SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ _धात्वर्थनिर्णयः। १०५ एवं कर्नादौ विहितानामिन्यादीनां क्रिययैवान्वय इत्याह अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः॥ क्रिया सम्बध्यते तद्वत् कृतपूर्व्यादिषु स्थिता ॥१९॥ नविविच्य ग्रहो ग्रहणं यस्याः सा अविग्रहा गुणीभूतेति यावत् । तथा च ग्रामं गत इत्यत्र यथा-क्तप्रकृत्यार्था गुणीभूतापि क्रिया प्रामादिकर्मभिः सम्बध्यते; तथा कृतपूर्वी कटमित्यत्रापि । दर्पणः सेति नोक्तनियमे व्यभिचारः । 'भूतले न घटः' इत्यादौ यद वक्तव्यं तत्तूक्तम् । वक्ष्यते वाधिकमिति भावः ॥१८॥ कृतपूर्वीत्यत्र भावविहितक्तेन सिद्धाऽवस्थापन्नो भाव उच्यते । तद्विशेषणं च प्रकृत्यर्थक्रियेत्याशयेन मूलमवतारयति-*एवमित्यादिना । कळदावित्यादिना भावपरिग्रहः । इन्यादीनामित्यादिना क्त्वातुमुनादीनाम् । *सम्बध्यते इति । कारकप्रकारकबोधं प्रति विशेष्यतया धातुजन्यभावनोपस्थितेहेतुतायाः पूर्वमुक्तत्वादिति भावः॥ *कृतपूर्वी कटमिति । नन्वत्र कर्मणि क्ते कटशब्दादनभिहिताऽधिकारीयद्वितीयानुपपत्तिः । भावे क्तस्तु सकर्मकाद्गगनकुसुमायमान एव । तयोरेवेति नियमात् । अत एव नपुंसके भावेऽपि न सः, तथाच कथमुक्तदाान्तिकवाक्योपपत्तिरिति चेदत्राहुः-- कर्मणो विशेषरूपेण प्रागविवक्षया अकर्मकत्वाद्भावे प्रत्यये तदन्तस्य पूर्वशब्देन समासे “सपूर्वाच्च" इतीनिः, पश्चात्तु कर्मणो विशेषरूपस्य विवक्षया तत्र द्वितीयेति । इदं च "कर्तृकर्मणोः कृति" ( पा० सू० २।३।६५ ) इति भाष्ये स्पष्टम् । ईदृशविवक्षाऽविवक्षे . परीक्षा इतिरीत्या त्यागोपादानाभ्यामर्द्धजरतीसादृश्यम् । एवं च स्वसिद्धान्तानुरोधेन 'भूतले न घट' इत्यस्यान्वयबोधजननायास्तीति पदमध्याहार्य्यम् । 'पर्वतो वह्निमान्' इत्यत्रापि भवितुमर्हतीति पदमध्याहार्यम् । प्रतिज्ञावाक्यमपि 'पर्वतो वह्निमान्भवितुमर्हति' इत्याकारकमेव प्रयोक्तव्यम् । तत्रार्हणक्रियायामुदाहरणवाक्यघटकवतिप्रत्ययार्थसादृश्यस्यान्वयः । वत् प्रकृातमहानसादिशब्दानां महानसादिकर्तृकभवने लक्षणा च स्वीकार्यो । “तेन तुल्यम्" इत्यनुशासनानुरोधादिति भावः ॥१८॥ ____ *एवम्*-उक्ताष्टकवत् । *कादावित्यादिना*-भावस्य । *इन्यादिना*-इत्यादिना-क्वातुमुनादीनां च परिग्रहः । तत्र कारकप्रकारकबोधं प्रति धात्वर्थभावनोपस्थितेः कारणता पूर्वमुक्तैव । क्त्वान्तार्थस्य तत्रान्वये प्रमाणन्तु "समानकर्तृकयोः पूर्वकाले” इति सूत्रमेव । एवम्-"तुमुन्ण्वुलौ” इति सूत्रेऽपि क्रियार्थायां क्रियायामित्युक्तिरिति । ___ ननु कृतपूर्वीत्यत्र कर्मणो विशेषेण रूपेण प्रागन्वयाविवक्षया कृधातोरकर्मकत्वं सम्पाद्य तस्माद्भावे प्रत्ययः स.च सिद्धावस्थां क्रियामभिधत्ते इति । तस्या धात्वर्थभावनाया विशेषणत्वात्कथं तत्र पुनः कर्मणोऽन्वय इत्याशङ्कानिरासायाह-*अविग्रहे १४ द. प०
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy