SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ - नामार्थनिर्णयः। २२२ इति वाक्यपदीयेऽपि पक्षद्वयस्य व्युत्पादनात् ॥. *शास्त्र इति । बहुषु स्थलेषु व्युत्पादनं व्यञ्जयितुम् । प्राधान्येन तु सरूपसूत्रादौ व्यक्तम् ॥ २५ ॥ . दर्पणः ङ्गात्। तत्सूत्रपक्षे त्वभिधानस्य कृदादिभिः परिगणनात्कटप्रकृतिद्वितीययाऽभिहितेऽपि तस्मिन् भीष्मादिपदेभ्यो द्वितीयादिविभक्तेः सूपपादत्वादिति चेद् ? न। .. विशिष्टस्य विधित्सायां धर्मिमात्रेण तोषाऽभावाद्धर्माणामपीप्सिततमत्वात् कर्मत्वम् । तस्य चान्यवाचकपदोत्तरद्वितीययानभिधानात्। कृतः कट इत्यादौ तु प्रत्ययस्य धातूत्तरवर्तित्वेन तेन प्रातिपदिकार्थविशेषनिष्ठकर्मत्वस्यानभिधानादविशेषाद्धर्मधर्मिनिष्ठतदभिधानमिति भीष्मादिविशेषणवाचकपदेभ्यः प्रथमोपपत्तिरिति न काऽपि तदनारम्भेऽनुपपत्तिः। तदुक्तम्भाष्ये-“कटोऽपि कर्म भीष्मादयोऽपि” इति तदाऽस्तु कारकमपि प्रातिपदिकाऽर्थः। अस्मिन्नपि पक्षे कारकस्य प्रकृत्यर्थव्यक्तिविशेषणतैव विभक्तिद्योत्यत्वादिति केचित् । - नचैवं प्रातिपदिकार्थप्रकारकबोधे सुब्जन्योपस्थितेहेतुत्वं विलीयेतेति वाच्यम् । इष्टत्वात्। एतत्कल्पे जातिलिङ्गसंख्याकारकविशिष्टद्रव्यस्य प्रातिपदिकाद् बोधेनोक्तहेतुहेतुमद्भावस्य गगनकुसुमायमानत्वाद् विशेष्यतैव तु कारकस्योचिताऽनुभवात् क्रियाऽन्वयानुरोधाच्चेति पञ्चकपक्षस्योपपत्तिरिति । *बहुषु स्थलेष्विति । भाष्या. द्याकरग्रन्थेष्वित्यर्थः । तत्र पञ्चकचतुष्कपक्षौ, तत्रोपपदमित्यत्र कैयटेनोपन्यस्तौ त्रिकमिति पक्षस्तु वृत्तिकारेण । *प्राधान्येनेति* ॥ तत्र सर्वेषामेव पक्षाणां भाष्यकृतोपन्यासादिति भावः । सूत्रादावित्यादिनाऽनभिहितादिसूत्रसङ्ग्रहः ॥ २५ ॥ परीक्षा तावादिमतेऽपि 'दधिः . . 'मधु' इत्यादौ द्योतकाभावात्संख्याया अवगमो न स्यात्, नचानेकसुबादिधर्मस्य वाचकतावच्छेदकत्वापेक्षया प्रातिपदिकत्वस्यैकस्य वाचकतावच्छेदकत्वं युक्तमिति वाच्यम् । तत्वं पाणिनीयसङ्केतसम्बन्धेन घटपदवत्वं वा शक्ततावच्छेदकमित्यत्र विनिगमनाविरहेण प्रातिपदिकत्वस्यैकस्यानवच्छेदकत्वात् । न च शाब्दसामग्याः समानविषयकानुमितिप्रतिबन्धकतायां संख्यानिष्ठप्रकारतानिरूपितघटादिविशेष्यताशालित्वेन घटादिनिष्ठविशेष्यतानिरूपितसंख्यानिष्टप्रकारताशालित्वेन वा निवेश इत्यत्र विनिगमनाविरहेण प्रतिबध्यप्रतिबन्धकभावे गौरवमिति वाच्यम् ? विभक्तेः संख्यावाचकतामते विभक्तिजन्यसंख्योपस्थितिविशिष्टघटायुपस्थितेः सामग्रीकुक्षौ निवेशे घटाद्युपस्थितिविशिष्टसंख्योपस्थितेनिवेशमादाय विनिगमनाविरहस्य ध्रौव्यात्। एवम्प्रत्येकमुपस्थित्योर्योग्यताज्ञानादिवैशिष्टयनिवेशेन महागौरवस्य प्रसङ्गश्चेति । कर्मादिकारकञ्च विभक्तिवाच्यमित्येवमुपयुक्तम् । नंतु तेषाम्प्रातिपदिकवाच्यत्वम् ? धात्वर्थे तेषाम्भेदसम्बन्धेनानुगमानुपपत्तेः । नामार्थधात्वर्थयो दनान्वयबोधस्याभावात् । अन्यथा 'तण्डुलः पचति' इत्यादिभ्योऽपि कर्मतासम्बन्धेन बोधापत्तिरित्याद्यन्यत्रोक्तम् । *बहषु स्थलेषु*-भाष्यादिग्रन्थेष। *प्राधान्येनेति । तत्र द्रव्याभिधानमित्यादिना सर्वपक्षस्य कथनात् । यथा
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy