________________
धात्वर्थनिर्णयः ।
१०१
*क्रिययैवेति* ॥ अयं भावः - भूवादिसूत्रादिषु प्रायशः क्रियाशब्देन भावनाव्यपदेशात् । तत्र तस्य साङ्केतिकी शक्तिः । फलांश क्काचित्कः, क्रियत इति यौगिकः प्रयोगः । तथाच सञ्ज्ञाशब्दस्यानेपक्षप्रवृत्तत्वेन बलवत्त्वाद्भावनान्वय एव साधुता लभ्यते । अत एव संज्ञाशब्दप्राबल्याद्, रथन्तरमुत्तराग्रन्थपठितऋक्ष्वेव गेयं, न तु वेदे तदुत्तरपट्यमानऋक्ष्विति नवमे निर्णीतम् ।
दर्पणः
साधुत्वनिर्वचनावसरे इति शेषः ।
साधुत्वं न शक्तत्वमपशब्दादपि अर्थोदयात्, किन्तु व्याकरणैकव्यञ्जिका पुण्यजनकतावच्छेदकातिरिति वक्ष्यत इत्यर्थः । प्रकृते च व्याकरणेन क्रियान्वितेष्वेव तद् व्यज्यत इति तदन्यस्याऽसाधुतैवेतिभावः ।
'क्रिययैवावधार्य्यताम्' इति मूलेन क्रियाऽन्वय एवोक्तानां साधुत्वं लभ्यते इति सत्यमेव तथापि भाष्ये क्रियापदस्य फलेऽपि प्रयोगात्साक्षात्परम्परया वा क्रियाफलान्वयेनाऽपि तेषां साधुत्वोपपत्तौ नोक्तरीतिर्धातोर्व्यापारवाचकत्वसाधिकेत्याशrssशयं प्रकाशयति-अयम्भाव इति । प्रायशः क्रियाशब्देनेति । तथाच प्रयोबाहुल्यं रूढिसद्भावे प्रयोजकमिति भावः ॥
1
*साङ्केतिकोति* । सङ्केताभिव्यङ्गया रूढिरित्यर्थः । तत्र हेतुः *क्काचित्क इति । तत्र नियामकमाह-यौगिक इति । क्रियते व्यापारेण निष्पाद्यत इति व्युत्पत्तेरिति भावः । *अनपेक्ष्येति । प्रकृतिप्रत्ययशक्तिमनुसन्धायेत्यर्थः । अत एवेति । सञ्ज्ञाशब्दस्याऽनपेक्ष्य प्रवृत्तिकत्वेन बलवत्त्वादेवेत्यर्थः ॥
*नवमे इति । मीमांसानवमाऽध्याये इत्यर्थः । तथाहि - रथन्तरं हि "यद्योन्यां परीक्षा
1
परतया फलयोगे भवदुक्ताष्टकानां साधुत्वमस्तुः न तु भावनान्वयनियमस्य लाभ इति तदनुरोधेन भावनाया वाच्यत्वं न सिद्ध्यतीत्याशङ्कानुत्थानायाह-अयम्भाव इति । *तस्य*-क्रियाशब्दस्य, सङ्केतादागता शास्त्रकारीयव्यवहारादागता शक्तिः । एवं च क्रियाशब्दस्तत्र योगरूढ़ः । एतेन भावनायां क्रियाशब्दस्य योगरूढ़त्वे प्रयोगप्राचुर्य्य नियामकमित्युक्तम् । यौगिक इति । एवं च रूटेर्योगापेक्षया बलवत्त्वात्तस्य झटिति भावनाबोधकत्वमेव पङ्कजशब्दवत् । *अनपेक्ष्येति । प्रकृतिप्रत्ययविशेषशक्तिमननुसन्धायेत्यर्थः । *अत एव* --सञ्ज्ञाशब्दस्यानपेक्ष्य प्रवृत्तिकत्वेन बलवत्वादेव । *रथन्तरम् -- सामविशेषः । *उत्तराग्रन्थेति । उत्तरासञ्ज्ञकग्रन्थविशेषपठितऋवित्यर्थः। *तदुत्तरपठ्यमानेति । रथन्तरयोनेः परतः पठ्यमानऋक्ष्वित्यर्थः । *नवमे*नवमाध्याये मीमांसायाम् । तत्र हि - ' रथन्तरं हि यद्योन्यान्तदुत्तरयोगायति' इति श्रूयते, तत्र रथन्तरयोनेः परतो बृहद्योनेः पठितत्वाद्र्थन्तरं तस्यां गेयमुत उजराग्रन्थे न त्वा वा मन्यते - इत्यादिपठिते गेयमिति संशयेऽविशेषादुभयत्र गेयमिति पूर्वपक्षे, उत्तराग्रन्थे -- उत्तराशब्दस्य प्रवृत्तिः शब्दस्वरूपमात्रापेक्षाः न तु तत्रोत्तरकालपटतक्रियापेक्षा रथन्तरयोनेः परतः पठ्यमान-ऋक्षु तु तादृश क्रियापेक्षा । एवं पूर्वग्रन्था
I