________________
१००
दर्पणपरीक्षासहिते भूषणसारेजन्यभावनोपस्थितेहेतुत्वस्य क्लृप्तत्वात् । शेषं नअर्थनिर्णये वक्ष्यते१६
तथा यस्य च भावेन षष्ठी चेत्युदितं द्वयम् ॥ साधुत्वमष्टकस्यास्य क्रिययैवावधार्यताम् ॥१७॥
“यस्य च भावेन भावलक्षणम्" (पा० सू० २।३।३७) इत्यत्र भावनार्थकभावशब्देन तद्योगे साधुत्वाख्यानलाभात् “षष्ठी चानादरे" (पा० सू० २।३।३८) इति तदग्रिमसूत्रेऽपि चकाराद्यस्य च भावेनेत्यायातीत्यर्थः ॥ *साधुत्वमिति* ॥ तत्स्वरूपं तु वक्ष्यते ॥
दर्पणः घटाऽभाव इति बोधे बाधकाभावोऽत आह-*शेषमिति । तथाच यदा युष्मदर्थभिन्नकर्त्तको न पाकस्तदा 'न त्वं पचसि' इति प्रयोगाऽनापत्तिः पर्युदासद्योतकतावादिमते, अतस्तत्र प्रसज्ज्यप्रतिषेधार्थकत्वमेवाऽङ्गीकरणीयमित्युक्तयुक्त्या कार्यकारणभावस्यावश्यकतेत्यादिशेषपदार्थः । नैयायिकमतमपि तत्रैव व्यक्तीभविष्यति ॥१६॥
*साधुत्वाऽऽख्यानलाभादिति । अयम्भावः-“यस्य च भावेन भावलक्षणम्" । (पासू० २।३।३७) इति सूत्रेण क्रियाज्ञापकक्रियाश्रयवाचकपदात् सप्तमी विधीयते । भावलक्षणमित्युपादानाऽज्ज्ञापकत्वरूपसप्तम्यर्थस्य क्रियायायामेवाऽन्वयः । अत एव 'गोषु दुह्यमानासु गत' इत्यादौ दोहनक्रियाऽऽधारकालेन गमनपरिच्छेदकत्वं बुध्यते इति
___ *आयातोति* । समस्तसूत्रमेव तत्रानुवर्तत इत्यर्थः। तथाचाऽनादरे गम्यमाने यनिष्ठक्रियायाः क्रियान्तरज्ञापकत्वं तद्वाचकतेति तदर्थात् तदविहितयोरपि तयोः क्रियायोग एव साधुत्वं लभ्यत इत्यर्थः । ननूक्तानां क्रियान्वयाभावेऽपि शक्तत्वरूपसाधुत्वं सुलभमत आह-*तत्स्वरूपमिति* । साधुत्वस्वरूपमित्यर्थः । *वक्ष्यत इति ।
_परीक्षा युवृत्तित्वाभावबोध एवास्तु । तथा सति प्रतियोग्यप्रसिद्धिरपि न भविष्यतीत्युक्तका
र्यकारणभावो न स्वीकार्य इति नैयायिकमतानुसारिणः । __ शङ्काया निरासायाह-*शेषमिति* । यदा कोऽपि पुरुषः पाकं न करोति तस्मिन्कालेऽपि न त्वं पचसीति प्रयोग इष्यते, तदनुपपत्तिः । युष्मद्भिन्नकर्तृकपाकाभावात् । न च देशान्तरे युष्मदिन्नः कर्ताऽस्त्येवेति वाच्यम् ? इदानीमिह 'न त्वं पचसि' 'नाहमिह पचामि' इत्यत्र चानुपपत्तेस्तादवस्थ्यात् । एवं सामान्यादिषु समवायेन सत्ता नास्तीत्यादौ न प्रतियोगिप्रसिद्धिः। तन्मते समवायसम्बन्धावच्छिन्नसामान्यादिवृत्तित्वस्याप्रसिद्धः। सामान्यादिवृत्तित्वस्य समवायसम्बन्धावच्छिन्नप्रतियोगिताकाभावबोधस्तु वक्तुमशक्यः, तादृशाभावस्य व्यधिकरणसम्बन्धावच्छिन्नप्रतियोगिताकतया तादृशाभावतात्पर्यण पृथिव्यादिषु सत्ता नास्तीति प्रयोगापत्तेरिति ॥१६॥ . *उदितं द्वयमिति*--विहितं द्वयम् , षष्टीसप्तमीद्वयम् । “यस्य च भावेन भावलक्षणम्" इति सूत्रेण 'गोषु दुह्यमानासु गत' इत्यत्र लक्षकक्रियाश्रयवाचकात्सप्तम्याः षष्ठी चानादरे" इत्युत्तरसूत्रेण लक्षकक्रियाश्रयवाचकात् षष्ठीसप्तम्योर्विधानात् क्रियायोग एव तयोः साधुत्वमिति भावः ।
*वक्ष्यत इति । साधुत्वनिरूपणावसरे इति शेषः। ननु क्रियाशब्दस्य धात्वर्थ