SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २२० दर्पणपरीक्षासहिते भूषणसारेद्योतिका वाचिका वा स्युद्धित्वादीनां विभक्तयः ॥ दर्पणः तादृशरूपावच्छिन्नायामुपस्थितौ योग्यताज्ञानस्य वैशिष्टयं निवेश्य च द्वयमिति चतुष्टयमिति लाघवात् । अतिप्रसङ्गपरिहारस्तु तत्तत्संख्याबोधे तत्तद्वचनसमभिव्याहारस्य हेतुत्वकल्पनात्। ___ एवं कारक विभक्त्यर्थः" इति कल्पे तत्तत्कारकबोधे स्वोत्तरतत्तद्विभक्तिसमभिव्याहारस्य हेतुत्वकल्पनात् स बोध्यः। स चाऽम् घट इत्यतो बोधवारणाय वाचकतावादिनामप्यावश्यकः। एवं रीत्योपसर्गाणामपि द्योतकत्वं बोध्यमिति पक्षद्वयेऽपि हरिसम्मतिमाह-*द्योतिका वाचिका वेति । ___ यद्वा संख्यावतोऽर्थस्य समुदायोऽभिधायकः । इति त्वस्योत्तरार्द्धम् । घट इत्याद्याकारकाऽनुपूर्व्यवच्छिन्नविभक्त्यन्तसमुदायो वैकत्वादिविशिष्टघटादिवाचक इति तदर्थः । पदस्फोटमवलम्ब्य चेदम् । नामाऽर्थधात्वर्थयोः साक्षादभेदाऽतिरिक्तसम्बन्धेनान्वयस्याव्युत्पन्नत्वादभिधानानभिधानव्यवस्थानुपपत्तेश्च कारकं विभक्त्यर्थ एव । __ यदि च नामाऽर्थधात्वर्थयो)देन परस्पराऽन्वयापादनं, तण्डुलकर्मकपाकविशेष्यकबोधे द्वितीयान्ततण्डुलपदसमभिव्याहृतपचतीत्याद्यनुपूर्वीविशेषज्ञानस्य हेतुत्वकल्पनयैव निरसितुं शक्यम् । अनभिहिताधिकारस्यापि 'संख्या विभक्त्यर्थः इति पक्ष एवोपयोगस्तत्पक्षे "कर्मणि द्वितीया" (पासू० २।३।२) "द्वयेकयो” (पा.सू० २१२।२२ ) इत्यादीनामेकवाक्यतयैव प्रवृत्तेस्तत्र विशेष्यविशेषणभावे कामगरात् । एकस्य यत्कर्म, कर्मणि यदेकत्वमिति द्विधा वाक्यार्थसम्पत्तिः। प्रथमकल्पे द्वितीयादीनां तिङादीनां च कर्मादिवाचकतयाऽन्यतरेणाभिधानेऽन्यतरस्य गतार्थत्वादनभिहितसूत्रमफलम् । द्वितीये तु कृता कर्मणोऽभिधानेऽपि तद्गतसंख्याया अनभिधानात् प्राप्तां द्वितीयां वारयितुं तदवसरः । सति तस्मिन्ननभिहितकर्मगतत्वाभावान्न द्वितीयादिप्रसङ्गः । संख्यापि यदि प्रातिपदिकाऽर्थस्तदोक्तवाक्याऽर्थाऽसम्भवात् सूत्रवैयर्थ्यमेव । नन्वनभिहितसूत्राऽभावे 'भीष्मं कटं करोति' इत्यादौ भीष्मादिपदाद् द्वितीयाद्यनुपपत्तिः । विशिष्टस्यैव कटादेः क्रिययेप्सिततमत्वात् प्रातिपदिकार्थमात्रे प्रथमाप्रस परीक्षा उक्तानियमे हरिसम्मतिमाह-योतिकेति । अत्र 'द्वित्वादिनाम्' इति कथनेन संख्याकारकयोः प्रातिपदिकवाच्यत्वे मतभेदो दर्शितो न लिङ्गश इति लिङ्ग प्रातिपदिकवाच्यमेव टाबादिकं द्योतकमत एव लिङ्गस्य विशेषणतया भानमिति दर्शितम् । उक्तञ्च "स्वार्थो व्यञ्च लिङ्गञ्च संख्या कर्मादिरेव च । ___ अमी पञ्चैव नामास्त्रियः केषाञ्चिदग्रिमाः॥ इति, अग्रिमाः-लिङ्गान्ताः । विभक्तीनामेकत्वादिवाचकत्वपक्षे नियता या सुप्त्वाद्यानुपूर्वी सा वाचकतावच्छेदिका । नच यत्र विभक्तेर्लुक्कथनं तत्र संख्याऽप्रतीतिरिति वाच्यम् । लुप्तविभक्तिस्मरणेन संख्याया बोधात् । विभक्त्यस्मरणकल्पने द्योतक
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy