SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ नामार्थनिर्णयः । यस्य हेतुत्वात् । स्वप्रत्यक्षरूपां पदजन्योपस्थितिमादाय शाब्दबोधविषय तोपपत्तिरिति । यद्यप्यतिप्रसङ्गवारणाय वृतिजन्यपदोपस्थितिरेव हेतुस्तथाप्य २२५ दर्पणः वक्षायामित्यर्थः । तत्पक्षे निरूप्यनिरूपकत्वयोर्भेदनिबन्धनत्वेनानुकरणे तद्वृत्त्यसम्भवादिति भावः । *हेतुत्वादिति । उपस्थिति निष्ठजन्यतायामन्वेति । *स्वप्रत्यक्षेति । अनुकरणप्रत्यक्ष रूपामित्यर्थः । * शाब्दबोधविषयतोपपत्तिरिति । अयमाशयः - अभेदपक्षे स्वप्रत्यक्षरूपामुपस्थितिमादाय यथा शाब्दे शब्दस्य भानं तथैव घटमानयेत्यादौ घटाऽऽदिपदानामपि तां सामग्रीमादाय भानस्य दुर्वारतया शाब्दबोधमात्रस्य शब्दविषयकत्वसिद्धिः । तदुक्तं "स्वं रूपम्” इति सूत्रभाष्ये "नैतद्वक्तव्यं, किं कारणं, शब्दपूर्वको सम्प्रत्ययः । आतश्च शब्दपूर्वः । योऽपि सौ नाम्नाऽऽहूयते; नाम च तेन यदा नोपलब्धं तदा पृच्छति, किं भवानाहेति । शब्द पूर्व कश्चाऽर्थस्य सम्प्रत्ययः । इह शास्त्रे शब्दे सम्भवादर्थस्य निवृत्तिः" इति । तत्र शब्दपूर्वको हीत्यादिना शब्दवृत्तिज्ञानस्य पदार्थोपस्थित्यादावन्वयव्यतिरेकौ प्रदर्श्य शब्दपूर्वक इत्यादिग्रन्थेन प्रकारान्तरं प्रदर्श्यते । शब्दविशेषणक इत्यर्थः । तदाऽथें असम्भवेऽर्थविशेषणतयोपस्थिते शब्दे कार्य्यमित्यर्थः । तथाचोक्तभाष्याच्छब्दतदर्थयोरुभयोरव शब्दाद्वानम् । यत्र च लोके शब्दे इतरपदार्थान्वयबाधस्तत्राऽर्थाशे शब्दस्य विशेषणता । यत्र त्वर्थे ' विष्णुमुच्चारय' "अग्नेर्दक्" ( पा० सू० ४।२।३३ ) इत्यादौ तत्र शब्दांशेऽर्थस्य विशेषणतेति स्पष्टप्रतिपत्तेर्विषयत्वमनादृत्येति वाक्यपदीयाच्चेति । *अतिप्रसंगेति । घटो ऽस्तीत्यतः समवायेनैकज्ञानविषयत्वाऽऽदिना वौपस्थितस्याऽऽकाशादेः शाब्दे भानाऽऽपत्तिवारणायेत्यर्थः । *वृत्तिजन्येति । वृत्तिज्ञानजन्येत्यर्थः । *पदोपस्थितिरिति । घटपदं शृण्वित्यादौ तादृशपदोपस्थितेर्हेतुपरीक्षा 1 दे* - अनुकार्य्यानुकरणयोरभेदे । *स्वप्रत्यक्षरूपाम्* - अनुकरणप्रत्यक्षरूपाम् । शाब्दबोधे सति स्वस्वरूपस्येत्यादिः । अतिप्रसङ्गेति । वृत्तिशून्यस्यापि भानेऽश्व शब्दात्पटस्यपि बोधापत्तिरित्यतिप्रसङ्गः । वृत्तिजन्यपदोपस्थितिरित्यस्य वृत्तिमतो या शब्दजन्योपस्थतिः सेत्यर्थः । अनुकार्य्यानुकरणयोरभेदपक्षे विषयविधया स्वशब्दजन्यशब्दप्रत्यक्षरूपोपस्थितिस्तामादाय यथा शाब्दबोधे शब्दभानम्, तथा घटोsस्तीत्यादावपि शब्दजन्योपस्थितिसत्त्वात्तत्रापि शब्दस्य भानं सम्भवतीति शाब्दबोधवृत्तिवाच्यविषयिता व्यापकविषयिताकत्वं शब्दस्य सिद्धमित्याशयः । तदुक्तम्- "स्वं रूप म्’इति सूत्रभाष्ये। “स्वं रूपम्" इत्यस्य प्रत्याख्यानसमये "नैतद्वक्तव्यम् । किङ्कारणम् । शब्दपूर्वको ह्यर्थसम्प्रत्ययः, आतश्च शब्दपूर्वको, योऽपि ह्यसौ नाम्नाहूयते, "नाम च यदानेन नोपलब्धम्, तदा पृच्छति किम् भवानाहेति, शब्दपूर्वकश्चार्थस्य सम्प्रत्ययः, अत्र शास्त्रे शब्दे कार्यस्य सम्भवादर्थस्य निवृत्तिरिति । ननु वृत्तिमतः शाब्दबोधविषयत्वमित्युक्तावपि सम्बन्धस्य स्वप्रतियोगिकत्वविशिष्टस्य स्वस्मिन्नसत्वात्कथं २९ दु०प०
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy