SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ १२ . दर्पणपरीक्षासहिते भूषणसारेवच्छेदकरूपं(१)साध्यत्वम् । तद्रूपवत्त्वमसत्वभूतत्वम् । एतदेवाऽऽदाय ____ असत्त्वभूतो भावश्च तिङ्पदैरभिधीयते । इति वाक्यपदीयमिति द्रष्टव्यम् ॥ अयं च व्यापारः फूत्कारत्वाधःसन्तापनत्वयत्नत्वादितत्तद्रूपेण वाच्यः। पचतीत्यादौ तत्तत्प्रकारकबोधस्याऽनुभवसिद्धत्वात् । दर्पण: “जातिमन्ये क्रियामाहुरनेकव्यक्तिवर्तिनीम् । असाध्या व्यक्तिरूपेण सा साध्येवोपलक्ष्यते ॥" । इति वाक्यपदीयं चात्र कल्पे मानमित्याहुः। साध्यत्वासत्त्वभूतपदयोः पर्यायतामाह-*तद्रूपवत्त्वमिति । एतदेवेति ॥ निरुक्तरूपासत्त्वभूतत्वमेवेत्यर्थः । *असत्त्वभूत इति । "भावप्रधानमाख्यातम्" (निरुक्ते १ अ० १ ख०) इति निरुक्तार्थप्रतिपादकमेतत्। 'सत्त्वस्वभावमापन्ना व्यक्तिर्नामभिरुच्यते।' इति अस्य पूर्वार्द्धम् । *भावश्चेति । चोऽवधारणे; उक्तभाव एवेत्यर्थः । तेन सत्त्वभूतस्य तस्य व्यवच्छेदः ॥ तिड्पदैरिति बहुवचनस्वारस्येन तिङन्तपदैरित्यर्थः । *अभिधीयते*-बोध्यते इत्यर्थः। अभिधीयते इत्यस्य प्राधान्येनैवेति शेषः। तेन कृदन्तपदैरसत्त्वावस्थभावाभिधानेऽपि न क्षतिरितिभावः। तिङन्तपदैरितिभावाssख्याताभिप्रायेणेति कश्चित् ।। ___ *अयं चेति । साध्यत्वेन प्रतीयमानो व्यापारश्चेत्यर्थः । *वाच्य इति । पचत्यादिशक्य इत्यर्थः । *अनुभवसिद्धत्वादिति । अत एव व्यजनादिना वह्निप्रज्वलनदशायां फूत्कार एव गृहीतशक्तिकस्य न पचतीतिप्रयोगः । यागे, इच्छा, ज्ञानं वेति परीक्षा यत्तु-क्रियायाः साध्यत्वं तदेवासत्वभूतत्वमित्याह-*तद्रूपवत्वमिति । अत एव वाक्यपदीये हरिणा सत्वस्वभावमापना व्यक्तिर्नामभिरुच्यते। असत्वभूतो भावस्तु तिपदैरभिधीयते ॥१॥ .. इत्युक्तम् । तिङ्पदैः-तिङन्तैः पदैः । अत एव "भावप्रधानमाख्यातम् , सत्वप्रधानानि नामानि इति निरुक्त उक्तम् । व्यापारस्य धातुवाच्यत्वं न व्यापारत्वेनैवः किन्तु फूत्कारादिनिष्ठफूत्कारत्वादिना। अत एव पचतीत्यादिवाक्यजन्यशाब्दबोधानन्तरं तत्तद्धर्मप्रकारकसन्दहानुदयः सङ्गच्छत इति इत्याह-*अयञ्चेति। *अनुभवसिद्धत्वादिति। अत एव यस्य पुरुषफूत्कारत्वावच्छिन्न एव पधातोः शक्तिग्रहः, स व्यजनेन वह्निप्रज्चालनदशायां पचतीति शब्दप्रयोग न करोति। यदि व्यापारत्वं वाच्यतावच्छेदकं भवेत्तदा (१) रूपत्वमिति पाठः।।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy