SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ नामार्थनिर्णयः उक्तञ्च वाक्यपदीये ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा । तथैव सर्वशब्दानामेते पृथगवस्थिते ॥ इति ॥ विषयत्वमनागृत्य शब्दैर्नाऽर्थः प्रकाश्यते ॥ इति च । दर्पणः स्थ्यमेव । तदपेक्षयाऽभेदपक्षे सादृश्यसम्बन्धेनाऽनुकरणादनुकार्योपस्थितिस्तथोपस्थितस्याऽपि तात्पर्य्यवशाच्छाब्दे भानं वृत्तिज्ञानजन्यतावच्छदककोटौ सादृश्यज्ञानाऽजन्यत्वनिवेशात् । तद्धतुतायां न व्यभिचारः । अत एव 'गवित्ययमाह इत्यादौ न विभक्त्युत्पत्तिः। वृत्त्यार्थबोधकत्वरूपाऽर्थवत्त्वाऽभावेनाऽप्रातिपदिकत्वात् । स्पष्टश्चाऽयमर्थो “मतौ छः सूक्तसाम्नोः " ( पा० सू० ५।२।१९ ) इत्यत्र भाष्यकैयटयोः॥ ____ स्वप्रतियोगिकत्वविशिष्टसम्बन्धस्य स्वस्मिन् सत्तां तेजोदृष्टान्तव्याजेन दर्शयन् स्वोक्ते हरिसम्मतिमाह-*उक्तञ्चेति*। *ग्राह्यत्वम्*-बोध्यत्वम् । *ग्राह्यकत्वंबोधकत्वम् । *एते*-ग्राह्यत्वग्राहकत्वे । *पृथगवस्थिते* । इत्यनेन तयोरसमनैयत्यं दर्शयति । दीपादिरूपतेजसो विषयसन्निधाने शक्तिद्वयं लोके प्रत्यक्षसिद्धम् । तदसमवधाने तु ग्राह्यत्वमेव यथा, तथा शब्दानामर्थाबाधे उक्तशक्तिद्वयं, तद्वाधे तु ग्राह्यत्वमेवेति तदर्थः। "स्वं रूपम्" इति सूत्रभाष्यादप्युक्तार्थस्यव लाभादिति तस्यैव पद्यान्तरमाहविषयत्वमिति* । स्वस्य विषयतामसम्पाद्य शब्दरर्थो न बोध्यत इत्यर्थः । स्वजन्यार्थबोधत्वस्य स्वविषयकत्वव्याप्यत्वादिति यावत् । अयम्भावः-शब्दार्थयोरभेदमते तन्मूलकाध्यासाच्छब्दादाऽऽकारवृत्तौ जायमाना. यां शब्देनाऽपि तस्यां स्वाकारसमर्पणमिति शाब्दबोधस्य शब्दविषयकत्वसिद्धिरिति। ____ अत्र वदन्ति-"न सोऽस्ति प्रत्ययो लोके” इत्युक्तत्वात् किं बोधत्वाऽवच्छेदेन शब्दविषयकत्वं प्रतिज्ञायते, उत ग्राह्यत्वमिति पद्यद्वयाच्छाब्दत्वाऽवच्छेदेन तत्त्वम् । किंवा शाब्दत्वसामानाधिकरण्येन । नाद्यः । घटादिप्रत्यक्षाव्यवहितप्रास्थले घटा. दिपदोपस्थितेरनैयत्येन तादृशप्रत्यक्षस्य घटादिपदविषयकत्वाऽसम्भवात् । एवं घटाद्यनुमितावपि तदानं न सम्भवति । व्यापकतया तदवच्छेदकतया वा व्याप्तिग्रहे तदभानात। तदनन्तर घटपदं साक्षात्करोमि घटपदमनुमिनोमीत्यनुव्यवसायाऽभावाच्च । न द्वितीयः। घटपदज्ञानजन्योपस्थितेस्तद्वाचकपदेऽभावेन तस्य शाब्दविषय. त्वाऽसम्भवात्। पदज्ञानस्य सम्बन्धिज्ञानविधयाऽर्थस्मारकत्वेन हस्तिपकदर्शनजन्यहस्त्युपस्थितौ हस्तिपकस्येव तजन्याऽर्थोपस्थितावुद्बोधकतावच्छेदकपदस्य विषयत्वा परीक्षा *एते*-द्वे शक्ती। विषयत्वमिति*। शब्दस्य विषयत्वमनादृत्य केवलोऽर्थो न शब्दै. र्बाध्यत इत्यन्वयः। एवञ्च प्रामाण्ये विशिष्टो यो वृत्याश्रयत्वबोधस्तमादाय शब्दस्य न शाब्दबोधे भानानुपपत्तिरिति रीत्या सर्वस्य शब्दस्य शाब्दबोधे भानमङ्गीकार्य मिति भावः। द्वे शक्ती पृथगवस्थिते इत्यनेन तयोः शक्त्योः समनैयत्याभावो द: शितः । तथाच यथा तेजसोऽर्थसन्निधाने शक्तिद्वयवत्ता; तदभावे ग्राह्यत्वमेव; तथा
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy