________________
२२३
..... नामार्थनिर्णयः। .. निर्वाहः । निरूढलक्षणाया शक्त्यनतिरेकात् जबगडदशमुञ्चारयेत्यादौ शक्याग्रहेण शक्यसम्बन्धरूपलक्षणाया अग्रहाच ।
अज्ञातायाश्च वृत्तेरनुपयोगाद्, गावमुच्चारय इति भाषाशब्दानामनुकरणे साधुतासम्प्रतिपत्तेस्तेषां शक्त्यभावेन परनये लक्षणाया असम्भवाच्चेत्यभिप्रेत्य षोढाऽपि क्वचित् प्रातिपदिकाऽर्थ इत्याह
...दर्पणः णया-स्ववाच्यवाचकत्वसम्बन्धरूपया ॥ निर्वाह इति ॥ तावताऽपि पदवाच्यत्वा. सिद्धेरिति भावः ॥ निरूढेति* ॥ निरूढत्वं च लक्षणायामनादितात्पर्यग्रहाऽधीनत्वम् , अनादित्वञ्च-तत्र स्वजन्यबोधसमानाकारपूर्वपूर्वबोधध्वंसवत्वम् । *शक्त्यनतिरेकात्-इत्यस्याऽस्मन्मत इत्यादि । एतत्तत्त्वमप्रे वक्ष्यते । तस्या असार्वत्रिकत्वमप्याह-*जबगडशमिति* ॥ तत्र समुदायस्य कुत्राप्यशक्तत्वादिति भावः। *अग्रहादिति ॥ मन्मते तु तादृशसमुदायस्यैव तत्पदशक्यतया न बोधाऽनुपपत्तिरिति भावः। - ननु तत्र समुदायस्याशक्तत्वेऽपि तद्घटकजकारादिवर्णानामेकाक्षरकोशादौ जनादौ शक्तिप्रतिपादनात्तत्तदर्थवाचकत्वरूपलक्षणायास्तत्र नाऽनुपपत्तिरत आह-*अज्ञाताया इति* । गङ्गापदस्य वस्तुतः स्वशक्यप्रवाहसामीप्यरूपसम्बन्धस्याग्रहे लक्ष्यार्थबोधस्यानुदयेन ज्ञाताया एव तस्याः पदार्थोपस्थित्यौपयिकत्वेन प्रकृते तदग्रहादुक्तानुपपत्तिस्तदवस्थैवेति भावः । . ननु शाब्दबोधाव्यवहितप्राक्काले तादृशवृत्तिग्रहासत्त्वेऽपि यदा कदाचिजातता. दृशवृत्तिग्रहादिनोबुद्धसंस्कारेण . पदार्थोपस्थितिद्वारा तादृशशाब्दबोधोपपत्तिः सकोत्यत आह-*गावमिति* ॥ गोशब्दाद्यनुकरणे साधुत्वस्य सर्वै रेवाभ्यपगमादित्यर्थः । *परनय इति । परो नैयायिकस्तन्मते, तेषां शक्त्यभावेन तद्धटितलक्षणाया अप्यऽप्रसरावृत्तिमत्वात्मकार्थवत्वनिबन्धनप्रातिपदिकत्वाद्यनुपपत्तिरिति भावः । *षोढाऽपीति* ॥ पूर्वोक्तपञ्चकसहितः शब्दोऽपीत्यर्थः ॥ क्वचिदू-अनुकरणपरीक्षा .
. इत्यादौ न पौनरुक्त्यम् । वाचकशब्दभेदेन तस्य परिहात् । निरूढलक्षणेति । लक्षणाप्रयोजकः सम्बन्धश्च स्ववाच्यवाचकत्वरूपः । लक्षणायां निरूढत्वञ्च स्वजन्यशाब्दबोधसमानाकारशाब्दबोधसंस्कारकालिकस्वजन्यशाब्दबोधसामान्यकत्वम् । त. स्याः सर्वत्र न सम्भव इत्याशयेनाह-*जबगडेति* । अस्य वाच्याभावेन शक्यसम्बन्धरूपलक्षणायान सम्भवः । ननु समुदायस्याशक्यार्थो यद्यपि न प्रसिह्यस्तथापि तदूधटकयत्किञ्चिद्वर्णस्य शक्यार्थ एकाक्षरकोशादौ प्रसिद्धस्तमादाय लक्षणायाः सम्भव इत्यत आह-*अज्ञाताया इति*स्वशक्यार्थीपस्थितौ तात्पर्य्यानुपपत्तिग्रहस्ततोलक्षगयाऽर्थोपस्थितिरिति क्रमः, शास्त्रे प्रसिद्धः स च न सम्भवति । प्रत्येकशक्यज्ञानेऽपि जबगडदशमुच्चारयेत्यतो बोधानुभवादित्यर्थो वा। *गावमिति । यस्येदमनुकरणन्तस्य शक्यार्थस्तन्मतेऽप्रसिद्धोऽतो न लक्षणायाः सम्भवः । स्वरूपस्य शक्यत्वे तु तेनैवार्थेन प्रातिपदिकत्वात्सुबुत्पत्तिः सुलभाः। *षोढाऽपीति: । पूर्वोक्तपञ्चकसहितः