङ्गस्य प्रातिपदिकवाच्यतायां प्रमाणन्तु-"स्वमोनपुंसकात्” इत्यादिशास्त्रीयानुवाद एव । न च ब्रह्मादिशब्दवाच्यार्थस्यात्मनो नित्यतया सत्त्वादिगुणानामुपचयादिकं तत्र ना