________________
धात्वर्थनिर्णयः । न च नानार्थताऽऽपत्तिः, तदादिन्यायेन बुद्धिविषेशादेःशक्यताऽवच्छे
दर्पणः विप्रतिपत्तिस्तु स्वीयबोधानुसारादेवेति भावः । *न च नानेति। नानाधर्मावच्छिन्नशक्तिनिरूपकतावच्छेदकैकधर्मवत्त्वं नानार्थत्वम् । तच्च पच्यादावक्षतमिति भावः । फलांशमादाय तत्त्वं त्वाशङ्कितुरपीष्टमेवेति बोध्यम् । *बुद्धिविशेषादेरिति। स्वनिरूपितविषयतावच्छेदकत्वसम्बन्धेनेति शेषः बुद्धिविशेषविषयतावच्छेदकत्वस्येति यावत् । अयं भावः तदादिभ्यश्चैत्रत्वादितत्तद्रूपेण बोधः सर्वानुभवसिद्धः । स च चैत्रत्वाद्यनुगमकधर्म विनाऽनुपपन्न इति बुद्धिविशेषविषयतावच्छेदकत्वं तदनुगमकधर्ममङ्गीकृत्य तदनुगतीकृततदवच्छिन्नेषु चैत्रादिषु तदादीनां शक्तिः । बुद्धिविशेषविषयतावच्छेदकत्वस्योपलक्षणत्त्वोपगमाच्च न चैत्रत्वादीनां तेन रूपेण शाब्दबोधे भानापत्तिः । अनुगतनानाधर्माऽवच्छिन्नशक्तिनिरूपकताऽवच्छेदकैकधर्मवत एव नानार्थत्वम् , न तेषां तदपीति तदादिशक्तिनिरूपणे निर्णीतमन्यत्र, तद्वदिहाप्यवसेयमिति ।
ननु पूर्वापरीभूतक्षणनश्वरक्रमिकव्यापाराणां मेलनाऽसम्भवात्तदात्मकक्रियाया अनैक्याद् 'एका च क्रिया' इति "प्रशंसायाम्" (पा० सू० ४।२।६६) इति सूत्रस्थ
परीक्षा फूत्कारत्वादेर्व्याप्यस्य ज्ञानकाले व्यापकव्यापारत्वावच्छिन्नज्ञानवान् भवतीति तथा व्यजनेन प्रज्वलनकालेऽपि व्यापारत्वावच्छिन्नविषयकज्ञानवान् स्यादिति प्रयोगं कुर्यात् । ] न च विशेषधर्मस्यैव शक्यतावच्छेदकत्वे पचतीत्यादिशब्दाद्विशेषपचतीति शब्दधर्मप्रकारक एव बोधो भविष्यति न तु सामान्यधर्मप्रकारक इति पचति चैत्र इति वाक्यजन्यशाब्दबोधस्य विक्लित्यनुकूलव्यापारवान्नवेति संशयनिवर्तकत्वं न स्यादिति वाच्यम् ? विशेषधर्मस्य व्याप्यतया व्याप्यज्ञानस्य व्यापकधर्मज्ञानं प्रति हेतुतया विशेषधर्मज्ञानानन्तरं व्यापारत्वप्रकारकज्ञानमपि भवतीति कल्प्यते,तेन प्रतिबन्धान तादृशः सन्देहः। तच्च ज्ञानमनुमितिरूपम् , मानसं वा व्यञ्जनावृत्तिस्वीकारेशाब्दबोधरूपं वेत्यन्यदेतत् । यदि फूत्कारादिव्यापाराणां फूत्कारत्वाधःसन्तापनत्वादि विभिन्नरूपेण वाच्यताः तदा बहूनां धर्माणां वाच्यतावच्छेदकतयाऽनेकशक्यतावच्छेदकत्वे सत्येकशक्यतावच्छेदकवत्वं नानार्थत्वम् । तच्च पच्यादेःप्राप्नोति ।नचेष्टापत्तिः, नानार्थहर्यादिशब्दस्थले विजातीयप्रकरणादिभेदः शक्ततावच्छेदकनियामको भवति, तथाऽत्र नास्ति पचतीत्यादिशब्दप्रयोगे नानाधर्मप्रकारकप्रतीतेरनुभवसिद्धत्वादित्याशङ्य निराचष्टे-*न चेत्यादिना*। फलांशमादाय नानार्थत्वं तु शकस्याप्यनुमतमेव । न च व्यापारांशमादाय धातूनामनेकार्थत्वव्यवहारोऽपि सर्वसम्मत एव सेधतेर्गताविति सूत्रे गतिग्रहणादिति वाच्यम् ? फलभेदमादाय तत्तत्फलतावच्छेदकधावच्छिन्नकार्यतानिरूपितकारणताश्रयव्यापाराणां या प्रतीतिस्तामादायानेकार्थत्वव्यवहारो : न तु फलतावच्छेदकधर्मस्यैकत्वे तथेत्याशयः। *तदादिन्यायेनेति । तदादिशब्दस्थले यथा स्वीयविषयतावच्छेदकत्वसम्बन्धेन बुद्धिविशेषोपलक्षितचैत्रत्वमैत्रत्वाद्यवच्छिन्ने तदादिशब्दानां शक्तिस्वीकारेऽपि तदादीनां न नानार्थत्वव्यवहारस्तथा धातूनामपि स्वीयविषयतावच्छेदकत्वसम्बन्धेन वक्तृसमवेतबुद्धिविशेषोपलक्षितफूत्कारत्वाद्यवच्छिन्ने पच्यादीनां शक्तिस्वीकारान्न नानार्थत्वम्। फूत्कारत्वा