SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १०२ दर्पणपरीक्षासहित भूषणसारे. किञ्च फलांशोऽपि भावनायां विशेषणं कारकाण्यपि क्वचित्तथाभूतानीति । "गुणानाञ्च परार्थत्वादसम्बन्धः समत्वात् स्यात्" (जै० सू० ३।१। २२) इति न्यायेन सर्वे सेवका राजानमिव भावनायामेव परस्परनिरपेक्षाण्यन्वियन्ति । 'न हि भिक्षुको भिक्षुकान्तरं याचितुमहति सत्यन्यस्मिन्नभिक्षुके' इति न्यायेनापि फलं त्यक्त्वा भावनायामेवाऽन्वियन्तीति मीमांसका अपि मन्वते । एवञ्च विशेष्यतया कारकादिप्रकारकबोधं प्रति धातुजन्यभावनोपस्थितहेतुरिति कार्य दर्पणः तदुत्तरयोर्गायति" इति श्रूयते । तत्र स्थन्तरयोनेः परतो बृहद्योनेः पठितत्त्वान्थन्तर तस्यां गेयम् ? उतोत्तराग्रन्थे, "न त्वा वा मन्यते” इत्यस्य पठितत्वात् तत्र गेयमिति संशयेऽविशेषादुभयत्र गेयमिति पूर्वपक्षे उत्तराग्रन्थे उत्तराशब्दस्य सज्ञारूपेण प्रसिद्धिर्बहधोनौ तु तस्याः पूर्वग्रन्थाऽपेक्षिकोत्तरत्वबलाद्यौगिकी, इति संज्ञाशब्दस्याऽनपेक्ष्य. प्रवृत्तिकत्वेन बलवत्त्वादुत्तराशब्दसङ्केतित-"नत्वा वा मन्यत" इत्याक्ष्वेव तद्गेयमिति नवमे निर्णीतम् । तद्वत्तत्रापीति भावः । ननु भावनायां क्रियापदस्य साङ्केतिकी शक्तिः; फले तु यौगिकः प्रयोग इत्यत्रैव न दृढतरं मानम् , येनोक्ताधिकरणावतारः सम्भाव्येत । प्रायेण तस्य तु यौगिकत्वेनाऽप्युपपत्तेरत आह-किञ्चेति ॥ __ *तथाभूतानीति* । विशेषणानीत्यर्थः। कर्ताऽऽख्यातस्थले क्वचित् दृष्टत्वादितिभावः । *गुणानामिति । विशेषणानां परार्थत्वादन्योपकारकत्वादत एव समत्वा समानधर्मत्वात्तेषां परस्परं सम्बन्धो न भवेदिति न्यायार्थः । तथा च यथा फलस्योपकारकत्वाद् विशेष्यभावनायामन्वयस्तथा कारकाणामपि साक्षात्परम्परया वा तत्रैवान्वयोऽन्यथा कारकत्वस्यैवाऽनुपपत्तेनं तु फले निराकाङ्क्षत्वादिति भावः । तदनुसारिलौकिकन्यायमप्युपन्यस्यति-*न हि भिक्षुक* इन्यादि। ___ *मीमांसका अपीति* । उक्तन्यायेन कारकप्रकारबोधं प्रत्याख्यातजन्यभावनोपस्थितेहेतुतायास्तैः क्लृप्तत्वादिति भावः ॥ कारकादीत्यादिना लडाद्यर्थकालपरि परीक्षा पेक्षा चेति विलम्बितप्रवृत्तिकत्वेन न बृहद्योनौ पठितानां ऋचां ग्रहणम् , किन्तु उत्त. राशब्दस्य स्वरूपमात्रापेक्षा या सुप्रवृत्तिस्तासां नत्वा वा मन्यते-इत्यादि ऋचामेव बोधकोऽयमुत्तराशब्द इति तास्वेव गेयमितिनिर्णीतम्। ' कारकाणां भावनायामेवान्वये युक्त्यन्तरमाह-किञ्चेत्यादिना । *तथाभूतानि*-विशेषणाभूतानि। *गुणानामिति । विशेषणानां परार्थत्वात्परोपकारक त्वात्समत्वात्परस्परमसम्बन्धः। फलस्यात्र विशेष्यभावनोपकारकत्वं चेतरभेदसाधकत्वम् ; कारकाणान्तु तनिष्पादकत्वमिति तस्यामेवान्वयः, फलस्य कारकाणां च, न तु फले कारकाणामन्वयो निराकाङ्कत्वात् । अस्मिन्नर्थे लोकप्रसिद्धं दृष्टान्तमाह*नहीति । *मीमांसकेति-कारकप्रकारकशाब्दबुद्धित्वावच्छिन्नं प्रति आख्याता
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy