________________
धात्वर्थनिर्णयः। . . .
१०३
कारणभावस्य क्लुप्तत्वात् यत्रापि पक्ता पाचक इत्यादौ भावना गुणभूता; तत्रापि क्लुप्तकार्यकारणभावाऽनुरोधात् तस्यामेवान्वय इत्यवसीयते इत्यादिभूषणे प्रपश्चितम् ।
केचित्त-भूतले घटः, देवदत्तो घटमित्यादावन्वयबोधाकाङ्क्षानिवृत्त्योरदर्शनान्न तद्वयतिरेकेण साधुत्वलाभ इत्याहुः॥ १७ ॥ स्वयमुपपत्तिमाह
दर्पणः ग्रहः ।। *गुणभूतेति । तृजाद्यर्थकर्तरि विशेषणीभूतेत्यर्थः । एतेन पूर्वोक्तन्यायस्य तत्राऽसम्भवो दर्शितः। *तस्यामेषेति* । धात्वर्थभावनायामेवेत्यर्थः । *प्रपञ्चितमिति* । फलांशे तु न कारकाणामन्वयः, मीमांसकमतेऽपि तस्या अव्युत्पन्नत्वात् । अन्यथा कारकान्वितस्य कारकत्वाऽसम्भवेन,यागरूपफलस्य करणतया क्रियायामनन्वयाऽऽपत्तरिति तत्रोक्तम् । ___ *अदर्शनादिति। 'सर्व हि वाक्यं क्रियया परिसमाप्यते' इति न्यायेन तत्राsस्तिजानात्यादिक्रियामन्तरेणाऽन्वयबोधनिराकाङ्क्षत्वयोरदर्शनादित्यर्थः । तत्र 'चैत्रः सुन्दरः' इति क्रियासाकाङ्क्षवाक्यस्याऽसाधुतापत्तिः । फलांशान्वयलाभेनैवोपपत्तो भावनावाचकत्वालाभश्चेत्यस्वरस आहुरित्यनेन सूच्यते ॥ १७॥ ___*उपपत्तिमिति* । उक्ताष्टकस्य भावनायामन्वये साधकोपमासरूपां तामुक्त्वानन्वये बाधकोपमासरूपां तामाहेत्यर्थः । ननु सम्बोधनान्तादीनां क्रियान्वय एव
परीक्षा र्थभावनोपस्थितेः कारणतया अनेन न्यायेन तैः साधनादिति । कारकादित्यादिना कालस्य परिग्रहः । ननु यत्र न भावनायाः प्राधान्येन भानम् । तत्र का गतिरत आह*यत्रापीति* । *गुणभूताः*-प्रत्ययार्थकर्तरि विशेषणीभूताः। *क्लति* । विशेब्यतासम्बन्धेन कारकादिप्रकारकशाब्दबुद्धित्वावच्छिन्नं प्रति भावनात्वसमानाधिकरणविषयतासम्बन्धेनोपस्थितिः कारणमिति कार्यकारणभावात्। *तस्यामेव*भावनायामेव । *अन्वयः* । करणादिकारकाणामिति शेषः । *प्रपञ्चितमिति*। फलांशे न कारकाणामन्वयः, किन्तु भावनायामेव मीमांसकसम्मतत्वात् । अन्यथा कारकान्वितस्य तद्धात्वर्थकारकत्वाभावेन 'सोमेन यजेत' इत्यादौ सोमादिपदार्थयागरूपफलांशस्य करणतया भावमायामन्वयो न स्यादितिरीत्या प्रपञ्चितमित्यर्थः । *अदर्शनादिति । क्रियावाचकपदाकाङ्क्षासत्वेन तद्वाचकपदाध्याहारं विनेति शेषः । *तद्वयतिरेकेण*-क्रियावाचकपदव्यतिरेकेण । *साधुत्वेति । अन्वयबोधजनकत्वं हि साधुत्वमिति तेषामाशयः । *आहुरिति । अनारुचिबीजन्तु साधुत्वस्य व्याकरणव्यङ्गयजातिविशेषरूपतया क्रियावाचकपदसाकाङ्क्षत्वेऽपि 'नीलो घट' इत्यादावस्त्येव तत् । अत एव “गामित्युक्ते कर्मनिर्दिष्टम् , कर्ता क्रिया चानिर्दिष्टे” इत्यादि भाष्यं सङ्गच्छत इति ॥१७॥ ___*स्वयमिति। अस्य-ननु भूतलेन घटः इत्यत्र सप्तम्यर्थाभावः; महानसवदित्यत्र च पक्षानुयोगिकसादृश्यबोध इति दूषयन्नित्यादिः। कचित्पुस्तके तु-इत्थमेव पाठः ।