SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ . नामार्थनिर्णयः। २१७ *चतुष्कम्* ॥ संख्यासहितं त्रिकमित्यर्थः ॥ *पञ्चकम् ॥ कारकसहितं चतुष्कमित्यर्थः ॥ दर्पणः तिस्रो जातय एवैताः केषाञ्चित् समवस्थिताः। अविरुद्धा विरुद्धाभिर्गोमहिष्यादिजातिभिः॥ इत्यादि तत्रोक्तमिति । परे तु स्तनकेशवती नारी लोमशः पुरुषः स्मृतः । एतयोरन्तरं यच्च तदभावे नपुंसकम् ॥ इति स्मृत्युक्तलक्षणलक्षितलिङ्गास्याऽसार्वत्रिकत्वेन दारानित्यादौ नत्वाऽनापत्त्या "स्त्रियाम्" इति सूत्रे “अवश्यं कश्चित् स्वकृतान्त आस्थेयः" इत्यादिना सार्वत्रिकगुणाऽवस्थारूपपारिभाषिकलिङ्गस्य शास्त्रीयकार्योपयोगिनोः भाष्यकृताsभ्युपगमेऽपि गुरुसज्ञाविज्ञानान्नत्वादिशास्त्रप्रवृत्तौ लौकिकलिङ्गस्याप्याश्रयणं पुमादिसज्ञानां सहव्यासज्ञाया इवाधिकसङ्ग्रहार्थं प्रवृत्तत्वेऽपि मतसिद्धार्थनिरासार्थमप्रवृत्तः । अत एव आविर्भावस्तरोभावस्थितिश्चेत्यप्यपायिनः । धर्मा मूर्तिषु सर्वासु लिङ्गत्वेन व्यवस्थिताः॥ इत्यत्रापि नाऽलौकिकलिङ्गमपि समुच्चितवान् हरिः । तत्र सति सम्भवे सामानाधिकरण्यसम्बन्धेन लौकिकपुंस्त्वविशिष्टशास्त्रीयलिङ्ग एव पुमादिशब्दानां शक्तिर्न केवलशास्त्रीये, नाऽपि लौकिके । असम्भवे तु शास्त्रीय एव । अत एव 'पशुना यजेत: इत्यादौ पशुस्त्रिया कृते यागे वैगुण्यम् । तत्र लौकिकपुंस्त्वविशिष्टशास्त्रीयपुंस्त्वस्यैव शब्देन प्रतिपादनादित्याहुः। . - अथ लिङ्गे शक्तिग्रहविषयताया अभावेन प्रातिपदिकार्थत्वाभावात् , त्रिकमिति पक्षोऽनुपपन्न इति चेद् ? न । “स्वमोनपुंसकाद्” (पा० सू० १।११८३ ) इत्यादिसूत्रप्रामाण्येन पुल्लिङ्गादिविशिष्टोऽयं घटो घटपदवाच्य इत्याकारकशक्तिग्रहाऽभ्युपगमेन सामञ्जस्यात् । शब्दनिष्ठमेव लिङ्गं नत्वादिप्रवृत्तौ निमित्तमिति मते शब्दाऽर्थयोरभेदे लिङ्गस्य साक्षादित्यर्थात् स्वाश्रयवाच्यत्वसम्बन्धेनाऽर्थोशे प्रकारकत्वाद्धर्मिताsवच्छेदकत्वेन धर्मिताऽवच्छेदकसमानाधिकरणत्वेन वा शक्तिग्रहविषयताया नियामकत्वस्य फलबलेन कल्पनात्। ५. वस्तुतस्तु पारिभाषिकलिङ्गमप्यर्थ एव स्वीकर्तुमुचितम् । पुंल्लिङ्गः शब्द इत्यादौ पुल्लिङ्गादिशब्दा अर्शआधजन्ताः । आत्मनि सर्वस्याध्यस्तत्वेन परम्परया तत्रापि स्त्यानादिसत्त्वात् "आत्मा ब्रह्म" इत्यादिप्रयोगोपपत्तिः । स्त्यानं तिरोभावोऽपचय इति यावत् । उपचयादिविवक्षाया एव प्रयोगनियामकत्वेन तेषामेकत्र विरोधेऽपि परीक्षा स्तीति कथं पुल्लिङ्गोऽपीत्यादिव्यवहार इति वाच्यम् । सर्वस्यापि प्रपञ्चस्यात्मन्यध्यासेन परम्परया तत्राप्युपचयादिमत्वमस्तीत्याशयात् । अथान्वयव्यतिरेकाभ्यां प्रत्ययस्यैव कारकवाचकत्वमुचितमत एव कर्तृकरणा २८ द० प०
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy