SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ दर्पणपरीक्षासहिते भूषणसारेत्यर्थः । उत्तरपदाऽर्थान्वयेऽपि समासविकल्पेन पक्षेऽसमस्तत्वाद् यथाश्रुतग्रहणाऽयोगात् । नचासमस्तनञः क्रियान्वये मानाभावः । न त्वं पचसि, न युवां पचथः, चैत्रो न पचति, घटो न जायते, इत्यादौ क्रियाया एव निषेधप्रतीतेः। ___ अत एव विद्यमानेऽपि घटे तादृशप्रयोगः। तथाच-घटो नास्ती दर्पणः इत्यर्थः ॥ *यथाश्रुतेति ॥ न ब्राह्मणमानयेत्यादौ नजरोपस्य ब्राह्मणादावन्वयेन व्यभिचारापत्तेरिति भावः। निषेधप्रतीतेरिति* ॥ अत्यन्ताऽभावप्रतीतेरित्यर्थः । तथाच तादृशप्रतीतिरेवोक्तनअर्थस्य क्रियान्वयित्वे मानमिति भावः । ___ तस्य प्रतियोगितया युष्मदाद्यर्थाऽन्वयित्वे तु युष्मदादौ लकारवाच्यकर्त्तवाचकत्वरूपसामानाधिकरण्याभावान्मध्यमपुरुषाद्यनुपपत्तियुष्मदर्थप्रतियोगिकाभावस्यैकत्वेन द्विवचनाद्यनुपपत्तिश्चेति सूचयितुं, न त्वं पचसि, न युवां पचथ इत्युक्तम् । एवं चैत्रप्रतियोगिकाभावकर्तृत्वोपगमे पाके तत्कर्तृकत्वबाधः, पाकानुकूलकृत्यभावार्थकत्वे त्वन्मते पुरुषव्यवस्थापकाभावेन कदाचिन्मध्यमोत्तमयोरापत्तिश्चेति बोधयितुं चैत्रो न पचतीत्युक्तम् । अत एवेति । नञः क्रियाप्रतियोगिकाभावबोधकत्वादेवेत्यर्थः॥ ____ *तादृशप्रयोग इति । घटो न जायते इत्याकारक इत्यर्थः । घटस्य विद्यमानतादशायां घटकर्तृकोत्पत्त्यनुकूलव्यापाराभावाऽबाधात् त्वन्मते तु घटाऽभावे उत्पत्यनुकूलव्यापारकर्तृत्वाऽभावादुक्तप्रयोगानुपपत्तिरिति भावः । उक्तरीत्या नजः क्रियाप्रतियोगिकाऽभावबोधकत्वध्रौव्ये, घटो नास्तीत्यत्र घटाऽभावकर्त्तकत्वस्य धात्वर्थे अबाधेऽपि तद्बोधमनादृत्य घटास्तित्वाभावबोधाभ्युपगम उचितो वक्ष्यमाणकार्य परीक्षा तायाः प्राचीननैयायिकसम्मतत्वात् । *असमस्तेति । यथा श्रुतमसङ्गतं समासस्य वैकल्पिकत्वेन समासाभावेन ब्राह्मण इत्यत्र ब्राह्मणपदार्थ एवान्वयदर्शनेन व्यभिचारप्रसङ्गादित्याह--*उत्तरपदार्थेति । उत्तरपदार्थत्वेनाभिप्रेतेत्यर्थः। ____ असमस्तनञः--क्रियायामेवान्वय इत्येतत्साधयति-*न चेत्यादिना*। *न त्वं पचसीत्यादि । यदि नजर्थस्य विशेष्यतया युष्मदर्थेऽन्वयः स्यात्तदा सम्बोध्याभावस्य कर्तृत्वापत्तौ युष्मत्सामानाधिकरण्याभावेन पुरुषव्यवस्था न स्यात् , तथाऽभावस्यैकत्वेनैकवचनमेव स्यात्, न तु द्विवचनादिरपीति भावः। *अत एव*-प्रसज्यप्रतिषेधीयननः क्रियान्वयनियमादेव । *तथा प्रयोगः*--घटो न जायते इति प्रयोगः । यदि नञः क्रियायामन्वयस्तदा घटकर्त्तकोत्पत्यनुकूलव्यापारस्य सत्वेन तादृशप्रयोगस्योपपत्तिर्भवति। यदि तु नजथे घटस्य प्रतियोगितयाऽन्वयः, तदा घटाभावकर्तृकोत्पत्यनुकूलव्यापारस्य प्रतीतिर्वाच्या, तथाच बाध इति भावः। नचैवमपि लडर्थवर्तमानत्वस्य धात्वर्थ एवान्वयो वाच्यः। तथाच घटकर्तृकवर्तमानोत्पत्यनुकूलव्यापाराभावबोधो वाच्यः। स च न सम्भवतिः वर्तमानस्य तादृशप्रतियोगिनोऽप्रसिद्धेरिति वाच्यम् ? बौद्धस्य प्रतियोगिनः प्रसिद्धः। एवमेव वायौ रूपं नास्तीत्यादौ बौद्धस्य वाय्वधिकरणरूपकर्तृकसत्ताश्रयत्वस्य प्रतियोगिनः प्रसिद्धिर्द्रष्टव्या । *तथाच*-प्रस
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy