________________
दर्पण परीक्षासहिते भूषणसारे -
नन्वन्वयव्यतिरेकाभ्यां प्रत्ययस्यैव तद्वाच्यम्, तत एव लिङ्गादीनामुपस्थितौ प्रकृतिवाच्यत्वे मानाभावाच्चेति चेत् ? सत्यम् । प्रत्ययवर्जिते 'दधि' 'पश्य' इत्यादौ प्रत्ययमजानतोऽपि बोधात् प्रकृतेरेव वाचकत्वं कल्प्यते । लिङ्ङानुशासनस्य प्रकृतेरेव दर्शनाच्च । अत एवैषु पक्षेषु न निर्बन्धः । प्रत्ययस्यैव वाचकताया युक्तत्वात् ।
२१८
दर्पणः
क्षत्यभावात् । अत एव “सामान्ये नपुंसकम्” ( वा० ) इति तत्र तत्रोक्तं सङ्गच्छते । उत्कर्षापकर्षसत्त्वेऽपि तदविवक्षायामिति तदर्थ इत्याद्यऽन्यतोऽवधार्यम् ।
लिङ्गादित्रयस्य नामार्थत्वं साधयितुं शङ्कते -* नन्विति । *अन्वयव्यतिरेकाभ्यामिति । टाबादिसमभिव्याहारे अश्वादिपदात् स्त्रीत्वबोधादभावे च तदबोधादेवं रूपाभ्यामित्यर्थः । एवमन्यत्राऽप्यूह्यम् । तथा च ताभ्यां लिङ्गादेः प्रत्ययार्थत्वाऽवधारणान्न लिङ्गादित्रिकस्य प्रकृत्यर्थत्वमित्यर्थः । 'दधि' 'पश्य' इत्यादावित्यादिना 'अयं याति ' 'इयमायाति' इत्यादिपरिग्रहः । *बोधादिति । कर्मत्वादिबोधादित्यर्थः । तथाच व्यतिरेकव्यभिचारेणान्यलभ्यत्वाच्च तदर्थत्वाऽभावान्नामाऽर्थत्वमेव तेषामावश्यकमिति भावः । वक्ष्यमाणयुक्त्या सङ्ख्याकारकयोः प्रत्ययार्थत्वेऽपि लिङ्गस्य प्रकृत्यर्थत्वमेव युक्तमित्याशयेनाह - लिङ्गति । अत एवेति । प्रकृतिप्रत्यययोरन्यतरस्य वाचकत्वे युक्तिसाम्यादेवेत्यर्थः । *निर्बन्ध इति । इदमेव मतं मुख्यमित्यभिनिवेश इत्यर्थः । तदेवाह - * प्रत्ययस्यैवेति । *युक्तत्वादिति । अनन्तानां प्रकृतीनां शक्तत्वकल्पनापेक्षया कतिपयस्वादीनामेव तत्कल्पने लाघवादिति भावः ।
I
केचित्तु टाबादिकं विनापि वागादिशब्देभ्यः स्त्रीत्वस्याऽव्युत्पत्तिपक्षे रामज्ञानादिशब्देभ्यः पुन्नपुंसकत्वयोर्बोधस्य सार्वजनीनाऽनुभवसिद्धत्वाल्लिङ्गत्वं प्रातिपदिकाऽर्थत्वमेव । लुप्तविभक्तिस्मरणादपि बोधाऽङ्गीकारेण सङ्ख्याकारकयोर्विभक्तिवाच्यतैव । उक्तञ्च
स्वार्थी द्रव्यं च लिङ्ग च संख्या कर्मादिरेव च । अमी पञ्चैव नामार्थास्त्रयः केषाञ्चिदग्रिमाः ॥ इति ।
परीक्षा
दीनां तत्तत्प्रत्ययसमभिव्याहारे प्रतीतिरन्यथा नेत्याशयेन शङ्कते - नचान्वयेति । *तत्*—कारकम् । *तत एव - प्रत्ययादेव । टाबादिसमभिव्याहृताश्वशब्दात्स्त्रीत्वाभिव्यक्तिस्तदभावे नेति रीत्याऽन्वयव्यतिरेकयोस्तत्रापि सत्वात् । *बोधादिति । लिङ्गस्येत्यादि । *लिङ्गानुशासनस्येति । अकारान्तमातृदुहितृस्वस्यातृनन्दा दृइत्यादिलिङ्गानुशासनस्येत्यर्थः । वक्ष्यमाणयुक्त्या संख्याकारकयोः प्रत्ययवाच्यत्वमस्तु; लिङ्गस्य तु लिङ्गानुशासनदर्शनेन प्रातिपदिकवाच्यत्वं युक्तमिति भावः । *अत एव*'दधि' 'पश्य' इत्यादौ स्थलविशेषेऽनुपपत्या प्रकृतेरेव वाचकत्वकल्पनादेव प्रकृतिप्रत्यययोरन्यतरस्य वाचकत्वे युक्तिसाम्यादेव । न निर्बन्ध इति । इदमेव मतं युक्तमित्यभिनिवेशो नेत्यर्थः । एतदेवाह - * प्रत्ययेति । युक्तत्वादिति । अनन्तप्रकृतीनां वाचकत्वकल्पनया कतिपयटाबादीनामयुक्तमिति भावः ।
यद्वा