SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ दर्पणपरीक्षासहिते भूषणसारेदकानामनुगमकस्य सत्त्वात् । आख्याते क्रियैकत्वव्यवस्थापि ; अवच्छेदकबुद्धिविशेषैक्यमादायैव । उक्तंच वाक्यपदीये "गुणभूतैरवयवैः समूहः क्रमजन्मनाम् । ..... बुद्धया प्रकल्पिताऽभेदः क्रियेति व्यपदिश्यते ॥" इति । धात्वर्थ निरूप्य तिर्थमाह___*आश्रये विति* । फलाश्रये, व्यापाराश्रये चेत्यर्थः । फलाश्रयः कर्म, व्यापाराश्रयः कर्ता । तत्र फलव्यापारयोर्धातुलभ्यत्वान्न तिङस्तदंशे शक्तिः । अन्यलभ्यत्वात् । शक्यतावच्छेदकं चाश्रयत्वं; दर्पणः भाष्यासङ्गतिरत आह-*आख्यातेति । निर्विभक्तिकः पाठः साधुः। आख्यातप्रतिपाद्यक्रियैकत्वव्यवस्थापीत्यर्थः । सविभक्तिकपाठे सप्तमी वैषयिकाधारे अध्याहृतज्ञानक्रियामादाय बोध्या। *बुद्धिविशेषैक्यमिति* । सङ्कलनरूपबुद्धिविशेषात्मकविच्छेदकैक्यमादायेत्यर्थः । तथाचावयवाऽऽश्रयं पौर्वापर्य्य, समुदायाश्रयमेकत्वमादाय तत्सगतिरिति भावः । तत्र मानमुपन्यस्यति-*उक्तञ्चेति ॥ गुणेति ॥ क्रमिकैतव्यापारसमूहं प्रति गुणभूतैस्तत्तद्रूपेण भासमानैरवयवैरुपलक्षितः सङ्कलनात्मकैकत्वबुद्धया प्रकल्पितोऽभेदो यस्य तद्रूपः समूहः क्रियेति व्यवह्रियते इति कारिकार्थः। तत्र क्षणनश्वराणां व्यापाराणां वस्तुभूतसमुदायाऽभावाद् , बुद्धयेत्युक्तम् । निरूप्येत्यस्य सङ्कपेणेत्यादिः। प्रधानीभूतप्रकृत्यर्थनिरूपणानन्तरं विशेषणप्रत्ययार्थस्याऽवश्यवक्तव्यतयाऽवसरसङ्गत्या तन्निरूपणमित्यभिप्रेत्याह-*तिर्थमिति*। *अन्यलभ्यत्वादिति । __ परीक्षा द्यवच्छेदकावच्छेदकस्य बुद्धिविशेषस्यैक्यादिति भावः। बुद्धिविशेषश्चोपलक्षणीभूतशक्यतावच्छेदकानुगमको न तु विशेषणीभूतेतिः न बुद्धिविशेषस्य शक्यतावच्छेदकांशे विशेषणतया शाब्दबोधे भानापत्तिः। न चैतावताऽनुगमकधर्मस्वीकारेऽप्यनेकशक्यतावच्छेदकत्वमस्त्येवेति नानार्थत्वापत्तिर्न गतेति वाच्यम् ? अनेकशक्यतावच्छेदककत्वं न नानार्थत्वम्, किन्त्वनेकशक्यतावच्छेदकताकत्वम् । यथा सूर्य्यत्वविष्णुत्वादिनिष्ठा हादिशब्दशक्यतावच्छेदकताभिन्नेति तेषां नानार्थत्वम् , तथा न प्रकृते, उपलक्षणीभूतबुद्धिविशेषस्यैकत्वेनानुगतधर्मावच्छिन्नशक्यतावच्छेदकताया एकत्वादिति भावः । ननु “प्रशंसायाम्" इति सूत्रभाष्ये-एका क्रियेति व्यवहारो दृश्यते तस्य कथमुपपत्तिः, यावता बहूनां व्यापाराणां भवन्मते विशेषधर्मपुरस्कारेण शक्यत्वादत आह-आख्यात इति । गुणभूतरिति । समूह प्रतीत्यादि। *अवयवैरिति । युक्त इति शेषः । अवयवानां गुणभूतत्वं च तत्तद्रूपेण भासमानत्वम् । *क्रमजन्मनामिति । इदं युगपदनुपस्थापने हेतुः । बुद्धया प्रकल्पिताभेदः*-सङ्कलनात्मकैकत्वबुद्धया प्रकल्पिताभेदः, इदं समूहस्य विशेषणम् । एतेन पूर्वापरीभूतावयवानां युगपदसन्निधानेनैका क्रियेति भाष्यीयव्यवहारासमतिरिति निरस्तम् । तिङन्तजन्यशाब्दबोधे धात्वर्थस्य प्राधान्येन भानात्तन्निरूप्य प्रत्ययार्थ वक्तुमुपक्रमते-*धात्वर्थमिति । *अन्यलभ्यत्वात्-धातुलभ्यत्वात् । 'अनन्यलभ्यो हि
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy