SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २२६ . दर्पणपरीक्षासहिते भूषणसारे त्राश्रयतया वृत्तिमत्त्वस्य सत्त्वान्नाऽनुपपत्तिः। निरूपकताश्रयताऽन्यतरसम्बन्धेन वृत्तिमत एव शाब्दबोधविषयत्वं कल्प्यत इत्यनवद्यम् । सम्बन्धस्योभयनिरूप्यत्वात् , पदादर्थस्येव तद्बोधकत्वेन स्वस्याऽपि ज्ञानसम्भवाच्चेति । - - दर्पणः ताया दर्शनात् , प्रकृते च तदभावेऽनुकरणस्य शाब्दविषयत्वं दुर्घटमिति भावः । *आश्रयतयेति । इदं च बोधकत्वं शक्तिरित्यभ्युपेत्य । बोध्यत्वं सेति पक्षे तु, निरूपकतयेति बोध्यम् । ___ नन्वाश्रयतासंसर्गेण वृत्तिमत्त्वस्यैव शाब्दबोधविषयत्वे तन्त्रत्वे निरूपकतासंसगेंण वृत्तिमतः शाब्दे भानाऽनुपतिरत आह-निरूपकतेति प्रामाणिकगौरवस्यादोषत्वादिति भावः । *अनवद्यमिति । वृत्तिनिरूपकार्थबोधकत्वस्यैव प्रातिपदिकत्वे तन्त्रत्वान्नाऽभेदपक्षे तत्संज्ञाप्रसक्तिरिति भावः । ननु स्वप्रतियोगिकत्वविशिष्टसम्बन्धाऽश्रयतायाः स्वस्मिन्ननभ्युपगमेन कथमनुकरणस्य वृत्तिमत्तत्यत आह-*सम्बन्धस्येति । तद्बोधकत्वेनेति । प्रत्यक्षाऽऽत्मकशाब्दबोधजनकत्वेनेत्यर्थः । तथाच हादिवाक्यप्रामाण्यात् प्रकृते स्वस्मिन्नपि तादृशसम्बन्धाश्रयताऽभ्युपगमान्न तस्य शाब्दे भानाऽनुपपत्तिरित्यनयैव रीत्या शब्दमात्रस्य शाब्दे भान निर्वाह्यमिति भावः । स्वीयप्रत्यक्षाऽऽत्मकबोधजनकत्वस्य वृत्तित्वं दुरुपपादम् । शाब्दबोधजनकपदार्थोपस्थितिजनकज्ञानविषयताऽवच्छेदकसम्बन्धस्यव तत्वात्। न चैतादृशज्ञानेन शाब्दबोधात् प्राक् शब्दरूपपदार्थोपस्थितिर्जन्यते; नाऽपि बोधकत्वेऽपि बोधकत्ववदिति ज्ञानं तदानीमस्तीति येन साऽपि सम्भाव्येत । तस्मात् कथमेतदिति चेत् ?. ___ अत्र वदन्ति-सम्बन्धस्येत्यादिग्रन्थस्य पदवृत्त्युपस्थितेनार्थेन सम्बन्धाऽविशेषाच्छब्दोपस्थितिस्ततः शब्दार्थयोरुभयोरपि शाब्दे भानं शब्दवृत्तिप्रयोज्यत्वस्योपस्थितिद्वये सत्त्वादित्यर्थपरत्वानोक्ताऽनुपपत्तिः । तत्राऽर्थस्येवेत्यनन्तरं बोध्यत्वादिति शेषः । तद्बोधकत्वेनेत्यत्र तदाऽव्यवहितप्रागुपस्थितार्थपदार्थपरामर्शस्यैवौचित्यादर्थबोधकत्वेनेत्यर्थात् । तदुक्तम् यत्संज्ञास्मरणं तत्र न तदप्यन्यहेतुकम् । पिण्ड एव हि दृष्टः सन् संज्ञां स्मारयितुं क्षमः ॥ इति । शाब्दबोधस्तु वक्ष्यमाणहऱ्यादिवाक्यप्रामाण्यात क्षणविलम्बेनैवाऽभ्युपगन्तव्यः । अनुकार्य्यस्याऽभेदपक्षे भानाय प्रकारान्तरमेवाऽनुसतव्यमिति । परे तु-उक्तमते पदार्थोपस्थितेः शाब्दबोधहेतुतायां तदवच्छेदककोटौ तत्तत्सम्बन्धावच्छिन्नवृत्तिज्ञानजन्यत्वनिवेशावश्यकत्वेन वृत्तेवेंधा प्रवेशे गौरवम् । अन्यतरत्वेन सम्बन्धनिवेशे त्वन्यतरत्वघटकभेदयोर्विशेष्यविशेषणभावे विनिगमनाविरहात्तत्तादव. । परीक्षा शब्दस्य शाब्दबोधविषयत्वनिर्वाह इत्यत आह-*सम्बन्धस्येति । तद्बोधकत्येनवृत्तिमदर्थबोधकत्वेन अर्थबोधजनकत्वमेवास्माकं शक्तिस्तदाश्रयत्वेन शब्दस्यापि ज्ञानसम्भवात् ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy