SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १०४ दर्पणपरीक्षासहिते भूषणसारेयदि पक्षेऽपि वत्यर्थः कारकश्च नमादिषु ॥ अन्वेति त्यज्यतां तर्हि चतुर्थ्याः स्पृहिकल्पना ॥१८॥ पर्वतो वह्निमान् धूमाद् महानसवत, भूतले न घटः । भूतले घट इत्यादिपदात् । एवमादिष्वनुशासनविरोधेऽपि यदि साधुत्वमन्वयश्वाभ्युपेयते; तर्हि चतुर्थ्याः स्पृहिकल्पनाऽपि त्यज्यतामित्यर्थः । अनुशासनानुरोधतौल्ये अर्द्धजरतीयमयुक्तमिति भावः ॥ १८ ॥ दर्पणः साधुत्वे, पर्वतो वह्निमान् महानसवदित्यादौ वत्यर्थसादृशस्य कथं पर्वतेऽन्वयः ? कथं वा भूतले न घटः' इत्यत्र सप्तम्यर्थभूतलाधेयत्वस्य तथाऽभावे इत्यत आह मूले-“यदि पक्षेऽपीति । पने प्रतिज्ञावाक्यजन्यबोधविशेष्ये सन्दिग्धसाध्यके धर्मिणि पर्वतादाविति यावत् । कारकमधिकरणादि, ननादिषु-नार्थाऽभावे; इतरनामार्थे चेत्यर्थः । तमेव विषदयति सारे-*पर्वतो वह्निमानित्यादिना* ॥ *आदिपदादिति ॥ नजादिष्वित्यादिपदादित्यर्थः । तदेव विवृणोति-*एवमादिष्विति । भूतले घट इत्यादावित्यर्थः॥ ___ *अन्वयश्चेति । महानससदृशः पर्वतो, भूतलवृत्तित्वाऽभाववान् घटो, भूतलवृत्तिर्घटाऽभाव इति वा बोधश्चेत्यर्थः । “तेन तुल्यम्" इत्यनुशासनेन क्रियागतसाहश्यबोधन एव वते: “कारक" इत्यधिकृत्य “सप्तम्यधिकरणे च" इत्यनुशासनेन क्रियान्वय एव सप्तम्याश्चः साधुत्वबोधनादुक्तम्-*यदीति*। *चतुर्थ्या इति । पुष्पेभ्य इत्यत्र "स्पृहेरीप्सित" (पा० सू० १।४।३६ ) इति विहितचतुर्थ्याः स्पृहयत्युपात्तार्थे एव स्वार्थाऽन्वयबोधकत्वम्, न पदान्तरोपात्ते, अध्याहृते वा तदर्थेऽनुशासनविरोधादिति स्वसिद्धान्तस्त्यज्यतामित्यर्थः ॥ *अर्द्धजरतीयमिति*। इदमर्थे गहादित्वाच्छः क्वचिदनुशासनाऽनुरोधः क्वचिन्नेत्यर्द्धजरतीसदृशमित्यर्थः । तथा च स्वीयसिद्धान्तप्रच्युतिरूपबाधकभियाऽत्राऽपि पर्वतो वह्निमान् भवितुमर्हतीत्येव प्रतिज्ञाऽङ्गीकरणीया, न तु क्रियावाचकपदशून्या परीक्षा *उपपत्तिमिति । अनन्वये बाधकोपन्यासरूपां तामित्यर्थः । *यदीत्यादि* । पर्वतो वह्निमान् , धूमात् , महानसवदित्यादौ पक्षे पर्वतादावित्यर्थः-सादृश्यम् । *कारकम्*-अधिकरणादि । *नजादिषु*-नजाद्यर्थोऽभावे। आदिना नोशब्दपरिग्रहः । *त्यज्यतामिति । पुष्पेभ्य इत्यत्र चतुर्यो श्रुतायां स्पृहयतीति पदमेवाध्याह्रियते न तु पदान्तरमिति कल्पना त्यज्यताम् । “स्पृहेरीप्सित" इत्यनुशासनानुरोधेन तथा कल्प्यते इति चेद् ? अन्यत्रापि तथैवानुशासनानुरोधः स्वीकार्यो न तु तत्त्यागः। एवं चोक्ताष्टकस्योक्तरीत्या साधुत्वस्योक्तत्वेन क्रियायामेव कारकाणां वत्यर्थस्य चान्वयः, यद्यनुशासनानुरोधेन पुष्पेभ्य इत्यत्र स्पृहयतीति पदाध्याहारस्तदाऽन्यत्रापि अनुशासनानुरोध एवास्तु; न तु तस्य त्यागः। *अर्द्धजरतीयमिति* । “गहादित्वाच्छः” अर्द्धजरतीसादृश्यमित्यर्थः । क्वचिदनुशासनानुरोधोपादानं क्वचित्तु त्याग
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy