SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १०६ दर्पणपरीक्षासहिते भूषणसारेगुणभूता इन्यादिभिरित्यर्थः। नच वृत्तिमात्रे समुदायशक्तेर्वक्ष्यमाणत्वात् तत्रान्तर्गता भावना पदार्थेकदेश इतिकथं तत्रान्वय इति वाच्यम् । नित्यसापेक्षेष्वेक दर्पणः च तद्भाष्यप्रामाण्यात् कृतपूर्वीत्यादिविषये एव, नाऽन्यविषय इति बोध्यम् । *इन्यादिभिरिति । तदर्थकादिभिरित्यर्थः । वस्तुतस्तु दार्शन्तिके स्ववाचकप्रकृतिकप्रत्ययार्थेऽन्यस्मिन् वा गुणीभूतकटादिकर्मभावादिभिरिति व्याख्येयम् । नातः, कृतपूर्वीति प्रयोगघटकक्तस्य धात्वर्थाऽनुवादकत्वेऽपि क्षतिः। पूर्वकालिकक्रियाकर्तेति ततो बोधेन तादृशक्रियाया इन्यर्थकर्तरि गुणत्वात् । नाप्ययं भावाधिकारीयस्वातन्त्र्येणाऽप्रयोगात् । अत एव 'भोक्तुं गतमेतेन' इत्यादिप्रयोगोपपत्तिः । भावाऽनधिकारीयभावविहितप्रत्ययस्य धात्वर्थानुवादकत्वात्प्रकृत्यर्थक्रियाया अगुणत्वात्। एवम् “अव्ययकृतो भाव" इत्युक्ते पाक इत्यादिप्रयोगस्थघमर्थात्तुमुनाद्यर्थे वैलक्षण्यानुभवात् तुमुनादीनामपि साध्यमात्रस्वभावभावार्थकत्वमित्यन्यत्र विस्तरः। *वृत्तिमात्रे इति* । मात्रपदं कृत्स्नार्थकम् । *वक्ष्यमाणत्वादिति । 'समासे खलु भिन्नैव' इत्यनेनेत्यादिः । तत्र समासपदस्य वृत्तिसामान्यपरत्वेन व्याख्यास्यमानत्वादिति भावः । *कथमिति* । गत इत्यादौ कृवृत्तिसत्त्वेन गमनकर्तृरूपगतपदार्थकदेशभावनायां कान्वयासम्भवाद् दृष्टान्तासिद्धिरिति भावः । नित्यसापेक्षस्थले हि पक्षद्वयम् । 'चैत्रस्य गुरुकुलम्' इत्यत्र विशेषणस्य चैत्रादेर्गुर्वादिद्वारकसम्बन्धेन कूलादिरूपविशेष्य एवान्वय इति तत्रैकः पक्षः । सचोक्तो हरिणा समुदायेन सम्बन्धो येषां गुरुकुलादिना। संस्पृश्यावयवांस्ते तु युज्यन्ते तद्वता सह ॥ इति । उक्तस्थले समुदायनिरूपितसम्बन्धे षष्ठी अवयवद्वारकश्च समुदायेन सम्बन्ध इति सामर्थ्याद् अवयवमपीति विशेषणं स्पृशतीति तदर्थः । अपरस्तु गुर्वादिनिरूपितसम्बन्धे एव, देवदत्तस्येति षष्ठी तत्रैव तदन्वयः । उक्तञ्च सम्बन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते। वाक्यवत्सा व्यपेक्षा हि वृत्तावपि न हीयते ॥ इति । नित्यमपि साऽपेक्षपदार्थाऽन्वयि, हि-यतो देवदत्तस्य गुरोः कुलमित्यादिव्यस्ते या व्यपेक्षा सा समासेऽपि न हीयत इति कारिकार्थः । ‘पदार्थः पदार्थेनाऽन्वेति' इति परीक्षा त्यादि । *इन्यादिभिरिति । इन्याद्यर्थकादिभिरित्यर्थः। ननु दृष्टान्ते प्रकृत्यर्थ क्रियायाः स्ववाचकप्रकृतिकप्रत्ययार्थे गुणत्वात्तस्यां बहिर्भूतग्रामादिपदार्थान्वयः । दान्तिके तु न तस्यामिन्प्रत्ययार्थक रन्वय इति वैषम्यमिति चेद ? न। विशेष्यत्वविशेषणत्वाभ्यां वैषम्येऽपि परान्वयित्वमात्रे दृष्टान्ततयोपपादनात् । तत्राय विशेषः-दृष्टान्ते गुणीभूता क्रिया ग्रामादिकर्मभिः साक्षादन्वेति, दार्शन्तिके तु गुणीभूता क्रिया परम्परयाऽन्यस्मिन् विशेषणमिति । एककटाभिन्नायिका या उत्पत्तिस्तदनुकूलव्यापारवानिति ह्यस्माद बोधः। - *वक्ष्यमाणत्वादिति । “समासे खलु” इत्यादिनेत्यादिः। *कथमिति । गौ
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy