SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ नामार्थनिर्णयः। २२९ "प्रत्ययः” (पा०सू०३।१।१) “परश्च" "अपदं न प्रयुञ्जीत" इति दर्पणः *अन्यथेति । भेदपक्षस्यैवाऽभ्युपगमे इत्यर्थः ॥ *प्रत्ययः परश्चेति । नियमशास्त्राणां निषेधमुखेनाऽपि प्रवृत्तः प्रत्ययपरैव प्रकृतिः प्रयोक्तव्या, न केवलेति नियममूलकस्य "अपदं न प्रयुञ्जीत" इति निषेधविधेः प्रत्यययोग्यस्य प्रत्ययं विना प्रयोगेऽतिक्रमणादसाधुतापत्तेरित्यर्थः । अस्मन्मते तु तस्य प्रत्यययोग्यत्वाऽभावान्निषेधविष परीक्षा कारे । *प्रत्ययः परश्चेतीति । नियमशास्त्राणां निषेधमुखेन प्रवृत्तिपक्षाभिप्रायेणेदम् । साधुत्वादेव गवित्ययमित्यादाविवादेशो भवति । ____ अत्र केचित्-'न सोऽस्ति इत्यादिना स्ववाच्यार्थविषयकज्ञानत्वव्यापकविषयिता. कत्वं शब्दे साध्यते । उत तादृशशाब्दत्वव्यापकविषयिताकत्वम् , उत शाब्दत्वसामानाधिकरण्यम् । नाद्यः-घटादिप्रत्यक्षसामग्रीकाले शब्दे सन्निकर्षाभावेन शब्दभानासम्भवात् । एवं घटानुमितिसामग्रीकालेऽपि शब्देस्य व्याप्तिग्रहाद्यभावेनानमितौ तद्भानासम्भवः । एवम्प्रत्यक्षानुमित्यनन्तरं “घटशब्दं साक्षात्करोमि" "घटशब्दमनुमिनोमि" इत्यनुव्यवसायाभावेन प्रत्यक्षानुमित्योस्तगाने मानाभावः । न द्वितीयः-घटपदज्ञानजन्योपस्थितेः पदविषयकत्वाभावेन शाब्दे तदानानिर्वाहात् । किञ्च पदज्ञानस्य सम्बन्धिज्ञानविधयार्थस्मारकत्वेन सम्बन्धिनो हस्तिनो हस्तिपकस्मृतौ मानाभाववत्पदस्यार्थस्मृतौ भानसम्भवः । 'घटो न घटशब्दः' इति सार्वजनीनानुभवेन शब्दार्थयोस्तादात्म्ये मानाभावश्च । अपि च भिन्ने विषयेऽनुमितिसामग्या बलवत्वेन तादृशानुमितिसामग्रीकाले घटशाब्दबोधो जायतामित्याकारके. च्छासत्वे घटशाब्दबोधो जायते, तदा शब्दशाब्दबोधो जायतामित्याकारकेच्छाया अभावेन शब्दस्य शाब्दबोधे-भानानिर्वाहः। नापि तृतीयः, विष्णुमुच्चारयेत्यादितो लक्षणाया शाब्दबोधस्य परैरप्यभ्युपगमादित्याहुः।। ____ अत्रेदं वक्तव्यम्-सर्वत्रज्ञाने शब्दस्य वाच्यार्थसम्बन्धस्य भानमित्येव सिद्धान्तः । प्रत्यक्षे सन्निकर्षाभावागानाभाव इति तु वक्तुमशक्यम्,जातिव्यक्त्योस्तादात्म्यावच्छेदेनापि सह तादात्म्यसत्वेनेन्द्रियसम्बन्धतादात्म्यस्य सम्भवात् । नचैवं तद्वाचकस्य सर्वस्य शब्दस्य भानापत्तिरिति वाच्यम् ? परनये चक्षुःसंयुक्तसमवायसन्निकर्षेण घटत्वनिर्विकल्पककाले द्रव्यत्वस्यापि निर्विकल्पकापत्याऽदृष्टविशेषस्य कालविशेषस्य वा नियामकत्वं कल्प्यते, तथाऽस्मन्मतेऽपि सम्भवात् । “वृद्धिरादैच्” इतिसूत्रनिदेशेन "ओमित्येकाक्षरम्ब्रह्म" इति श्रोतव्यवहारबलेन च शब्दार्थयोस्तादात्म्यादेवार्थनिरूपितव्याप्त्यवगाहिपरामर्शस्यैव शब्दविषयकतया विशेषणतया वा शब्दविषयकत्वस्यानुमितौ सम्भवाच्च । एवं तयोस्तादात्म्यस्य भेदाभेदरूपतयाऽभेदस्योदभतत्वविवक्षया घटं साक्षात्करोमीत्येवानुभवः । पदजन्या पदार्थस्मृतिस्तु शब्दप्रकारिकैवभवति । हस्तिपकत्वेन हस्तिपकस्मृतौ हस्तिनोऽपि विशेषणतया भानम्भवत्येव । एवं सति घटो न घटशब्द इत्यनुभव उपपद्यत्ते-इत्यनुभवसिद्धस्तदा "तस्य वाचकः प्रणवः” इति यथा भेदस्योद्भूतत्वविवक्षया व्यवहारस्तथा तदुपपत्तिः
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy