________________
२२२ दर्पणपरीक्षासहिते भूषणसारेशब्दस्तावच्छाब्दबोधे भासते ।
न सोऽस्ति प्रत्ययो लोके यः शब्दाऽनुगमावृते ॥
अनुविद्धमिव ज्ञानं सर्व शब्देन भासते । इत्याद्यभियुक्तोक्तेः ॥ विष्णुमुच्चारयेत्यादावर्थोच्चारणासम्भवेन विना शब्दविषयं शाब्दबोधासङ्गतिश्चेति सोऽपि प्रातिपदिकार्थः । नच लक्षणया
ता लक्षणावसरोऽपि
पादकार्थ इति* प्रापपात्तरित्यर्थः ।
य
दर्पणः घटमानयेत्यादिशाब्दबोधे घटादिशब्दस्य भाने प्रमाणाऽभावेन तस्य प्रातिपदिकार्थत्वसाधनमनुचितमित्याशङ्कां परिहरति-*शब्दस्तावदिति ॥ तत्र हरिवाक्यं प्रमाणयति-*न सोऽस्तीति* ॥ *प्रत्ययः*-शाब्दबोधात्मकः । *शब्दाऽनुगमादिति॥ शब्दविषयकत्वादित्यर्थः। *अनुविद्धमिति। विशिष्टमित्यर्थः । अनुव्यवसायो यथाऽर्थेन विशिष्टज्ञानं विषयीकरोति; तथा शब्देन विशिष्टमपीत्यर्थः। वैशिष्ट्यं चाऽर्थद्वारक बोध्यम् । घटपदजन्यबोधाऽनन्तरं घटं शाब्दयामीत्येवाऽनुव्यवसायान्न कलशं कुम्भ वेत्यत एव “उदेति सविता तामू": इत्यादौ न पौनरुक्त्यम् । तत्पदाऽनुपादाने उदयाऽस्तयोः शाब्दबोधे ऐकरूप्याऽनिर्वाहादिति भावः। । ___ ननु तावताऽपि शब्दभानं सिद्धं, न विशेष्यत्वेनेति कथं शब्दस्य शब्दार्थत्वसिद्धिरत आह-विष्णुमिति* ॥ अर्थोच्चारणासम्भवेनेति वदता लक्षणावसरोऽपि सूचितः ॥ *असङ्गतिरिति ॥ अनुपपत्तिरित्यर्थः । *सोऽपि*-शब्दोऽपि ॥ *प्रातिपदिकार्थ इति । प्रकाराऽन्तरेणोपस्थितस्य विशेष्यत्वाऽसम्भवादिति भावः ॥ लक्ष
परीक्षा 'एक द्विकम् इत्याद्युक्तम् , प्रतीत्यनुरोधात् । तथा शब्दजन्यबोधोऽपि भासत इति सोऽपि शब्दवाच्य इति सिद्धान्तः ॥ २५ ॥ __तत्र शाब्दबोधे शब्दभाने विप्रतिपन्ननैयायिकम्प्रति तद्वयुत्पादनमावश्यकमित्यादौ तस्य शाब्दबोधविषयतां द्रढयति-*शब्दस्तावदिति*। *प्रत्ययः *-शाब्दबोधः। *शब्दानुगमात्*-शब्दस्य विषयितालक्षणसम्बन्धात् । *ऋते*-विना-अस्ति स नास्तीत्यर्थः । सर्वज्ञानं शब्दसम्बद्धमेव । घटोऽस्ति पटोऽस्तीत्यादिवाक्यश्रवणानन्तरं शाब्दबोधे जाते घटं शाब्दऽयामीत्याद्याकारकानुव्यवसायो जायते तत्रार्थस्य विषयविधया भानन्तु सर्वसिद्धमेव तत्रार्थे शब्दः प्रकारतया भासते तत्रायं निश्चयः । यः शब्दो ज्ञातः सन्नर्थमुपस्थापयति स एव भासते नत्वज्ञात इति घटोऽतीति वाक्यजन्यशाब्दबोधे घटशब्दस्यैव भान नतु कलशशब्दस्य । नन्वस्तु शब्दस्य शाब्दबोधे भानं तावताऽपि तस्य शब्दवाच्यत्वे किम्मानमत आह-*विष्णुमिति* । यदीहविष्णुशब्दोऽर्थऽपरः स्यात्तदाऽन्वयानुपपत्तिरिति विष्णुशब्दः शब्दपर एवेति स्वस्वरूपेऽपि शक्तिः-शब्दस्य वाच्यत्व एव
“उदेति सविता ताम्रस्तान एवास्तमेति च । सम्पत्तौ च विपत्तौ च महतामेकरूपता" ॥