SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः । ९७ *प्रथमो वतिः* ॥ “तेन तुल्यं क्रिया चेद्वतिः " (पा०सू० ५।१।१५) इति विहितः । तत्र यत्तुल्यं सा क्रिया चेदित्युक्तत्वात् ॥ धातुसम्बन्धाधिकारे - "धातुसम्बन्धे प्रत्ययाः" (पा० सू० ३।४।१) इत्यधिकृत्य तेषां विधानात् । *असमस्तनञ्*॥ समासायोग्यः प्रसज्ज्यप्रतिषेधीयो नञि - दर्पणः स्यौचित्यात् । अत एव “गतिकारकोपपदा कृत्" (पा०सू० ६।२।३९१) इत्यादौ कारकशब्दस्यापादानादिपरता सङ्गच्छते । " कारके" इति तु प्रथमार्थे सप्तमीत्याहुः ॥ *इत्युक्तत्वादिति* ॥ तथाच ब्राह्मणवदिति वृत्तौ ब्राह्मणशब्दस्य ब्राह्मणकर्त्तका - ध्ययनपरतया तत्तौल्यवत्यर्थसमभिव्याहृताध्ययनक्रियायां ब्राह्मणकर्तृकाध्ययनतुल्यमेककर्तृकमध्यययनमिति ब्राह्मणवदधीत इत्यतो बोधः । “तत्र तस्येव" इति विहितवर्द्रव्यगुणान्वयित्वान्मूले प्रथम इत्युक्तम् ॥ *विधानादिति ॥ तत्र धातुशब्दस्य धात्वर्थपरताया ' वसन् ददर्श' इत्यत्राऽतीतवासकर्त्तृकर्तृकं दर्शनमित्यादिरीत्या बोधादिति भावः ॥ *प्रसज्ज्येति* । प्रतिषेधशब्दः कर्मघञन्तो बाहुलकात् । प्रसज्ज्याऽऽपाद्य प्रतिषेधः-प्रतिषेधविषयः प्रतियोगी यस्य तादृशाऽभावोऽर्थो यस्येति व्युत्पत्त्याऽभावार्थक परीक्षा त्पत्तिप्रदर्शनपरग्रन्थात्कारकत्वं क्रियाजनकत्वमेव । अत एव कारकाणां क्रियान्वयित्वमिति वाक्यस्य नावबोधकता । अत एव च "अकथितं च" इति सूत्रे कारकपदस्य 'ब्राह्मणस्य पुत्रं पन्थानं पृच्छति' इत्यत्र ब्राह्मणशब्दस्य कर्मसञ्ज्ञाऽभावः प्रयोजनं ब्राह्मणस्यान्यथासिद्ध्या क्रियाजनकत्वाभावादित्युक्तिसङ्गतिः । यदि ' क्रियान्वयित्वं कारकत्वम्' इतिः तदाऽन्यथासिद्धिप्रदर्शनविरोधः स्पष्ट एव । ननु यदि 'क्रियाजनकत्वमेव कारकत्वम्' चेत् कारकस्य क्रियायामेवान्वय इति नियमः कथमिति चेदित्थम् - --क्रियाजनकमिति ज्ञाने का सा क्रिया; यस्या इदं जनकं क्रियायां ज्ञातायामस्याः किं जनकमिति रीत्या परस्या का इक्षादर्शनेन क्रियायां तदन्वयस्यौचित्यमिति । *इत्युक्तत्वादिति । एवं च 'पितृवदधीते पुत्र' इत्यादौ पित्रादिशब्दानां पितृकर्त्तकाध्ययनलाक्षणिकानां प्रकृतित्वेन तदर्थपितृकर्तृकाध्ययनस्य वेत्यर्थसादृश्येऽऽन्वयस्तवधीत इत्यत्र य-इङ धातुस्तदर्थ इति पितृकर्तृकाध्ययनतुल्यं पुत्रकर्तृकमध्ययनमिति बोधः । प्रथम इत्युपलक्षणं " तदर्हम्” इति सूत्रविहितवत्यर्थ सादृश्यस्यापि क्रियायामेवान्वयात् । *विधानादिति । तत्रत्यधातुपदस्य धात्वर्थपरतया धात्वर्थयोः सम्बन्धे - एककालिकत्वादिरूपे - विवक्षिते प्रत्ययानां विधानादित्यर्थः । एवं च प्राधान्येन या क्रिया प्रतीयते तस्या यत्- कालिकत्वं तस्मिन् काले गुणीभूतक्रियावाचिभ्यः प्रत्ययविधानाद् ' वसन् ददर्श' इत्यत्र दर्शनरूपक्रियायाः प्राधान्यात्तदनुरोधेनाप्रधानवासक्रियावाचकाद्वस्धातो ते लट् प्रत्ययः । अतीतवासकर्तृ कतृकं भूतानद्यतनपरोक्षमेककर्तृकमतीतं दर्शनमिति बोधः । * प्रसज्यप्रतिषेधीय इति* । प्रतिषेधशब्दे कर्म्मणि घञ् । प्रसज्य -- आपाद्य प्रतिषेधः - प्रतिषेधविषयो यस्य वाचकः स इति व्युत्पत्या अत्यन्ताभावार्थक इति फलितम् । प्रतियोग्यारोपस्याभावज्ञाने कारण१३ ५० प०
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy