________________
धात्वर्थनिर्णयः ।
९९
त्यत्राप्यस्तित्वाभाव एव बोध्यते । न हि घटो न जायते, नास्तीत्यनयोर्धात्वर्थभेदमन्तरेणास्ति विशेषः । तथाच - 'भूतले न घट' इत्यत्राप्यस्तीत्यध्याहार्य्यम् । प्रकारतासम्बन्धेन नञर्थविशेष्यकबोधे, धातु
दर्पणः
1
कारणभावबलादित्याह तथाच घट इति । तदेवोपपादयति- न हीत्यादिना । ननु यत्र न क्रियावाचकसमभिव्याहारो भूतले न घट इत्यादौ, तत्र नजा कथं क्रियाप्रतियोगि काsभावो बोधनीयोऽत आह--तथाचेति । *अध्याहार्य्यमिति । 'अस्तिर्भवन्तीपर' इत्यादिभाष्ये क्रियान्तराभावेऽप्यस्तिक्रियामादाय वाक्यपरिपूतिबोधनादिति भावः । *प्रकारतासम्बन्धेनेति । नञर्थाऽभावनिष्ठविशेष्यतानिरूपितप्रकारतासम्बन्धेन शाब्दबुद्धित्वाऽवच्छिन्नं प्रति विशेष्यतासम्बन्धेन धातुजन्योपस्थितेर्हेतुत्वस्य 'न त्वं पचसि' इत्याद्यनुरोधेन क्लृप्तत्वादत्राऽपि तद्बोधोपपत्तयेऽस्त्यध्याहार आवश्यक इति भावः ।
ननु 'त्वं पचसि' इत्यादाविवाऽत्राऽपि नञः पर्युदासद्योतकत्वाऽभ्युपगमाद् युष्मलक्ष्यार्थ - त्वद्भिन्ने सामानाधिकरण्याऽबाधान्न पुरुषव्यवस्थाऽनुपपत्तिः । संख्यायास्तत्राबाधान्न द्विवचनानुपपत्तिरपीति । तादृशकार्य्यकारणभावस्यैवाऽप्रामाणिकतया कथं तदनुरोधोऽस्त्यध्याहारनियामकः । घटो न जायते इत्यादौ प्रसज्ज्यप्रतिषेधाऽर्थंकनञ्स्थले तु यथा नानुपपत्तिस्तथा वक्ष्यते । तथाच भूतले घटो नेत्यादौ । भूतलवृत्तिपरीक्षा
ज्यप्रतिषेधार्थं कनजः क्रियान्वयनियमे च । अध्याहार्य्यमिति । यत्र क्रियावाचिपदं न श्रूयते; तत्र नञर्थान्वययोगिक्रियावाचकं पदमध्याहार्य्यमित्यर्थः । तत्राध्याहृतपदप्रतिपाद्यक्रियाया अनुयोगितासम्बन्धेन नज्जर्थाभावेऽन्वयः ।
यत्तु 'भूतले न घट' इति वाक्यस्य भूतलाधेयत्वाभाववान् घट इत्यर्थ इति, तन्न । कारकाणां क्रिययैवान्वयेन क्रियातिरिक्तेऽन्वयाभावात् । अत एव "सुडनपुंसकस्य" इति सूत्रे नपुंसकस्य न इत्यर्थे न हि नपुंसकेन सामर्थ्यम् ; केन तर्हि भवति, नेति भाष्यं सङ्गच्छते । नञर्थात्यन्ताभावस्य क्रियान्वयनियमस्य सिद्धौ यादृशः कार्य्यकारणभावः सिद्धस्तमाह-- * प्रकारतासम्बन्धेनेति । अत्र प्रकारता कार्य्यतावच्छेदकसम्बन्धो, विशेष्यता च कारणतावच्छेदकसम्बन्धः । प्रकारता चेह नजर्थाभावनिष्ठविशेष्यतानिरूपिता ग्राह्या । ननु 'भूतले न घटः' इत्यत्रास्तीत्यस्याध्याहाराभावेऽपि न क्षतिः । भूतलवृत्तित्वाभाववान् घट इति बोधाङ्गीकारात् । नचैवं सति, अहं नास्मि; घटो नास्तीत्यादौ पुरुषव्यवस्थाया घटा न सन्ति घटौ न स्तः, इत्यादौ वचनव्यवस्थायाश्च कथमुपपत्तिरिति वाच्यम् ? एतादृशे स्थले नञः पर्युदासद्योतकत्वस्याङ्गीकारादस्मच्छब्दस्यास्माद्भिन्ने लक्षणायाः स्वीकारेणास्मदर्थे नजन्तस्य सामानाधिकरण्यस्य त्वं पचसीत्यत्र युष्मत्सामानाधिकरण्यस्य च सत्वात्पुरुषव्यवस्थाया उपपत्तेः । एवं घटो न स्तो, घटा न सन्तीत्यादौ वचनानुपपत्तिरपि न । द्वित्वबहुत्वावच्छिन्ने-आख्यातार्थाश्रयत्वाभावाङ्गीकारात् । एवं घटो न जायते, इत्यस्मादाख्यातलक्ष्यार्थाश्रयत्वाभावबोध एवास्तु । एवं वायौ रूपं नास्तीत्यादौ रूपविशेष्यकवा