________________
२२८ दर्पणपरीक्षासहिते भूषणसारेप्रसङ्गादनुकार्यानुकरणयोरभेदपते साधकमाहअत एव गवित्याह भू सत्तायामितीदृशम् ॥ न प्रातिपदिकं नापि पदं साधु तु तत् स्मृतम् ॥ २७ ॥ ___ "गवित्ययमाह" "भू सत्तायाम्" इत्येवमादयो यतोऽनुकरणशब्दा अनुकार्यान्न भिद्यन्ते, अतस्तेषामर्थवत्त्वाद्यभावाद्, "अ. र्थवदधातुः” (पासू० ११४॥४२) इत्याद्यप्रवृत्तौ न प्रातिपदिकत्वं, नापि पदत्वम् । अथ च साधुत्वमित्युपपद्यते । अन्यथा
दर्पणः ऽसम्भवाच्च । घटो न घटशब्द इतिसार्वजनीनप्रतीत्या शब्दाऽर्थयोस्तादात्म्ये माना. ऽभावेन नाऽर्थाकारवृत्तेः शब्दाऽऽकारतासम्भवोऽपिः घटशब्दबोधाऽनन्तरं घटपदं शाब्दयामीति प्रतीतेः सार्वजनीनत्वे क्षणविलम्बसहिष्णुता सम्भवेदपि । न च तस्यास्तथात्वमिति न किञ्चिदेतत्।
अपि च भिन्ने विषयेऽनुमितिसामग्रया बलवत्ता, यत्र तादृशाऽनुमितिसामग्रोकाले केवलघटत्वविशिष्टविषयिका शाब्दधीर्जायतामितीच्छाबलाद् घटशाब्दधीस्तत्र घटांशे तद्भानं दुरुपपादमेव । घटशब्दशाब्देच्छाविरहविशिष्टभिन्नविषयकाऽनुमितिसामग्रयाः प्रतिबन्धिकायाः सत्वात्। नाऽपि तृतीयः । सिद्धसाधनात् । विष्णुमुच्चारयेत्यादौ विष्ण्वादिपदानां लक्षणया शाब्दविषयतायाः परैरभ्युपगमात् । उक्तभाष्यादपि क्वचिच्छाब्दबोधे शब्दो विषय इत्यर्थस्यैव लाभात् सति तात्पर्ये क्वचिदन्यत्रापि विशेष्यांऽशे तद्भानाभ्युपगमे क्षतिविरहाच्च । अत एव नलादीनां विशिष्य तत्तद्रूपेणानुपस्थितत्वेऽपि, नलपदवाच्यः कश्चिदासीदिति सामान्यशक्तिग्रहात्तत्पदवाच्यत्वेन तेषां बोधः प्राचीनसम्मत उपपद्यते । अभेदे शब्दभानं तु, परे त्वित्युक्तभाष्यसम्मतमतेनैव । अत एव तस्मादविकृतस्यैव बोधः । हरिवचनानि तु प्रणवब्रह्मणोरभेदोपासनश्रद्धातिशयबोधकानि भवन्तीति न तैर्व्यावहारिकाऽर्थस्य सिद्धिस्तस्माच्छाब्दबोधमात्रस्य शब्दविषयकत्वं न विचारसहमधिकमग्रे व्यक्तीभविष्यतीति ॥ २६ ॥
परीक्षा शब्दस्याप्यर्थाबाधे उभयवत्ता, अर्थाभावे तु ग्राह्यत्वमेवेति दर्शितम् । *प्रसङ्गादिति* यदुक्तम्प्राक् शब्दोऽपि यदि भेदेनेति तत्प्रसङ्गादित्यर्थः। *अत एव*-अनुकार्यानुकरणयोरभेदादेव । *अतः*-अभेदात् । अयम्भावः-शब्दार्थयोस्तादात्म्यमिति हि सिद्धान्तः। तादात्म्यञ्च-भेदाभेदौ । प्रकृते त्वभेद एवेति नार्थवाचकतारूपवृत्तिमत्वमिति । *साधुत्वमिति*-'प्रत्ययः परोभवत्येव इति नियमविरोधेन यस्य प्रत्ययपरत्व. योग्यता तस्य प्रत्ययाभावेऽसाधुत्वमिति। प्रकृते तु प्रातिपदिकत्वस्यैवाभावेन प्रत्ययपरत्वयोग्यता नास्तीति साधुत्वमिति । नच यस्य न प्रत्ययपरत्वयोग्यता: तस्य साधुत्वमिति चेद् ? गावीगोण्यादीनामप्येवं जातीयकत्वात्साधुत्वापत्तिरिति वाच्यम् ? उबु. न्दिर-निशामने मारणतोषणनिशामनेषु ज्ञा। विधूगत्यामित्यादिनिर्देशादनुकरणस्य तथात्वेऽप्यत्र तथात्वकल्पने मानाभाव इति भावात् । *अन्यथा--भेदपक्षस्यैवाङ्गी.