________________
दर्पणपरीक्षासहिते भूषणसारे -
शब्दोऽपि यदि भेदेन विवक्षा स्यात् तदा तथा ॥ नोचेच्छ्रोत्रादिभिः सिद्धोऽप्यसावर्थोऽवभासते ॥ २६ ॥ यद्यनुकार्याऽनुकरणयोर्भेदविवक्षाः तदा शब्दोऽपि प्रातिपदि कार्थः । यदि न भेदविवक्षा, तदा श्रोत्रादिभिरुपस्थितोऽप्यर्थवद्भासते । अपिहैतौ । उपस्थितत्वाद्भासत इत्यर्थः ।
1
२२४
अयम्भाव::- अनुकार्याऽनुकरणयोर्भेदे अनुकार्यस्य पदानुपस्थितत्वात् तत्सिद्धये शक्तिरुपेया । शब्दार्थयोरभेदे, प्रत्यक्षे विष
दर्पणः
स्थले । तच्चानुकरणं द्विविधम् । ध्वनेर्वर्णस्य च । तत्राद्यम् पटत्करोतीत्यादि । द्वितीयम् - भुवो वुमित्यादि ॥ *भेदविवक्षेति । परदित्यादौ ध्वनिमयत्ववर्णमयत्वाभ्यां, “भुवो वुक ” इत्यादावर्थपदाऽर्थकत्वशब्दपदार्थकत्वाभ्यां तद्विवक्षेत्यर्थः ॥ *शब्दोsa प्रातिपदिकार्थइति ॥ तथा च "मतौ छः सूक्तसाम्नोः" ( पा०सू० १/२/५९ ) इति सूत्रे योऽसावाम्नायेऽस्य वामशब्दः पठ्यते स छप्रकृतेरस्य वामीयेत्यादौ पदार्थो - sa एव प्रातिपदिकत्वाच्छसिद्धिरितीति भावः ॥ मूले - अर्थेऽवभासते इति पाठे - अथें घटादिस्वरूपे, अवभासते - विशेषणतया विषयो भवतीत्यर्थः ।
1
वस्तुतस्तु भूषणपर्यालोचनयाऽसावर्थी व भासते इति पाठः । तत्र वशब्दः साहश्ये । तथा च भेदपक्षे यथाऽनुकार्य्यरूपोऽर्थी विशेष्यतया शाब्दबोधे भासते; तथाभेदपक्षेनु कार्य्याभिन्नानुकरणशब्दोऽपीत्यर्थः । तत्राऽनुपस्थितस्य कथं भानमित्याकाङ्क्षायामुक्तम् -* -* श्रोत्रादिभिरिति ॥ आदिना वृत्तिज्ञानतज्जन्यसंस्कारसंग्रह इति केचित् ।
वस्तुतस्तु लिप्याद्यनुसंहितस्य तस्य शाब्दे भानसम्पत्तये आदीति ॥ पदोपस्थितमेव शाब्दबोधे भासते इति त्वसार्वत्रिकमिति भावः । अत एव सारकृताऽर्थवमासते इति तद्विवृतम् । एतेनाऽभेदपक्षेऽनुकरणस्यार्थाभावेन तदंशे भानवर्णनमसभवदुक्तिकमित्याशङ्का समाहिता ।
नवभेदपक्षेऽप्यनुकार्य्यस्य शाब्दे कथं भानम् । पदवृत्तिजन्योपस्थित्यभावादत आह-अयम्भाव इति । पदाऽनुपस्थितत्वादित्यस्य शाब्दबोधे भानाऽनुपपत्येति शेषः ॥ *तत्सिद्धये — शाब्दबोधजनकपदजन्योपस्थितये इत्यर्थः ॥
*शक्तिरिति । असम्बद्धस्य तत्स्मृतिजनकत्वादिति शेषः । तथाच पदवृत्तिज्ञानजन्योपस्थिति सद्भावात्तस्य शाब्दविषयता सुलभेति । अभेदे इति । अभेदवि - परीक्षा
1
शब्दा इति षोढा । क्वचित् - अनुकरणस्थले । *भेदेन विवक्षा - अनुकार्यानुकरणयोर्भेदेन विवक्षा । अयम्भावः - पटादित्यादिध्वनेरनुकरणम्भुवो वुगित्याद्यक्षरानुकरणञ्च । asarकरणयोर्ध्व निमयत्ववर्णमयत्वाभ्याम्भेदः । आक्षिप्तयोरर्थपर त्वशब्दपरत्वाभेदः । तथा वाच्यो नो चेत्-भेदविवक्षा नो चेत् । विषयविधया तदन्तस्योपस्थितिरनुकरणस्य नत्वनुकार्यस्येति तद्भानसिद्धयेऽनुकार्येऽनुकरणस्य शक्तिः । *अभे
1