________________
नामार्थनिर्णयः।
२१९
दर्पणः अग्रिमाः-लिङ्गान्ता इत्याहुः।
नन्वेकवचनत्वादेरनुगतस्य दुर्वचतया कथं तेन रूपेण स्वादीनामेकत्वादिवाचकत्वम् । तथाहि-न तावदेकत्वादिवाचकत्वं तत् । वाचकतायाः शक्ततारूपत्वेनात्माश्रयात् । बोधकतारूपत्वे तु द्विवचनादीनामपि शक्तिभ्रमेणैकत्वादिबोधकतयातिप्रसङ्गात् । बोधकत्वं शक्तिरिति मते आत्माश्रयस्य दुर्वारत्वाच्च । नाप्येकवचनत्वादिक जातिः। सुत्वादिना साङ्कात् । न च पाणिनिसङ्केतसम्बन्धेनैकवचनादिपदवत्त्वं तत् तादृशसङ्केतस्य संकेतत्वेन सम्बन्धत्वे कस्यचिदेकवचनादिपदादोजसादिर्बोद्धव्य इत्याकारकसङ्केतस्यापि सम्भवेनातिप्रसङ्गतादवस्थ्यात् । पाणिनिसङ्केतत्वेन तत्त्वे तु व्याकरणान्तरप्रणेतृपुरुषान्तरस्यापि पाणिनिसंकेततुल्यसंकेतसम्बन्धेन एकवचनादिपदवत्त्वस्य 'डित्थादिपदात् स्वौजसादिर्बोद्धव्याइत्याकारकपुरुषविशेषीयसंकेतसम्बन्धेन डित्थादिपदवत्त्वस्य वा विनिगमनाविरहेण शक्तताऽवच्छेदकत्वाऽऽपत्तेरिति चेद् ? - न। सुत्वाम्त्वादिनैवैकवचनस्य शक्तत्वाभ्युपगमेनोक्तदोषाऽनवकाशात् । कार्यतावच्छेदककोटावव्यवहितोत्तरत्वनिवेशाच्च न परस्परजन्योपस्थितौ व्यभिचारः । न च दधि मध्वित्यादौ व्यभिचारः। तत्र लुप्तविभक्त्यनुसन्धानेनैव बोधाभ्युपगमात् । कथमन्यथा द्योतकतावादिमतेऽपि केवलप्रातिपदिकात् तदुपपत्ति?तकस्यैवाऽभावात्। - नचाऽनेकसुत्वादीनां शक्तत्वाऽवच्छेदकत्वे गौरवात् प्रातिपदिकत्वस्यैकस्य तत्वमुचितं, लाघवादिति शङ्कयम् । उक्तरीत्या प्रातिपदिकत्वस्याऽप्यनुगतस्य दुर्वचत्वात् । तदज्ञानेऽप्येकत्वादिबोधस्याऽनुभवसिद्धत्वात् । पदत्वेन वर्णत्वेन वा शक्तत्वे तु विभक्तेरपि वाचकतासिद्धेः । एकत्वाद्युपस्थितेःप्राग्वर्णत्वाद्युपस्थितेरप्यनावश्यकत्वात् तदनुरोधेन तत्कल्पने गौरवाच्च । पदार्थयोविशेष्यविशेषणभावेनाऽन्वये वि. भिन्नपदजन्योपस्थितेस्तत्र तयैकप्रकृत्युपस्थाप्यघटैकत्वाद्योस्तदभावेन परस्परमनन्वयापत्तिश्चेति स्वादीनां संख्यादिवाचकत्वमेवेति भावः। · द्योतकतावादिनां पुनरयमाशयः-न प्रकृतीनां घटैकत्वाद्योविंशकलितयोः शक्तियेनोक्तदूषणाऽवकाशः स्यात् , किन्त्वेकत्वविशिष्टे घटादौ पृथक्शक्त्यनभ्युपगमेनाsन्वयस्यैवाऽभावात् । अनन्तप्रकृतीनामेकत्वादिशक्तताकल्पनगौरवस्याऽप्यभावाच्च । घटपदस्यैकत्वे शक्तिभ्रमदशायां 'घटः प्रमेयः' इत्यादिवाक्यादेकत्वं प्रमेयमिति बोधस्य सर्वसिद्धतया तदनुरोधेनैकत्वादिविषयकशाब्दबोधे घटादिपदजन्यैकत्वाद्युपस्थितेहेतुताया आवश्यकत्वाच्च ।
किञ्च विभक्तेः संख्यावाचकत्वमते समानविषयकाऽनुमितिसामग्रीप्रतिबन्धक तायां प्रातिपदिकजन्यघटाद्युपस्थितिः स्वादिजन्यैकत्वाद्युपस्थितिश्च निवेश्या। तथाच तयोविशेष्यविशेषणभावे विनिर्गमनाविरहेण प्रतिबद्धचप्रतिबन्धकभावबाहुल्यम्।मन्मते तदुभयस्थलीयैकैकविशिष्टविषयकोपस्थितिस्तत्र निवेश्येति लाघवम् । विशिष्टविषयकोपस्थितेरप्येकत्वादिप्रकारतानिरूपितघटादिविशेष्यताशालित्वेन घटादिविशेष्यतानिरूपितैकत्वादिप्रकारताशालित्वेन वा निवेश इत्यत्र विनिगमकाऽभावात् साम्यमिति तु न । भवन्मते यत्र योग्यताज्ञानघटोपस्थित्येकत्वोपस्थितीनां तिसृणां विशेष्यविशेषणभावे विनिगमनाविरहेण प्रतिबध्यप्रतिबन्धकभावषटकं, तत्र मन्मते योग्यताज्ञाने विशिष्टविषयकोपस्थितेः प्रत्येकं विशिष्टोभयरूपेण वैशिष्टयं निवेश्य द्वयं, प्रत्येक